अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1896, कुल 2600 में से
संदर्भ में पढ़ेंपेयात्, यः कामयेतामुष्मिन् मे लोकेऽर्धुक९ स्यादिति चतुरोग्रेऽथ त्रीनथ द्वाव- थैकमेषा वै परोवरीयस्यवान्तरदीक्षे'ति पठितम् । अस्य दीक्षाप्रकरणे पठितत्वात् दीक्षां विनोक्तरीत्या व्रते तु न परोवरीयस्त्वम्, एवं भक्तिप्रकरणीयानामथर्व- णोपनिषदाद्युक्तरूपाणां न भक्तिरहितोपास्यत्वम् । ज्ञानसाधनत्वेन विष्णुस्मर- णादावपि क्रियमाणे भक्तित्वं नेति । भाष्यप्रकाशः। विवृण्वन्ति अस्मिन्नित्यादि । इदं वाक्यं तैत्तिरीयसंहिताषष्ठकाण्डद्वितीयाध्यायस्थम् । अर्थस्तु, अहीनाख्ये सोमयागे अहीनसतत्रे च उपसद्दिनसंख्यां पूर्वं विधाय तेषु दिनेष्ववान्तरदीक्षा- ङ्गव्रतपानस्तनसंख्यां विधत्ते, तत्रावान्तरदीक्षा द्विविधा, योऽस्मिन् लोके समृद्धिशीलं फलं कामयते, तस्याराग्रावान्तरदीक्षा, सोमक्रयदिने सायमेकस्तनम्, अपरेद्युः प्रातद्वौं स्तनौ, सायं त्रीन् स्तनान्, परेद्युः प्रातश्चतुरः स्तनान्, एवं पाने आराग्रावान्तरदीक्षा सिध्यति । सा पूर्वमुक्ता । आरं बलीवर्दप्रतोदनलोहम्, तद्वदग्रं मुखं यस्याः सा आराग्रा । तदग्रे परोवरीयसीवाक्येऽन्या । तत्र विपरीतं व्रतम्, सोमक्रयणदिने चतुरः स्तनान् दुह्युः, अपरेद्युः प्रातस्त्रीन्, सायं द्वौ, परेद्युः प्रातरेकमित्येवं दिनत्रय इति । तेन सिद्धमाहुः अस्येत्यादि । तथाच तत्तद्भक्तिमतां तथा तथोपासनापरिपाके तत्र ब्रह्मत्वस्यानुभवाद्ब्रह्मत्वशङ्कोदयः । अभक्तशङ्कामात्रेण तु न तत्र तद्भाव इति तेषां ब्रह्मत्वं निर्विघ्नमित्यर्थः । ननु ज्ञानार्थमपि विष्णुस्मरणादेः क्रियमाणत्वात् कथं न तेषां रूपाणां भक्तिरहितोपास्त्वमित्यतः आहुः ज्ञानेत्यादि । इदं भक्तिहंसे प्रपञ्चितम्, अतो नात्र व्युत्पाद्यते । रश्मिः। सूत्रम् । विषयेति । परोवरीयस्त्वं विशेषेण सिनोति बध्नातीति विषयस्तत्प्रतिपादकवाक्यस्योदाहरणेन । तैत्तिरीयेति । क्वचिदध्यायशब्दः यथा महीधर्यां शाखाभेदेन । उपसद्दिनेति । ...........। अवान्तरेति । अवान्तरा दीक्षा तस्या अङ्गव्रते पाने स्तनानां संख्यां एकत्वद्वित्वत्रित्वचतुष्टयरूपां संख्याम् । समृद्धीति । अर्धुकपदार्थः । सोमेति । 'अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति' तद्दिने । यस्या इति । दीक्षायाः । तेन दीक्षारूपषष्ठमिति ज्ञायते । अस्येत्यादीति । अस्य परोवरीयसः । परोवरीयो व्रतम्, दीक्षान्तःपातित्वात् । उक्तरीत्येति । स्तनपानोक्तरीत्या । व्रते तु नेति । यतः परोवरीयसी दीक्षेति भावः । भक्तीति । भक्तिप्रकरणं 'किं भजन'मिति प्रश्ने, 'भक्तिरस्य भजनं तदि- हामुत्रफलभोगनैराश्येनामुष्मिन्मनःकल्पनमेतदेव च नैष्कर्म्य'मिति श्रुतेः । भक्तिप्रकरणीयानां गोपाल- कृष्णगोविन्दानाम् । आदिना यजुराद्युक्तरूपाणाम् । अथर्वणशब्दः स्वार्थेऽण्प्रत्ययान्तः । ह्रस्वश्छान्दसः । न भक्तीति । उपासनाशेषरूपा भक्तिः । श्रीभागवते 'यद्यनीशो पारयितु'मित्यादिनैकादशस्कन्ध एकादशेऽध्याये । एवमुपासनायाः विभूतिविषयकत्वं यत्तद्वारयन्ति, परिपक्वोपासनायाः मनःकल्पनरूप- भक्तित्वोक्त्या । तथाचेति । भक्त्या मनोव्यापारविशेषोपासनापरिपाके मनःकल्पनरूपत्वादङ्गत्वमिति तत्र भक्तिविषये ब्रह्मत्वस्य पुरुषोत्तमत्वस्यानुभवाद्धिषये न अब्रह्मत्वशङ्कोदयः ब्रह्मभिन्नविभूतित्वशङ्कोदयः । विषये ब्रह्मत्ववत् उपासकेपि भक्तत्वं प्राप्तमित्याशयेनाहुः अभक्तेति । तत्र तदिति । उपासना- विषयेऽब्रह्मत्वबोधः । उपासनाङ्गभक्तावुक्त्वा ज्ञानाङ्गभक्तावाहुः नन्विति । 'यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसंप्रयुक्त'मितिवाक्याज्ज्ञानार्थमि- त्यादिः । तेषामिति । ज्ञानविषयाणां रूपाणाम् । ज्ञानेत्यादीति । भक्तित्वं नेति । किन्तूपासनाशे-