अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1901, कुल 2600 में से
संदर्भ में पढ़ेंव्याप्तेश्च समञ्जसम् ॥ ९ ॥ अथेदं विचार्यते । उपास्येषु रूपेषु बाल्यपौगण्डादिकमप्युच्यते । तथा सति विग्रहे न्यूनाधिकभाव आपततीति तत्रोक्तं सच्चिदानन्दत्वमनुपपन्नं स्यात् । तेषां सर्वैकरूपत्वात् । प्राकृतत्वे च सर्वमसमञ्जसं स्यादिति प्राप्ते, आह व्याप्ते- रिति । 'सर्वतः पाणिपादान्त'मित्यादिश्रुतेः साकारमेव व्यापकमिति । चकारात् 'सर्वरस' इति श्रुत्या रसात्मकत्वेन भक्तानां यादृशरूपेण लीलारसानुभवः, भाष्यप्रकाशः। व्याप्तेश्च समञ्जसम् ॥ ९ ॥ अतः परं पुनर्ब्रह्मगतानेवान्यान् धर्मान् अवताररूपान् विचारयतीत्याशयेन सूत्रमवतारयन्ति अथेत्यादि । तथा सतीति । अवस्थावत्त्वे सति । तत्रोक्तमिति । तेषु रूपेषु श्रुत्युक्तम् । तेषामिति । ब्राह्माणां सच्चिदानन्दानाम् । सर्वमिति । उपास्यरूपेषु साधितं ब्रह्मत्वं तेषां ब्रह्मत्वेनोपासने श्रुतिविरोधपरिहारादिकं च । इति प्राप्ते, आहेति । एवमवतारेष्ववस्थाविशेषदर्शनेन पूर्वसाधितस्य वैयर्थ्ये तत्परिहारमाहेत्यर्थः । व्याकुर्वन्ति सर्वत इत्यादि । क्रमेणेति । कालोपाधिक्रमेण । तथाचासामञ्जस्यं तदा स्यात्, यदि विग्रहस्य प्राकृतत्वं तस्मिन् विग्रहे न्यूनाधिकपरिमाणवत्त्वं च कालोपाधिजन्यं स्यात्, तन्तु नास्ति, किन्त्वावरणापसारण आकाशस्येव व्यापकत्वसच्चिदानन्दविग्रहस्यावरणभूताया योगमायायाः रश्मिः। व्याप्तेश्च समञ्जसम् ॥ ९ ॥ ब्रह्मगतानीति । 'श्रीकृष्णो ह वै परमं दैवत'मिति श्रुतेः। 'कृष्णस्तु भगवान् स्वय'मिति स्मृतेश्च । अथेत्यादीति । अवतारस्यावतार्यैक्येऽप्यवतारत्वेन भिन्नप्रक्रम आनन्तर्य वाथशब्दार्थः । भाष्ये । उच्यत इति । श्रीभागवते कृष्णस्य 'कौमारं जहतुर्व्रजे' 'ततश्च पौगण्डवयःश्रितौ व्रजे' इत्यादिभिः । गोपालतापिनिये 'ते होचुरूपानमेतस्य परमात्मनो गोविन्दस्या- खिलधारिणो ब्रूही'ति मुनिपृष्टो ब्राह्मणः 'एतस्यैव यजनेन चन्द्रध्वज' इत्याद्याह । यजनमवतारस्य तन्मूर्तेर्वा । बाल्यपौगण्डाद्यवस्थावतो मूर्तेरयुक्तत्वमित्याशयः । अवतारभजनं नन्दादेर्वाय्वर्कस्य च । कृष्णमूर्तेर्भजनं मरुताम् । 'चतुर्धा मरुतो यजन्ती'ति श्रुतेः । श्रुत्योक्तमिति । श्रुतिस्तु 'सच्चिदानन्द- रूपाय कृष्णायाक्लिष्टकारिण' इति । रामरूपे वाल्मीकिरामायणे बाल्यपौगण्डायोऽवस्थाः । श्रुतिस्तु 'यो वै श्रीरामचन्द्रः स भगवान्यः सच्चिदानन्दैकरसात्मा भूर्भुवःस्वस्तस्मै नमो नम' इति । तद्भजनं वृषभध्वजस्य । तथाच श्रुतिः 'श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तरसहस्रैस्तु जपहो- मार्चनादिभि'रिति । वामनरूपे वामनपुराणे बाल्यपौगण्डादयः । श्रुतिस्तु 'चरणं पवित्रं विततं पुराणं'मिति । तद्भजनं बलेः श्रीभागवते प्रसिद्धम् । श्रीनृसिंहरूपे नृसिंहोपपुराणे नृसिंहतापिनिये 'ऋतं सत्यं परं ब्रह्म पुरुषं नृकेसरिविग्रह'मिति बाल्यपौगण्डाद्यवस्थाः । श्रुतिस्तु 'यो वै नृसिंहो देवो भगवा- न्यश्च ब्रह्मा तस्मै वै नमो नमः । ॐ योऽन्यश्च विष्णुस्तस्मै योऽन्यश्च महेश्वरस्तस्मै' इति । अणुविष- येऽन्या । 'सच्चिदानन्दपूर्णात्मानं परमात्मानं परं ब्रह्म सम्भाव्याहमित्यात्मानमादाय मनसा ब्रह्मणेकी- कुर्या'दिति । तद्भजनं पञ्चमस्कन्धेऽष्टादशे प्रह्लादः करोति । एवं श्रुत्योक्तमित्यर्थः । ब्राह्माणामिति । जीवीयव्यावृत्त्यर्थं विशेषणम् । साधितमिति । 'उपसंहारोऽर्थाभेदा'दित्यत्रार्थभेदरूपहेतुना साधितम् । श्रुतीति । 'योऽन्यथा सन्तमात्मान'मिति श्रुतिविरोधः, आदिनान्यथात्वसूत्रोक्तमब्रह्मत्वम् । पूर्वेति । पूर्व उपसंहारसूत्रे साधितस्य ब्रह्मत्वस्य । तदिति । वैयर्थ्यपरिहारमाह कालोपाधीति । कालचेष्टा भगवत्क्रीडा स उपाधिर्यस्मिन् क्रमे स क्रमस्तु योगमायापसारणहेतुः । कालोपाधीति । यथा कालेन पच्यते सर्वं तथा १. स्मृतेः । 1776