भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1900, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1900

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २३९

भाष्यप्रकाशः । प्रयोक्तुं शक्यते, अतो न पूर्वोक्तव्यवस्थाभङ्ग इत्यर्थः । एवमन्यथात्वसूत्रेण परोवरीयःसूत्रप्रथम- वर्णकेन च वेद्यैक्यबाधकं परिहृतम्, तद्द्वितीयवर्णकेन संज्ञामात्रेण च समाचारसूत्रोक्ता अधिकार- स्योपसंहारनियमहेतुता प्रपञ्चितेति चतुःसूत्र्यां परापरविद्यासाधारन्येन तौ निर्णीतौ । एवमत्र स्वाध्यायसूत्रमारभ्य षड्भिः सूत्रैरुपसंहारप्रकारो विचारितः । तेनात्र गुणोपसंहारो विषयः । स च सर्वैः सर्वेषूपास्येषु पुरुषेषु सर्वेषां गुणानां कर्तव्यः, उत तैस्तैस्तेषु तेषु तेषां तेषामिति संशयः । तत्राद्यः पूर्वः पक्षः । मार्गभेदेन यथाधिकारं कर्तव्य इति सिद्धान्तः फलति । एवञ्चात्र सामान्यतः स्वभावरूपा गुणास्तत्तत्कार्यकर्तृत्वादयश्च यथाधिकारमुपसंहार्यत्वेनानुपसंहार्यत्वेन विचारिताः । अन्ये तु, एतत्रिसूत्र्यां छान्द