अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1908, कुल 2600 में से
संदर्भ में पढ़ेंप्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ ननूपासकस्य प्रियत्वादिप्रकारकज्ञानक्रममादाय प्रियत्वादिधर्माणां शिर- स्त्वादिरूपत्वमानन्दमयाधिकरणे निरूपितमिति लीलास्थानामपि प्रियत्वादि- ज्ञानस्य सत्त्वादत्रापि स्वरूपोपासकस्य प्रियशिरस्त्वादिधर्माणामुपसंहारः कार्य इत्याशङ्क्य परिहरति प्रियशिरस्त्वाद्यप्राप्तिरिति । चित्तशुद्धितारतम्यहेतुकं प्रि- यत्वादिज्ञानं लीलास्थानां चित्तशुद्ध्यपेक्षाऽभावान्न संभवतीति न तेषामत्रोप- संहारः कार्य इत्यर्थः । भाष्यप्रकाशः । प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ आनन्दमयविद्यायामा- नन्दादयो धर्मा ब्रह्मसाधारणा इति सिद्धम्, तत्प्रसङ्गेन तद्विशेषणानि विचारयतीत्याशयेन सूत्रमवतारयन्ति ननूपासकस्येत्यादि । उक्तत्रिसूत्र्यां साकारत्वव्यापकत्वादयो भक्तसाधारणाः, पूर्णानन्दैश्वर्यादयस्तु भगवदसाधारणा इति भगवद्धर्मरूपेषु भक्तेषु न त इति स्थितम्। तथा सत्या- नन्दादय इव प्रियशिरस्त्वादयोपि तत्र पठितत्वात् तदसाधारणा इति प्रियादीनां शिरस्त्वादिरूप- त्वमानन्दमयाधिकरणे अन्नमयादिषूपासनाकथनेनोपासकस्य ज्ञानक्रममादाय निरूपितम् । तेन लीलास्थानां भगवति प्रियत्वादिज्ञानस्य सत्त्वात्, भक्तिमार्गीयोपासने तेषां पुरुषविरुद्धत्वभानेऽप्य- साधारणत्वात् प्रियत्वादिषु शिरस्त्वादिके अधिके श्रौतत्वाद्भाविते दोषाभावात् तेषामुपसंहारः कार्य इत्याशङ्क्य परिहरतीत्यर्थः । सूत्रं तात्पर्यकथनमुखेन व्याकुर्वन्ति चित्तशुद्धीत्यादि । अत्र प्रधानस्येतिपदं पूर्वसूत्रादनुवर्तते । तथा च चित्तशुद्धितारतम्येन भासमाने प्रधानस्य भेदे, हि यस्मा- द्धेतोः, उपचयापचयौ प्रमोदमोदरूपावानन्दोपचयापचयावुपासकस्य भासेते, लीलास्थानां तु ब्रह्मतादात्म्यस्य पूर्वाधिकरण उक्तत्वात् तादृशां चित्ते तारतम्यभानस्य कुत्राप्यनुक्तत्वात्तदभावेन भगवति तदवयवेषु च यत् प्रियत्वादिज्ञानम्, तन्निरुपधिस्नेहहेतुकम्। न चित्तशुद्धितारतम्यहेतुकम्। अत उपासकज्ञानक्रममादाय श्रुतौ निरूपितानां प्रियशिरस्त्वादीनामप्राप्तिः, प्राप्तिरेव न सम्भवतीति भक्तिमार्गे तदनुसारिणा स्वरूपोपासकेन तेषामुपसंहारो न कार्य इत्यर्थः । रश्मिः। प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ भक्तेति । भक्तेष्व- पीति भक्तसाधारणाः । भगवदिति । भक्तेष्वदानदशायामसत्त्वात्तदसाधारणाः । सांकर्याभावायोक्तम् । तदसाधारणा भगवदसाधारणाः । प्रियत्वादीति । भाष्ये प्रियत्वादिप्रकारकज्ञानसेत्यत्र ज्ञाने प्रियत्वादेः प्रकारस्य प्रियद्वारकत्वेन साक्षाज्ज्ञानं प्रियत्वादेरुक्तम् । आशङ्काग्रन्थत्वाद्वा । भक्ति- मार्गीयेति । एकादशसुबोधिन्यां'मुप समीपे स्थित्वा यथायोग्यकरणस्योपासनालक्षणत्वम्', अत्र तु मनोव्यापारविशेष उपासना । चित्तेति । उपासनानां चित्तशुद्धिहेतुत्वं पूर्वमुक्तम् । तारतम्यं संशयभ्रमप्रमाजनकत्वेन । प्रधानस्य स्वावयवैस्तामसचित्तेन भेदे भासमान इत्यर्थः । पूर्वेति । आन- न्दमयाधिकरणे । तारतम्याभावेपि नित्यक्रीडास्थानां सात्त्विकतामसज्ञानं फलप्रकरणस्थानामिवाहुः 'भगवति तदवयवेषु चेति । भगवत्त्वेन ज्ञानं सात्त्विकम्, एकत्वेन ज्ञानात् । अवयवित्वेनाव- यववद्भानं तामसम् । असावयवा इति भेदवत्त्वेन ज्ञानात् । प्रियत्वादिज्ञानमिति । सिद्धान्त- १. तेषामिति मूले पाठः । 1783