अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1909, कुल 2600 में से
संदर्भ में पढ़ें२४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० १२. अथवा । नन्वानन्दमयोपासनामथर्वणोपनिषदुक्तपञ्चरात्राद्यागमोक्तप्रका- रेण कुर्वतः पुरुषरूपे पक्षाद्युपसंहारस्यायुक्तत्वादानन्दमयाधिकरणे तद्रूपस्यैवो- क्तत्वात् पुरुषरूपः कथमानन्दमयः । तथात्वे वा कथं नोक्तोपसंहारः । अपरं च । मोदप्रमोदयोरुपचिनानुपचितआनन्दरूपयोर्युगपत्सत्त्वेन देशभेदेनापि भिन्नत्वान्नित्यानन्दैकरसे ब्रह्मणि तादृशरूपकथनमनुपपन्नमित्याशङ्क्य परिहरति प्रियशिरस्त्वादीति । यद्यथर्वणोपास्यात् प्रियशिरस्त्वादि विशिष्टस्य भेदः स्यात्, तदा तदप्राप्तिः स्यात्, नच तथेति प्रियशिरस्त्वाधिकमुपासनामार्गीयस्यांथ- र्वणिकादेरुपसंहार्यमेवेत्यर्थः । चित्तशुद्धितारतम्यहेतुकं प्रियत्वादिज्ञानमिति पक्षे भाष्यप्रकाशः। अस्मिन् पक्षे उपासनामार्गीयस्य तदुपसंहारपक्षोऽर्थादेवायाति, तथाप्यानन्दमयवाक्ये- ऽथर्वणोपनिषदि च सदानन्दत्वस्योक्तत्वादुभयप्राधान्येनोपासकस्य निर्णयो न सिध्यतीत्यतः सूत्रं प्रकारान्तरेण व्याख्यातुमवतारयन्ति अथवेत्यादि । उक्तविधस्योपासकस्य पुरुषरूपविरुद्ध- पक्षाद्युपसंहारस्यायुक्तत्वादानन्दमयवाक्ये च पुरुषस्य विधामात्रमेव गृहीतम् । तच्च स्त्रीत्वव्यवच्छे- दार्थत्वेनापि युज्यते इति पक्षिरूपस्यैवोक्तत्वात् पुरुषरूपः कथं सः । अतः सोपासना एतदुपनि- षदुक्तरूपेण न युक्ता । अथ ब्रह्मत्वस्याविशिष्टत्वादेतदुपनिषदुक्तस्यानन्दमयत्वेऽत्रापि पक्षिरूपस्य सत्त्वात् कथं न पक्षाद्युपसंहार इत्येका शङ्का । अपरं चेत्यादिनोक्ता मिथ्यावादिकृता द्वितीया । देशभेदेनेति । दक्षिणोत्तरभेदेन । तादृशरूपकथनमिति । भेदयुक्त रूपकथनमानन्दमयवा- क्येऽनुपपन्नमित्यर्थः । सूत्रं व्याकुर्वन्ति यदीत्यादि । तथाचास्य सूत्रस्य तर्कगर्भत्वेनापि व्याख्यातुं शक्यत्वात्, वाक्यद्वयेप्युक्तस्य ब्रह्मण ऐक्येन विरुद्धधर्माश्रयत्वेन च पूर्वाशङ्कोक्त- स्योभयरूपत्वस्य पक्षिरूपत्वस्य वा अदुष्टत्वादुपासकस्यात्र तदुपसंहारो न दुष्ट इति भावः । ननु रश्मिः। रीत्यात्रैव पूर्वमुपपादितम् । उपासकेति । ज्ञानक्रममत्र प्रियत्वादिमात्रविषयकज्ञानक्रमम् । विभूतित्वादन्येषाम् । प्राप्तिरेवेति । प्राप्तिर्नैव संभवतीत्यन्वयः । 'भाष्ये एवकारार्थस्य प्रतियोगि- त्वाभावात् । निर्णय इति । नच निषेधमुखेन निर्णय इति शङ्क्यम् । पक्षिरूपेणोपासनामार्गीयो निर्णयो नेत्याशयात् । उक्तविधस्येति । नन्वेत्यादिभाष्योक्तविधस्य । आनन्दमयाधिकरण इत्यादिभाष्यविवरणं आनन्दमयवाक्ये इति । सामान्यप्रकारकजिज्ञासाया विशेषप्रकारकजिज्ञा- साजनकत्वाद्व्याख्यानम् । 'आत्मेवेदमग्र आसीत्पुरुषविध' इति वाक्ये 'को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्या'दिति विषयवाक्ये । विधा तु 'अन्वयं पुरुषविध' इति श्रुतौ । अयं प्रकाशः पक्षिरूपस्यैवेति भाष्यीयैवकारव्यवच्छेद्यार्थः । पक्षिरूपस्यैवेति तद्रूपस्यैवेतिभाष्यव्याख्यानम् । एतदिति । तैत्तिरीयोपनिषदुक्तानन्दमयरूपेण । अविशिष्टेति । अथर्वणोपनिषदि मुण्डके 'आनन्दरूपममृतं यद्विभाति' । पञ्चरात्रागमे 'आनन्दमात्रकरपादमुखोदरादिः' । आदिना मन्त्रशास्त्रागमः तत्रेत्यानन्दः । अत्र स्तुत्या मयदर्थत्वं बोध्यम् । एवं तैत्तिरीयानन्दमयादविशिष्टत्वात् । अत्रोक्त इति । आथर्वण- पञ्चरात्रोक्तः । अत्रापीति । आथर्वणपञ्चरात्राद्युक्तेषु पुरुषविधानन्दमयेषु पक्षिरूपस्य निषेधाभा- वेन सत्त्वात् । तर्केति । अन्यथाज्ञानं तर्कः । वाक्येति । आथर्वणे पञ्चरात्राद्युक्ते च । उक्तस्येति । १. यद्यपि । अथर्वणोक्तोपास्यात् । २. उपासनामार्गीयस्यापीतिपाठः । 1784