अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1911, कुल 2600 में से
संदर्भ में पढ़ें१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० १३. तथापि गुणोपसंहारप्रसङ्गे मिथ्यावादिन आपाततः शङ्का सम्भवतीत्याचार्येणो- क्त्वा निरस्ता ॥ १२ ॥ ननूपास्यरूपस्याविरुद्धा एव गुणा उपसंहर्तव्याः, न तु विरुद्धाः, तथाच पुरुषरूपे पक्षादि विरुद्धमिति न तदुपसंहार्यमित्याशङ्कयाह । इतरे त्वर्थसामान्यात् ॥ १३ ॥ इतरे पुरुषरूपे विरुद्धत्वेन ये भासमाना धर्मास्तेऽप्युपसंहर्तव्याः, तत्र विरोधव्यवच्छेदज्ञापनाय तुशब्दः । तत्र हेतुरर्थसामान्यादिति । अर्थः पदार्थ आनन्दमयत्वलक्षणस्तस्य समानत्वादेकत्वादित्यर्थः ॥ १३ ॥ भाष्यप्रकाशः। उपसंहार्याः। भक्तिमार्गस्य तु तेषु भेदभानात् तेन तत्र नोपसंहार्या इति पूर्वोक्ताधिकारनियता वर्णकद्वयसिद्धा व्यवस्थेत्यर्थः। ननु यद्यनन्दमयाधिकरणे अयमर्थः सूत्रकारेण सूचितः स्यात्, पुनरत्र किमिति वदेदित्याशङ्कायामाहुः यद्यपीत्यादि। इयमिति। मोदप्रमोदविषयिणी। तथाचैतदर्थं पुनः कथनम्। अतो