अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1913, कुल 2600 में से
संदर्भ में पढ़ें२५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १ सू० १५. अन्येषामनुपसंहारे हेत्वन्तरमप्याह । आत्मशब्दाच्च ॥ १५ ॥ 'प्रियमेवे'त्यादिना परोक्षवादेनोक्तानां प्रियप्राधान्यादीनामेव भावना कार्या, न तु यथाश्रुतानां शिरःपक्षादीनाम् । तेषामविवक्षितत्वात् । तत्र हेतुरात्मशब्दा- दिति । 'आनन्द आत्मे'त्यनेन पूर्वोक्तानां प्रियप्राधान्यादीनां रसात्मकानांमात्मा स्वरूपमानन्द इत्युक्तम् । अग्रे 'रसो वै स' इति वक्ष्यमाणत्वात् तस्य च स्थायिभा- भाष्यप्रकाशः । आत्मशब्दाच्च ॥ १५ ॥ सूत्रमवतारयन्ति अन्येषामित्यादि । ननु प्रयोजनाभावेपि ब्रह्मस्वरूपपरताया अविशिष्टत्वात् पक्षाद्युपसंहारे को दोष इत्याकाङ्क्षायां हेत्वन्तरमप्याहेत्यर्थः । व्याकुर्वन्ति प्रियमेवेत्यादि । तत्र हेतुरिति । अविवक्षितत्वे हेतुः इत्युक्तमिति । तस्मादिति शेषः । तथाच यथाऽन्नमये इदमा परिदृश्यमानबोधनाल्लौकिकदृष्टौ पक्षादीनामविवक्षितत्वम्, तथाऽत्र आनन्दपदसमभिव्याहृतेनात्मपदेन प्रियादिस्वरूपस्यानन्दत्वेन बोधनाद्भक्तिदृष्टौ पक्षादी- नामविवक्षितत्वमेव दोष इत्यर्थः । न च समाचारसूत्रे अधिकारभेदस्यानुपसंहारनियामकत्वेन सिद्धत्वात् तेनैव तत्सिद्धावेतयोः सूत्रयोः किं प्रयोजनमिति शङ्क्यम् । समाचारसूत्रोक्तानां निरू- पणप्रकाराधिकारसम्बन्धिनामानन्दमयविद्यायामैक्यात् तद्भेदकृतानुपसंहारस्य भक्तिमार्गीयोपासने वक्तुमशक्यत्वात् तदर्थमेतयोर्हेत्वोः सूत्रकृता निर्देशात् । नन्वाकारपूरकावयवप्रायपाठे प्रविष्ट आत्मशब्द आकारे तात्पर्य्यरहित इत्यत्र किं मानमित्यत आहुः अग्रे इत्यादि । आनन्दमयविवरणे 'आत्मानं स्वयमकुरुते'त्यादिना आत्मन एव प्राकट्ये 'रसो वै स' इति रसरूपतया वक्ष्यमाणत्वात् रसस्य च निरुपधिप्रियात्मरूपस्थायिभावात्मकत्वात् तस्यैव परमात्मनो विवरणाय प्रपाठकप्रवृत्त्या रश्मिः । आत्मशब्दाच्च ॥ १५ ॥ अप्याहेति । नामभेदादिः प्रतिबन्धकोपिपदार्थः । अधोक्षजत्वं च प्रतिबन्धकम् । उपासनाऽविषयत्वं च प्रतिबन्धकम् । प्रियमेवेत्यादीति । 'तस्य प्रियमेव शिर' इत्यत्र प्रियमेवेत्यादिः । आनन्दादय इत्यनुवर्तते । भावनेति । 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तये'दिति । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण' इति च । लौकिकेति । लौकिकपुरुषे वैराग्येन देवदत्तशिर एव शिरः द्यौरूपं दक्षिणोत्तर- पक्षावन्तरिक्षरूपौ इदं चरणं पुच्छं परिदृश्यमानौ पादौ पृथिवीरूपाविति । दृष्टावित्यर्थः । भक्ति- दृष्टाविति । प्रियमोदप्रमोदात्मब्रह्मसु प्रीतिः धर्मो भक्तिः मोदप्रमोदौ आनन्दविशेषौ भक्तेराधारौ (आनन्द) आनन्द आत्मा चाधारः ब्रह्म उद्दीपनं व्यभिचारि वा । ब्रह्मानन्दो भक्तेराधारः । एवं भक्तौ दृष्टौ । दोष इति । पक्षाद्युपसंहारे दोषः । अनेन रसात्मकानामिति प्रियप्राधान्यादीनां विशेषणं भाष्ये व्याख्यातम् । आत्मा स्वरूपमिति भाष्यमपि । आत्मा व्यापकः । स्वस्य रसस्य रूपमानन्द इत्यर्थकम् । आनन्देति । तैत्तिरीये तथा । रसरूपता दशरसरूपता । तस्य चेति भाष्यार्थमाहुः रसस्य चेति । निरुपधीति । फलदत्वाद्युपाधिशून्यः प्रिय आत्मा तेन विषयेण रूप्यते व्यवह्रियते या रतिस्तद्रूपस्थायिभावात्मकत्वात् । तस्यैवेति । रसस्यैव । शेषं पूरयन्त एवाभासोक्ताशङ्कां वारयन्ति स्म उपक्रमेति । उपक्रमोऽत्रात्मनो रसस्य च । आदिनानन्दमयत्वं तत् । तात्पर्ये । तेषां आकार- पूरकावयवप्रायपाठे प्रविष्टत्वेप्यनाकारे तात्पर्ये लिङ्गं कारणं त्रिविधात्मप्रसिद्धा कारणम् । आत्मोप- 1788