अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1917, कुल 2600 में से
संदर्भ में पढ़ें३५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० २ सू० १६. नन्दमयपर्यन्तं 'आनन्दो ब्रह्मेति व्यजाना'दित्यन्तया श्रुत्या ब्रह्मत्वमित्युभयतः- पाशा रज्जुरिति प्राप्ते, आह । इतरवज्जीववदात्मगृहीतिरात्मग्रहणम् । 'तस्यैष एव शारीर आत्मे'ति यत्त- दुत्तरात् । 'यः पूर्वस्ये'ति सर्वत्रोक्तत्वात् सर्वेभ्य उत्तर आनन्दमयस्तस्माद्धेतोरि- त्यर्थः । अन्नमयादिषु सर्वेष्वानन्दमयस्यैवोक्ततत्तच्छरीराभिमानित्वात् तथा । एतद्यथा तथाऽऽनन्दमयाधिकरणे प्रपञ्चितमस्माभिः । अथवा । 'अन्योऽन्तर आत्मे'त्यन्नमयादन्यत्र सर्वत्रोक्तत्वात् पूर्वपूर्वनिरू- पितो यः, स इतर इत्युच्यते । तथा च, 'यः पूर्वस्ये'ति श्रुत्येतरवत् पूर्वनिरू- पितवत् प्रकृतस्याप्यात्मग्रहणं कथनं यत्तदु