अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1918, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २५७ अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ ननु सर्वत्र 'अन्योन्तर आत्मे'ति श्रुत्या प्रत्येकमन्नमयादीनां भेदन्निरूपणा- च्छरीरपदाच्च भिन्नो भिन्नो जीव एवात्मा शरीराभिमानी सर्वत्रोच्यते, आनन्दमयेपि तथोक्त्या, सा त्वानन्दमयस्य ब्रह्मत्वेन व्यापकत्वेन सर्वत्रा- न्वयात् सर्वेषु शरीरेषु सम्बन्धादित्याशङ्क्य, तन्निरासायोक्तेऽर्थ उपपत्तिमाह स्यादित्यादिना । स्यात् । आनन्दमय एवोक्तसर्वशरीराभिमानी भवतीत्यर्थः । तत्र हेतुरवधारणादिति । 'एष एवे'त्येवकारेणेतरनिषेधपूर्वकमानन्दमयस्यैवात्मत्व- निर्धारणादित्यर्थः ॥ १७ ॥ इति तृतीयाध्याये तृतीयपादे द्वितीयमात्मगृहीत्यधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ अत्र भाष्यमतिरोहितार्थम् । तथाचा- न्नमयादीनां चतुर्णामध्यात्मिकानां विभूतिरूपत्वात् तच्छरीरमप्राकृतसत्त्वात्मकम् । तत्र य आनन्दमयांशः प्रविष्टः, स तदभिमानी । तेन तदाधिभौतिकेष्वस्मदादिशरीरेष्वपि पञ्चकोशेष्वपि स एवाभिमानी । तेन 'आध्यात्मिकस्तु यः प्रोक्तः सोऽसावेवाधिदैविक' इति न्यायेनैकस्यैव कार्यद्वयकर्तृत्वान्नजीवोपि तद्भिन्नत्वेन सिध्यति । एवमभेदे उपसंहृते सति 'सर्वं सहेत परुषं सर्वेषां कृष्णभावना'दित्युक्ता सेवाङ्गभूता शिक्षा सुखेन सिध्यति । तेन विचारदशायां 'सर्वभूत- स्थितमेकमेव चिन्तये'दिति बोधितम् । श्रद्धाख्यकला च बोधिता । अन्ये तु, ऐतरेयवाक्ये परमात्मैवोच्यते, न तु हिरण्यगर्भ इत्याहुः। तदपि युक्तम् ॥ १७ ॥ इति द्वितीयमात्मगृहीत्यधिकरणम् ॥ २ ॥ रश्मिः । अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ अतिर इति । श्रुत्येत्यन्त एको हेतुः । स्यादिति । आनन्दमय एवोक्तसर्वशरीराभिमानी भवतीति स्यादित्यर्थ इत्यर्थः । आनन्दमयस्यै- वेति । एवकारेणान्नमये 'अयमात्मे'त्यनेनानन्दमयस्य आत्मत्वम् । 'तस्माद्वा एतस्मा' दित्यस्यामात्मा- नन्दमय इति । आत्मन आनन्दमयत्वस्यानन्दमयाधिकरणेन सिद्धेः । प्रकरणाच्च सत्यज्ञानात्म- कत्वम् । तिरोहिते सत्यज्ञाने तु रत एव । एवमतिरोहितार्थमित्यर्थः । एतेनेति । अन्वयपदात् व्यापकत्वेन । एकमेवेति । अवधारणाव्याख्यानश्रुतावेकत्वस्य विवक्षितत्वादिति भावः । चिन्तये- दिति । 'आध्यानाये'ति सूत्रवासनायाः । उपासनाया वा । श्रद्धेति । श्रद्धाकला विज्ञानमयशिरः । छान्दोग्ये षष्ठे प्रपाठके तु 'द्यौः कला'इत्यादिषु द्रष्टव्या । दिवि जलदर्शनात् । 'श्रद्धा वा आप' इति श्रुतेः । 'समुद्रः कला' इति वा । सामुद्रं जलं सूर्येनपीतं मिष्टं जातमिति । बोधितेति । इतरव- त्पदेन व्यञ्जनया बोधिता । आनन्दमये प्राणधर्मस्येव तद्विधायिका आपोत्रानन्दमयधर्मत्वेन स्मृता अत्रिवृत्कृताः । तद्धर्मत्वेनानन्दमयोपासना । अन्नमय इत्यत्र 'आपो वा अन्न'मिति श्रुतेः। ऐतरेयेति । 'आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ऐक्षत लोकान्सृजते'ति वाक्ये । युक्तमिति । आत्मनः परमात्मत्वादुक्तम् । 'विशिष्टं शुद्धान्नातिरिच्यत' इति नैयायिकोद्घोषात् । सूत्राणां सारव- द्विश्वतोमुखत्वाच्च ॥ १७ ॥ इति द्वितीयमात्मगृहीत्यधिकरणम् ॥ २ ॥ ३३ ब० सू० २० 1793