अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1922, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २६१ निराकृत्य 'ईश्वरो हि तथा स्यादात्मानमेव प्रियमुपासीते'ति पठ्यते । अत्रात्मौपाधि- कत्वात् सर्वत्र प्रियत्वस्यात्मपदेन जीवात्मन एव प्रियत्वेनोपासना विधीयते, उतेश्वरपदात् परमात्मन इति भवति संशयः । किमत्र युक्तम् । जीवात्मन एवेति । कुतः । यथा पुत्रादेरात्मौपाधिकप्रियत्वोक्त्या जीवात्मन एव प्रियत्वमु- च्यतेऽन्यत्र श्रुतौ, तथेहापि 'प्रेयः पुत्रा'दित्यादिकथनाज्जीवात्मैव भवितुमर्हतीति प्राप्ते, आह कार्याख्यानादपूर्वमिति । इतः पूर्वमाम्नायते 'प्राणन्नेव प्राणो नाम भवति वदन् वाग् रूपं पश्यँश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्म- नामान्येवे'ति । तथाच प्राणनवदनादिकार्यैः कृत्वा प्राणवागादित्वेनैकस्यैवात्मन आख्यानात् कथनादपूर्वम्, पूर्वं तु पुत्रवित्ताद्यभिमानदशायां 'न वा अरे पत्युः कामाय पतिः प्रियो भवती'त्यादिना यत्प्रियत्वेनोच्यते, तस्माद्भिन्नमात्मशब्दवा- भाष्यप्रकाशः। यिशाखायामिति । तस्यां बृहदारण्यके पुरुषविधब्राह्मणे । संशयं तद्बीजं चोक्त्वा पूर्वपक्षमाहुः जीवेत्यादि । अन्यत्रेति । मैत्रेयीब्राह्मणे । यद्यपि मैत्रेयीब्राह्मणेपि ब्रह्मैव प्रतिपाद्यत इति वाक्यान्वयाधिकरणे निर्णीतम्, तथाप्यापाततो निरुपाधिप्रियत्वं जीवे भासते इति पूर्वपक्षे तदादृतम् । सिद्धान्तं वक्तुं सूत्रे कार्यैराख्यानं कार्याख्यानमिति तृतीयासमास इत्यभिप्रेत्य कर्मनामकथनादित्यर्थः सिध्यतीति तत् व्याकुर्वन्ति इत इत्यादि । अपूर्वमिति । पुत्राद्यभिमान- दशायामभिमानित्वेन प्रतीयमानात् प्रतीचो भिन्नम् । तदेतद्विण्वन्ति पूर्वं त्वित्यादि । यदिति । जीवात्मरूपं वस्तु । आत्मशब्दवाच्यमत्रेति । 'आत्मानं प्रियमुपासीते'तिवाक्ये रश्मिः। 'यः पूर्वस्ये'ति सर्वत्र श्रावणात् । प्राणमयस्यादिः प्राणमयादिः अन्नमयः प्राणमय आदियेयोः मनोम- यविज्ञानमययोः तौ प्राणमयादी, प्राणमयादिश्च प्राणमयादी च प्राणमयादयस्तेषु । सिद्धमाहुः तेने- त्यादि । पूर्वोक्तवेदनमुपासनं यद्यपि, तथाप्यात्मत्वात्सर्वेषां विशेषतः 'मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारदे'तिवाक्याद्वैष्णवानां 'मेतमानन्दमयमात्मानमुपसंक्रम्ये'त्यत्रैतच्छब्दात्समीपतरवर्त्यानन्दमयः 'आसी- नः संभवा'दिति सूत्रादासीनः इत्येवं विशेषोपासनायामनुसंधायाहुः तेनेति । भार्गवी वारुणी विद्ये- यम् । पूर्वेति । विषयवाक्यमुपनिषत् भाष्यादसन्दिग्धं मन्येतेति । विद्यायुपाधिना । अतः पूर्वस्य जन्मा- द्यधिकरणस्य शेषत्वम् । पूर्वाधिकरणस्य वा । तेनाधिकरणान्तरत्वभञ्जकत्वमिति भावः । प्रागपीति । आनन्दमयाधिकरणेपीत्यर्थः । उपासनाप्रकरणे विचारस्सास्मारणान्नात्यन्तमिति । तद्बीजमिति । हेतु- तृतीयान्तहेतुपञ्चम्यन्तपदाभ्यां संशयबीजम् । इत इत्यादीति । विषयवाक्यात्पूर्वं पुरुषविधब्राह्मणे । अस्येति । अकृत्स्नस्य । प्राणनादिक्रियाविशिष्टस्य । 'मेने सन्तमिवात्मान' मितिवाक्योक्तस्य । कर्मकृतानि नामानि कर्मनामानि । अभिधाविषयकर्मणो नामानि वा । 'कर्मणा जायते जन्तु'रितिवाक्योक्तस्य । एवकारेण रूपनामव्यवच्छेदः क्रियते । तथा च पुरःस्फूर्तिकस्य कार्याख्यानात्साध्यत्वेनाख्यानात् यागस्य स्वर्गपर्यन्तं स्थित्यर्थमपूर्वमित्यस्यार्थस्य विचारोपि वेदान्ती यकर्मविचारः । अन्तरात्मपरत्वे तूप- लक्षणेन षोडशापि ज्ञेयाः । तथाचेति । पुराणे परमतलौकिकीभाषाभ्यां हेतुभ्यां पूर्वोत्तरसंदर्भसिद्धार्थे च अपूर्वमित्यन्तः सूत्रार्थ इत्यर्थः । आत्मन इति । कर्मविशिष्टत्मरूपस्य, नित्यसाफलमनुवर्तमानस्य । वेदान्ती यकर्मानन्तरं तदीयापूर्वं वक्ष्यमाणभाष्योक्तमाहुः पुत्रादीति । अहं पुत्रीति पुत्राभिमानः । 1797