अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1923, कुल 2600 में से
संदर्भ में पढ़ें३६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० १८. द्ध्यमत्रेत्यर्थः । लोके हि प्राणवायुवागिन्द्रियादीनामेव तत्सच्छब्दवाच्यता, न तु जीवस्य, अत एवाग्रे श्रुतिराह 'ईश्वरो हि तथा स्या'दिति । अत एव 'प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मे'त्याह । अन्तरो जीवात्मा, ततोऽप्यतिशयेनान्तरमन्त- रतरं पुरुषोत्तमस्वरूपमेव भवितुमर्हतीति । एतेन विग्रहस्यैवात्मरूपत्वं सिध्यति । तेनाविकृतत्वपरमानन्दत्वादयोपि धर्मा उपसंहर्तव्याः ॥ १८ ॥ ननु विग्रहे चक्षुःश्रोत्रादीनां वैलक्षण्यप्रतीतेरात्मनश्चैकरसत्वाद्युक्तकर्मना- मवत्त्वं ब्रह्मण्यनुपपन्नमित्याशङ्क्योत्तरं पठति । भाष्यप्रकाशः। आत्मशब्दवाच्यम् । ननु प्राणनादिकार्ये जीवस्यापि प्रयोजकत्वात् कार्याख्यानमात्रेण प्रत्यगात्मा- तिरिक्त आत्मात्रोच्यत इति कथं निश्चेयमित्यत आहुः लोके हीत्यादि । अत एवेति । जीवभिन्नत्वादेव । अत एव प्रेय इत्यादि । ईश्वरत्वादेव प्रेयोऽन्यस्मादित्यादिकं श्रुतिराह । तदेव व्युत्पादयन्ति अन्तर इत्यादि । तथाचेश्वरत्वान्तरतरत्वाभ्यां लिङ्गाभ्यामुपष्टब्धेन तेन तथे- त्यर्थः । ननु भवत्वेवम्, तथापीदानीं तद्विचारस्य किं प्रयोजनमत आहुः एतेनेत्यादि । एतेनेति । प्राणनादिकार्यमुक्त्वा 'ईश्वरो हि तथा स्या'दिति तत्तत्सर्वरूपताख्यानेन । एवमेतत्साधनस्यापि प्रयोजनमाहुः तेनेत्यादि । उपसंहर्तव्या इति । अवतीर्णे स्वरूपेऽनुसन्धेयाः । तथाचैतदर्थ- मिदमत्र विचारितमित्यर्थः । तेन पूर्वोक्ते अनावश्यकतामात्रं न वर्णान्तरकथने बीजम्, किन्त्वेतदपीति बोधितम् । अन्ये तु इदमेकसूत्रमधिकरणमङ्गीकृत्य अत्र प्राणविद्याशेषं विचारयन्ति । भोजनारम्भ- समाप्त्योराचमनीयास्वप्सु प्राणवासोदृष्टिः कर्तव्येति । तन्न नास्माकमादरः । तासाममुख्यविद्यात्वेन तद्विचारस्य प्रासङ्गिकत्वात् । विद्यान्तरं मध्ये विचार्य दूरस्थितस्य पुनरत्र स्मृतौ बीजानुपलम्भाच्चेति ॥ १८ ॥ रश्मिः। प्रतीचो जीवात् । भिन्नमात्मशब्दवाच्यम् । न हि जीवो वदन् वाग्भवति अनुक्तेः, किन्तु छान्दोग्यी- याह्मोपदेशविषयः । आत्मशब्देति । अपूर्व प्रकाशाश्रयात्मशब्दवाच्यम् । 'धर्मो यस्यां मदात्मक' इति वाक्यात् । अभिधातात्पर्याभ्याम् । प्रयोजकेति । 'जीव प्राणधारणे' इति धातुपाठात्प्राणनादि- धारणकार्ये परम्परया जीवस्य कारणत्वात् । तेन तथेति । आत्मपदेन अन्तरो जीवात्मेत्यादिः । प्राणनादीति । अन्तर्यामिब्राह्मणोक्तस्यात्मनो विग्रहत्वकथनेनेत्येतेनेत्याद्यर्थो बोध्यः । एतदिति । नित्यविग्रहवत्त्वसाधनस्य । एतदपीति । विग्रहस्यैवात्मरूपत्वम् । प्राणविद्येति । प्राणवासो दृष्टिरूपम् । भोजनस्यारम्भसमाप्त्योः । प्राणवास इति । 'आपोमयः प्राण' इति श्रुतेरप्सु प्राणवासः । दूरेति । प्राणविद्यास्थितस्य ॥ १८ ॥ 1798