अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1924, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २११ समान एवं चाभेदात् ॥ १९ ॥ चोऽप्यर्थे । तथाचैवमपि सति श्रोत्रचक्षुरादिवैलक्षण्यप्रतीतावपि सति समान एकरूप एव, न तु विषमः । तत्र हेतुरभेदादिति । चक्षुरादीनां ब्रह्मत्वेन परस्परमभेदादित्यर्थः । अत्रेदमार्कूतम् । 'तं त्वौपनिषदं पुरुषं पृच्छामी'ति श्रुतेरुपनिषद्ध्ये- मेव ब्रह्मस्वरूपम् । ताश्च 'प्राणन्नेव प्राणो भवति वदन् वा'गित्यादिरूपाः प्रतिनियतेन्द्रियग्राह्यान् अर्थान् स्वरूपेणैव गृह्णद् ब्रह्म तत्तच्छन्दवाच्यं भवतीति वदन्ति । तद्वाच्यता च व्यवहार्यत्वे । स च 'तदेतत्प्रेयः पुत्रा'दित्यादि- वाक्यैकवाक्यतया निरुपधिस्नेहवतामेव व्यवहार्य इति ज्ञाप्यते । स चाविर्भूतेऽ- वताररूप एव सम्भवति । एवं सति तत्र भक्तैर्भगवद्विग्रहे तत्तदवयवेषु भेदेन यथा यथा व्यवह्रियते, तथा तथैव तदेकमेवाखण्डसच्चिदानन्दरूपं ब्रह्मेत्यर्थः सम्पद्यते । एवंविधो लोके न प्रसिद्ध इत्यसम्भावना स्यात्, तदभावायाग्रे श्रुतिराह 'ईश्वरो हि तथा स्या'दिति । एतेनाविर्भूतरूपे व्यापकत्वैकरसत्वसच्चिदानन्दत्वादयो धर्मा उपसंहर्तव्याः, अनाविर्भूतेऽपीति स्थितम् । एवं सत्याविर्भावेऽनाविर्भावेऽपीश्वरः भाष्यप्रकाशः। समान एवं चाभेदात् ॥ १९ ॥ सूत्रमवतारयन्ति ननु विग्रह इत्यादि । तथाच वह्निकुसुमयोरिव स्वगतद्वैतमापततीति तत्परिहारायोत्तरं पठतीत्यर्थः । व्याकुर्वन्ति चोऽप्यर्थ इत्यादि । ननु भिन्नप्रकारप्रतीतौ विद्यमानायां कथमभेदसिद्धिरित्यतस्तमुत्पादयन्ति अत्रे- त्यादि । स चेति । औपनिषदः पुरुषश्च । स चेति । व्यवहारश्च । नच तस्य व्यवहारस्या- प्रामाणिकत्वं शक्यशङ्कम् । वरणहेतुकतनुविवरणैकसाध्यत्वात् । 'प्रकाशवच्चावैयर्थ्यात्' 'आह च तन्मात्र'मिति सूत्रद्वयेनातीतपादेऽपि तस्योपपादनात् । तदेतदभिसन्धायाहुः एवं सतीत्यादि । अत्र लौकिकयुक्तेः कौल्यमेव श्रुत्यभिप्रेतमित्याशयेनाहुः एवंविध इत्यादि । सिद्धमाहुः एतेनेत्यादि । एतेनेति । ईश्वरस्य तथात्वश्रावणेन । एतामेव श्रुतिं हृदिकृत्य प्रकारान्तरेण सूत्रं योजयन्ति एवं सत्याविरित्यादि । तथाच, 'अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायये'ति रश्मिः। समान एवं चाभेदात् ॥ १९ ॥ भाष्ये । परस्परमिति । धर्मिधर्मयोरिति बोध्यम् । प्रकृते । स चेतीति । अत्र निरुपधीत्यादिभाष्यं गताज्ञानानामिति बोध्यम् । तस्येत्यादि । औपनिषदः पुरुषश्चेत्याकारकस्य । शक्या शङ्का यस्मिन्निति शक्यशङ्कम् । वरणेत्यादि । पुष्टिमार्गीयम् । वरणस्य स्वीयत्वेनाङ्गीकारे रूढेः । वस्तुतस्तु वृञ् सम्भक्तौ । सर्वात्मभावो वरणम् । वेदान्ते योगात्, रूढेर- भावात् । विवरणं प्रकाशनम् । तथा च निरुपधिस्नेहवतामितिभाष्येण गताज्ञानानामिति सूचनात्तमो- भावेन विशुद्धसत्त्वजज्ञानविषयत्वेन स व्यवहारः प्रामाणिक इति भावः । एवं सतीत्यादि । भेदेनेति । इवार्थेन । गीतायां 'अविभक्तं च भूतेषु विभक्तमिव च स्थित'मिति ब्रह्मनिरूपणे वाक्यात् । एवं सत्याविरित्यादीति । आविर्भाव इत्यादिना सूत्रार्थः । एवं चेत्यत्र सूत्रेऽन्वयादिति सूत्रान्वयमङ्गीकृत्याव- 1799