अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1928, कुल 2600 में से
संदर्भ में पढ़ेंपसंहारे वा भक्तोपासनायां विशेषाभावादित्यर्थः। अनुपसंहारस्यात्र बाधकत्वाभा- वज्ञापनाय वाशब्दः। विशेषादिति वा। पूर्वं विहितत्वेन भगवदाकारादिषु भजनं कुर्वन्नप्युक्त- रूपभक्तसङ्गेन तद्भजनेन च पूर्वस्माद्विशिष्टं रसमनुभूतवानिति रसास्वादे विशेषाद्गुणोपसंहारं स न करोतीत्यनुवादः। विहितत्वेन गुणोपसंहारपूर्वकोपास- नायां नीरसत्वेनानादरज्ञापनाय वाशब्दः। भगवदवताररूपोपि बादरायणः प्रास- ङ्गिकेऽपि भक्तिमार्गस्मरणे तदीयरसावेशपरवशस्तद्भावस्वभावमनूक्तवान् ॥ २१ ॥ अपि च। उपसंहारो हि तत्रानुक्तानामन्योक्तानां गुणानां तत्र सत्त्वेन ज्ञानमात्रम् । उक्तरूपभक्ताय तु तद्भजनीये भक्त एवालौकिकानुभावान् भगवान् प्रत्यक्षं दर्शयतीति न तत्रोपसंहारापेक्षागन्धोऽपीत्यग्रोत्तरे पठति ।
भाष्यप्रकाशः। इत्याकाङ्क्षायां तद्युत्पादयन्ति अस्येत्यादि । तथाच नवमस्कन्धे 'तत्प्रसङ्गानुभावेन रन्तिदेवा- नुवर्तिनः। अभवन् योगिनः सर्वे नारायणपरायणा' इतिवत् तादृशस्य तथात्वेन तद्भजनरसास्वादनेन तदाविष्टभगवति गुणोपसंहारे वा 'विस्मृते'त्यादिहेतुद्वयेनानुपसंहारे वा तत्प्रसङ्गानुभावादेव भगवत्प्राप्तिरविशिष्टेति तादृशभक्तोपासनायां ताभ्यामुत्कर्षापकर्षाभावादुपसंहारस्य किमपि प्रयोजनमित्यर्थः । 'अविशेषा'दिति पदच्छेदं कश्चिन् मन्येत, तदोक्तोऽर्थो न सिद्ध्येदिति, तदपि तत्सिद्धये प्रकारान्तरे हेतुं व्याकुर्वन्ति विशेषादित्यारभ्य वाशब्द इत्यन्तम् । तद्भजनेनेति । भगवदाकृतिभजनेन । ननु तर्ह्यनुवादस्य किं प्रयोजनम्, अत आहुः भगवदवतारेत्यादि तथाच । तदुत्कर्षबोधनाय तत्स्वभावबोधनमेव प्रयोजनमित्यर्थः ॥ २१ ॥
रश्मिः। फलतीति साधनेपि तथेति । भाष्ये । इत्यग्रिममिति । इति हेतोः कार्याकार्यसाधारणमग्रिमं सूत्रम् । प्रकृते । तद्युदिति । कुत इति प्रश्ने, भक्तभक्तत्वेनेत्यादिव्युत्पादनम् । कुत्रेति प्रश्ने, तदाविष्टभगवतीति व्युत्पादनम् । कुर्वन्तीत्यर्थः । तत्प्रसङ्गेति । रन्तिदेवप्रसङ्गस्य योऽनुभावः विसर्पियशोरूपः तेन तत्पुत्राः । तथात्वेन भक्तभक्तत्वेन । तत्प्रसङ्गेति । भगवद्भक्तप्रसङ्गस्यानुभावः स्वर्गपुनर्भवाधिक- भगवत्सङ्गिसङ्गस्य स्वर्गपुनर्भवानादरः । 'तुलयाम लवेनापि' इति वाक्यात् । ताभ्यामिति । भगव- त्युपसंहारानुपसंहाराभ्यां भक्तभक्तस्योत्कर्षापकर्षाभावात् । भाष्ये । वाशब्दोऽनादर इत्याहुः अनुपेति । अग्रेति । भक्तभक्तविषये भगवत्प्राप्तौ । प्रकृते । प्रकारान्तर इति । उक्तरूपभक्त- सङ्गेन भगवद्भजने । विशेषादित्यारभ्येत्यादि । विहितत्वेनेति । 'तं भजे'दिति गोपालतापनीये । विशिष्टमिति । भक्तपूजनेन समं भगवद्भजने पुष्टिमार्गो जात इति, 'ज्ञात्वाज्ञात्वा च कर्माणि जनोऽय- मनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवे'दिति भक्तसङ्गेन भगवज्ज्ञानं जातमिति वा, विशिष्टम् । अनुवाद इति । अनुपसंहारे प्रकारानुवादः प्रकारान्तरे । विहितत्वेनेति । पूर्ववत् । नीरसत्वेनेति । सात्त्विकत्वात्तथा । 'मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते' इति गीताष्टादशाध्यायवाक्यात् । तर्हीति । प्रकारान्तरकाले । तदुत्कर्षेति । भक्तिमार्गोत्कर्षबोधनाय । तत्स्वभावेति । भक्तस्यानुपसंहारस्वभावबोधनम् ॥ २१ ॥