अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1929, कुल 2600 में से
संदर्भ में पढ़ें२६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ३ सू० २३. दर्शयति च ॥ २२ ॥ ननु भक्तभक्तः स्वसेव्येऽप्यलौकिकं वीर्यं दृष्ट्वा तदाविष्टे भगवति तत्सम्भा- रकत्वस्येन्द्रादीनामपि तदाज्ञापेक्षित्त्वं दृष्ट्वा द्युलोकव्यापकत्वस्योपसंहारं करि- ष्यतीत्याशङ्क्याह । सम्भृतियुव्याप्त्यपि चातः ॥ २३ ॥ राणायनीयानां खिलेषु पठ्यते । 'ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्ने ज्येष्ठं दिवमाततान, ब्रह्म भूतानां प्रथमं तु जज्ञे, तेनार्हति ब्रह्मणा स्पर्धितुं क' इति । अस्यार्थस्तु-अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्प- राक्रमाणां त एव नियतपूर्वभावित्वरूपकारणत्वेन ज्येष्ठाः । ब्रह्मधर्माणां तु. भाष्यप्रकाशः । दर्शयति च ॥ २२ ॥ सूत्र