अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1930, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मैव ज्येष्ठमनन्यापेक्षं सृष्ट्यादि करोतीत्यर्थः । एवं सति ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठानि वीर्याणि । अत्र छन्दसि बहुवचनस्य डादेशः । किञ्च, अन्येषां वीर्याणां बलवद्भिर्मध्ये भङ्गोऽपि भवति । तेन ते स्ववीर्याणि न सम्बिभ्रति । ब्रह्मवीर्याणि तु ब्रह्मणा सम्भृतानि निष्प्रत्यूहं सम्भृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्माग्रे इन्द्रादि- जन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्तवन्नित्यमेव विश्वव्यापकमित्यर्थः । देशतो- ऽपरिच्छेदमुक्त्वा कालतोऽपि तमाह ब्रह्मेति । भूतानामाकाशादीनां पूर्वमेव जज्ञे । आविर्बभूवेत्यर्थः । एतेन वीर्यसम्भृतिद्युव्याप्तिप्रभृतिमाहात्म्यमुक्तं भवति । तथाच सम्भृतिश्च द्युव्याप्तिश्च तयोः समाहारस्तथा । एतावपि स तत्र नोप- संहरति । तत्र हेतुः 'न वाविशेषा'दिति सूत्रोक्त एवेत्यतिदिशति अत एवेति । एतत् यथा तथा तत्रैवोक्तम् । विषयवाक्योत्तरार्धोक्तधर्मानुद्देशेनेवं ज्ञायते भक्तस्यैहिकपारलौकिकोपयो- गिधर्मोपलक्षणार्थं द्वयोरेवोद्देशः कृत इति । चकारेण दर्शनमप्युक्तं समुच्चीयते । भाष्यप्रकाशः । सूत्रं व्याकुर्वन्ति तथाचेत्यादि । तत्रैवोक्तमिति । 'अस्य भक्तभक्तत्वेने'त्याद्युक्तरीत्या उपासनायामविशेषात्, पूर्वं 'विहितत्वेने'त्याद्युक्तरीत्या च भजनरसास्वादने एतदपेक्षया विशेषाच्च न करिष्यतीति तस्मिन्नेव सूत्र उपपादितम् । अयमेव सूत्रकाराशय इत्यत्र गमकमाहुः विषयवा- क्येत्यादि । तथाचोपसंहारं विनापि भक्तस्य लौकिकालौकिकसम्पपादनादलौकिकानुभावदर्शनाच्च एतयोरपि नोपसंहारशङ्कात्रेति पूर्ववदत्रापि भक्तस्वभावस्यानुवादः, प्रथमाधिकारिणः शिक्षा वेति रश्मिः । म्भकत्वसर्वग्रहस्तम्भकत्वादिवीर्यं यस्य सम्भारकत्वं तस्य । उपसंहारमित्यनेनान्वेति । भाष्ये । इन्द्रादीनामिति । आदिना महर्लोकादिस्थजनाः । तथा तत्रैव श्रुतयः 'सर्वेषां लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं जयति स महर्लोकं जयती'त्यादयः । तथा च इन्द्रस्यादी इन्द्रादी इन्द्र आदिर्येषां ते इन्द्रादयः इन्द्रादी च इन्द्रादयश्च इन्द्रादयस्तेषाम् । भक्तभक्ताज्ञोपेक्षित्वमेकाद- शवाक्येन विश्वात्मकस्याक्षरात्मकहृदयस्य भक्तभक्तस्य सर्वगे मनोनिवेशेनाज्ञापकत्वशक्तेः प्राप्तत्वात् । वाक्यं तु 'विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे । स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदना'- मिति पञ्चदशाध्याये । प्रकृते । राणायणीयेत्यादीति । अस्यार्थ इति । वेदस्यार्थः । ब्रह्मज्येष्ठत्वं स्फुटयितुमन्यत्राज्येष्ठत्वं वीर्ये सम्पादनीय आहुः अन्यैरित्यादि । सहायानिति । यथा कौरवैः पाण्ड- वैश्च । सम्बिभ्रयन्ते सम्पाद्यन्ते । ज्येष्ठा मुख्याः । ब्रह्मज्येष्ठेति व्याकुर्वन्ति स्म ब्रह्मधर्माणामिति । धर्मा जगत्कर्तृत्वादयः । धर्मीणां धर्म्यभेदान्निर्धारणे षष्ठी । सम्भृतानीति व्याकुर्वन्ति स्म किञ्चेति । बलवद्भिरिति । यथा यादवैर्जरासन्धवीर्यभङ्गः । न इति । अन्ये । समिति । शिशुपालस्तु बिभर्ति । ब्रह्मणोऽसहायेन । ब्रह्माग्र इत्यादि व्याकुर्वन्ति स्म तच्चेति । विश्वेति । विश्वस्मिन्व्यापकम् । देशात इति । वीर्यदेशभिन्नदेश इति तथा । कालतः प्रथमकालम् । अत्यन्तसंयोगे द्वितीयेति तथा । तथाचेत्यादीति । तथेति । सम्भृतिद्युव्याप्ति । 'स नपुंसक'मिति नपुंसकत्वम् । एतावित्यौ । अतिदिशति अन्यत्र हेतुसाध्यादिप्राप्तिं करोति । सौत्रचकारमेवकारार्थसमुच्चायकमाहुः अत एवेति । अनुपसंहारो विशेषाभावादेव । वक्ष्यमाणप्रकाशात्तु स्थानविशेषादेव । स्थानं दहरादिविद्यास्थं हृदयादि तत्र विशेष आध्यात्मिकात्वादिः तस्मात् । विषयवाक्येत्यादीति । धर्मः मूर्त्तप्रथमजत्वं तस्यानुद्देशेन