अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1931, कुल 2600 में से
संदर्भ में पढ़ें२७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ३ सू० २३. अन्यच्च । स्पर्धाकृतिसम्भावनायां हि तयोर्ग्यतानिषेधः सम्भवति । सा चावि- र्भूत एव भगवति सम्भवतीत्यखिलशक्त्याविर्भावपूर्वकमाविर्भूतस्य तस्य एतया श्रुत्या माहात्म्यमुच्यत इति गम्यते । एवं सत्येतद्वाक्योक्तधर्मयोरेवानुपसंहार्य- भाष्यप्रकाशः । भावः । चकारेणोत्तरार्धोक्तधर्मसमुच्चयमाशङ्क्य तत्तात्पर्यमाहुः चकारेणेत्यादि । श्रुतेरनारभ्या- धीतत्वेन भक्तहृदयाविष्टभगवद्धर्मकत्वस्य सन्दिग्धत्वात् पूर्वोक्ते व्यासाशयो न निश्चेतुं शक्यत इति शङ्कायां विषयवाक्यतात्पर्यकथनपूर्वकं तमुद्घाटयन्ति अन्यच्चेत्यादि । तथाच तुरीयपादेन श्रुतेराविर्भूतब्रह्मविषयकत्वे निश्चिते यत् द्वयोरेवानुपसंहारकथनम्, तेन तत्र व्यासाशयो निश्चीयत इत्यर्थः