अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1932, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः । केचन हेतुत्वेनाहुः । केचिदल्पत्वम् । अन्ये तु विद्याविशेषं हेत्वन्तरमाहुः । किञ्च । यद्यपि तासु 'यावान् वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाशः' 'अतः परो दिवो ज्योतिर्दीप्यते' 'ज्यायान् पृथिव्या ज्यायानाकाशा'दित्यादिभिराधिदैविक्यो विभूतयोऽप्युच्यन्ते, तथापि ता माहात्म्यज्ञापनार्था इति ता एव तत्रोपसंहार्याः, प्राकरणिकत्वात्, न त्वितराः । अतो द्युव्याप्तिनिवृत्तौ तत्सहपठिताया वीर्यसम्भृतेरपि निवृत्तिरित्याहुः । तन्न रोचिष्णु । द्युव्याप्तिरूपाया महत्या आधिदैविक्या विभूतेर्ब्रह्मस्वरूपमादायैव स्थानस्य तदाध्यात्मिकतयास्तदन्यतायाश्च बाधकतामनादृत्योपदेशेन तस्मिन् स्थानविशेषे द्युव्याप्त्युपसंहार- बाधकत्वकथनस्यायुक्तत्वात् । न च सा दिक्कालादीनामिव भिन्नेति युक्तम् । ब्रह्मण उभयत्राप्यैक्येन व्याप्तौ भेदस्य वक्तुमशक्यत्वात् । नच शब्दान्तरनिर्देशाद्भेद इत्यपि युक्तम् । सौत्रहेतुविरोधात् । सूत्रे पूर्वसूत्रोक्तस्थानविशेषोपबन्धस्यैवातिदेशाङ्गीकारात् । एतेनैव विद्याविशेषस्याप्यनुपसंहा- रहेतुत्वं दत्तोत्तरम् । यत्तु 'भामत्याम्, या काचिदाधिदैविकी विभूतिः शाण्डिल्यविद्यायां श्रूयते, तस्यास्तत्र- करणाधीतत्वात् तन्मात्रं ग्रहीष्यते, नैतावता सम्भृत्यादीननुक्रोडुमर्हति, तत्रैतत्प्रत्यभिज्ञानाभावात्, ब्रह्माभ्रयंत्वेन प्रत्यभिज्ञानमतिप्रसक्तम्, भूयसीनामैक्यप्रसङ्गादित्युक्तम् । रश्मिः । विद्या आधिदैविक्यः । तदनुप्रेति । अनारभ्याधीतस्योपसंहारकर्तृत्वविरोधित्वे । विरोधरूपे । विरोधो मञ्जर्य इति । 'आध्यात्मिकत्वमिति । स्थानस्येति बोध्यम् । केचनेति शंकराचार्याः भास्करा- चार्याश्च । केचिदिति रामानुजाचार्याः । अन्ये त्विति । माध्वादयः । तास्विति दहरादिविद्यासु । निवृत्तिरिति । सन्नियोगशिष्टानां सहैव प्रवृत्तिः सहैव निवृत्तिरिति न्यायेन । ता एवेति । नत्वना- रम्याधीते सम्भृतिद्युव्याप्ती उपसंहार्ये । महत्या इति । व्यापकधर्मस्य व्यापकत्वनियमान्महत्याः । तस्या धर्मत्वेनाधारभूतं ब्रह्मस्वरूपम् । एवकारो विद्वन्मण्डनोक्तत्वात् । तदाध्यात्मिकेति । द्युव्याप्त्या- ध्यात्मिकायाः । बाधकता उपसंहारबाधकता या परैरादृता तामित्यर्थः । उपदेशेन सूत्रे सम्भृति- द्युव्याप्त्योरुपदेशेन । तस्मिन्निति । आध्यात्मिकेऽन्यस्मिंश्च । अयुक्तत्वादिति । भवता ब्रह्मस्वरूप- मादायोक्तत्वेन तथा । तथाच स्थानविशेषस्यानुपसंहारहेतुत्वं न सम्भवतीतिभावः । अथ सौत्रसमा- हारविचारेणाहुः न च सेति । व्याप्तिः । दिग्देशरूपा कर्मणि प्रसिद्धा । आदिना मन्त्रः तेजः द्युत्वम् । भिन्नेति । व्याप्तिः सम्भृतिभिन्ना वा । ब्रह्मण इति । उक्तब्रह्मस्वरूपस्य उभयत्र सम्भृतिद्युव्याप्त्यो- रैक्यं समाहारद्वन्द्वात् तेनेत्यर्थः । भेदे सति उभयत्र एकहेतोरसम्भवाभिप्रायेणाहुः सौत्रेति । विरोधमाहुः सूत्र इति । एवकारोविशेषादित्यस्य व्यवच्छेदकः । तेन सम्भृतिद्युव्याप्त्योर्वीर्यत्वेपि स्वत्रेच्छस्य मुनेर्वर्णनासक्तस्य पर्यनुयोगानर्हत्वमिति बोधितम् । एतेनैवेति । उक्तप्रकारेण । विद्याविशेषस्य स्थानघटितत्वात् । एवकारस्तु सौत्रार्थस्य व्यासस्याशयगोचरत्वोक्तेः । तन्मात्रमिति । सैवेति तन्मा- त्रम् । प्राकरणिकाधिदैविकविद्यामात्रम् । नत्वाधिदैविक्योरनारभ्याधीतयोः सम्भृतिद्युव्याप्त्योर्ग्रहणं करिष्यते । तत्रैतदिति । शाण्डिल्यविद्यायाम् । एतयोः सम्भृतिद्युव्याप्त्योः प्रत्यभिज्ञानाभावात् । दहरविद्योक्ताधिदैविक्यो विभूतयस्तु प्रत्यभिज्ञायन्ते । 'अतः परो दिव' इत्याद्युक्तश्रुत्योः शाण्डिल्यवि- द्यासयोः दहरविद्यास्थस्य 'यावान्वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाशः, उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते' इति श्रुतिभ्यां तत्ताइदन्ताप्रकारकज्ञानसम्भवात् । दहरविद्योक्तोयं शाण्डिल्यविद्यास्थ 1807