अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1936, कुल 2600 में से
संदर्भ में पढ़ेंविभूतिरूपमिति ज्ञापितम् ॥ २४ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्थं पुरुषविद्यायामित्यधिकरणम् ॥ ४ ॥ अथ निर्दोषत्वं ज्ञात्वा भजनीयमिति ज्ञापयितुमधिकरणान्तरमारभते । वेधाद्यर्थभेदात् ॥ २५ ॥ (३-३-५.) वाजसनेयिशाखायां 'द्वया ह प्राजापत्या' इत्युपक्रम्य तेषां मिथः स्पर्धामुक्त्वोच्यते, 'ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति, ते ह वाचमूचुस्त्वं न उद्गायेति, तथेति, तेभ्यो वागुदगायत्, यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने, तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य भाष्यप्रकाशः। तैरैव न्यायैरानुषङ्गिको निर्णयो भविष्यति । अतः परविद्यां विहायैतद्विचारो युक्तो वा, परविद्याविचारो वा युक्त इति । ताण्डिप्रभृतीनां विद्यायामायुर्वृद्ध्यादिरूपं लौकिकं फलम्,