अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1937, कुल 2600 में से
संदर्भ में पढ़ें२७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २५. पाप्मनाविध्यन्, स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव, स पाप्मे'ति । एवमेव घ्राणचक्षुःश्रोत्रप्रभृतिषु पापवेधमुक्त्वोच्यते । 'अथैनमासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्, ते विदुरनेन वै न उद्गात्रात्येष्य- न्तीति तमभिद्रुत्य पाप्मनाविध्यत्सन्, स यथाइममानम् ऋत्वा लोष्ठो विध्वंसेतैव५ ह वै विध्वंसमाना विष्वञ्चो विनेशु'रिति । छान्दोग्येपि प्राणादिष्वेवमेव पाप्मवे- धमुक्त्वासन्थे न तथेत्युच्यते । एतावान् परं विशेषः, वाजसनेयिनां गानकर्तृत्वम्, सामगानामुद्गीथत्वेनोपास्यत्वमुच्यते वाक्प्राणादीनामिति । अत्र देहसम्बन्धित्वगानकर्