अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1943, कुल 2600 में से
संदर्भ में पढ़ें१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम्। [अ० ३ पा० ३ अ० ५ सू० २६. 'तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिकैः पठ्यते । परमपदेन ब्रह्मोच्यते । तथाच सकार्याविद्यारहितः परममुपैति । तदनन्तरं साम्यमुपैतीति योजना । तत्रेवं विचार्यते । साम्यं हि समानजातीयधर्मवत्त्वम् । तच्च कतिपयधर्मैर- शेषतन्निष्ठधर्मैर्वा भवति । तत्रान्त्यः पक्षो ब्रह्मणा समं न सम्भवति । 'न तत्सम- श्चाभ्यधिकश्च दृश्यत' इति श्रुतिविरोधात् । अत आद्य एव पक्षोऽनुसर्तव्यः । तत्र कैर्धर्मैः साम्यमिहोच्यत इत्याकाङ्क्षायामाह हानाविति । ब्रह्मणः सकाशाद्विभागो जीवस्य हानिशब्देन उच्यते । तथाच तस्यां सत्यां ये धर्मा जीवनिष्ठा आनन्दांशै- श्वर्यादयो भगवदिच्छया तिरोहिताः, ते ब्रह्मसम्बन्धे सति पुनराविर्भूता इति तैरेव भाष्यप्रकाशः । भगवत्सम्बन्धे विशेषबोधिकां श्रुतिमाहुः तदेत्यादि । एतत्पूर्वार्धं तु 'यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनि'मिति । पठ्यते इति । मुण्डके पठ्यते । ननु क्वात्र भगवत्सम्बन्ध उच्यत इति शङ्कायां पूर्वार्धस्य स्फुटार्थत्वादुत्तरार्धं व्याकुर्वन्ति परमपदेनेत्यादि । विद्वान् भगवज्ज्ञानवान्, पुण्यपापे अविद्याकार्ये, ज्ञानेन विधूय निवार्य, निरञ्जनः अविद्या- रहितः सन्, परमं ब्रह्म उपैति, तदनन्तरं साम्यमुपैतीत्येवमर्थः संक्षेपेण तथाचेत्यादिनोक्तः । एतेन यदन्यैरुक्तं 'परममत्युत्कृष्टं साम्यं समत्वं अद्वैतलक्षणं उपैति अवगच्छती'ति । तन्निरस्तम् । समशब्दस्य सर्वपर्यायत्वे साम्यं सर्वत्वम्, तुल्यपर्यायत्वे तौल्यम्, न पुनरद्वैतं निर्विशेषत्वलक्षणम्, लक्षणाप्रसङ्गात् । उभयनिरूपितधर्मरूपसाम्याङ्गीकारेपि यथा नाद्वैतहानिः, तथातीतपाद एवोपपादनात् । अन्यथा श्रुतिविरोधप्रसङ्गाच्च । अत उपैतिपदावृत्तिरेव युक्तेति । ननु भवत्वेवम्, तथापि किमत्र विचार्यमित्यत आहुः तत्रेदमित्यादि । इदमिति । साम्यम् । विचारमुपपादयन्ति साम्यं हीत्यादि । आहेति । यैर्धर्मैः साम्यं तानत्राहेत्यर्थः । सूत्रं व्याकुर्वन्ति ब्रह्मण इत्यादि । सूत्रे तुशब्देन श्रुत्यन्तरे समाभ्यधिकनिषेधादत्र साम्यपदं लक्षणया अद्वैतपरमिति पक्षो निरस्यते । ब्रह्मणः सकाशाद्विभागो जीवस्य, 'ओहाक् त्याग' इति धातुनिष्पन्नेन हानिशब्देनो- च्यते । विभागस्य पूर्वस्थितित्यागरूपत्वात् । तथाच तस्यां सत्याम्, उपायनशब्दशेषत्वात्, उपायनं ब्रह्मप्राप्तिस्तद्वाचकः शब्द उपैतिशब्दस्तच्छेषत्वात् साम्यस्य ये धर्मास्तिरोहिताः, ते परमोपायने ब्रह्मसम्बन्धे सति पुनराविर्भूता इति तैरेव तथा तैरेव साम्यमित्यर्थः । नन्वेवं रश्मिः । तथा सतीतिभाष्यं विवृण्वन्ति स्म भगवदित्यादि । विशेषेति । साम्योपायनरूपविशेषबोधिकाम् । पश्य इति । पश्यतीति पश्यः । भगवज्ज्ञानेति । स्मार्तः प्रयोगः । उपैतीति । उप आ एतीति पदच्छेदः । तथाचेत्यादिना भाष्येणोक्तः । लक्षणेति । ब्रह्मवत् सर्वत्वे अभेदसम्बन्धो लक्षणा । तौल्येपि अभेदः । ब्रह्मतुल्यः ब्रह्माभिन्न इत्यर्थात् । सिद्धान्ते साम्येऽद्वैतमुपपादयन्ति स्म उभयेति । वक्ष्यमाणे इत्यर्थः । अतीतेति । तदनन्यत्वाधिकरणे । 'परमत' इत्यधिकरणे 'स्थानविशेष' सूत्रे 'अम्बुव'दधिकरणे वा । श्रुतीति । अद्वैतश्रुतिविरोधप्रसङ्गात् । लक्षणयेति । अभेदसम्बन्धरू- 18 18