अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1944, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २८३ तथेत्यर्थः । भगवदानन्दादीनां पूर्णत्वाज्जीवानन्दादीनामल्पत्वाज्ञानेव सर्वैर्धर्मैः कृत्वा ब्रह्मसाम्यं जीव उपचर्यते । 'साम्यमुपैती'ति । वस्तुतस्तु नैतैरपि धर्मैः साम्यमिति भावः । अत एव, 'न तत्सम' इति श्रुतिर्विरुद्धा । अत एव सूत्रकृता 'साम्यमुपैती'ति साम्योपायनशब्दमात्रम्, न तु साम्यपदार्थः स्वारसिकोऽत्रा- स्तीति भावप्रकटनाय शब्दशब्द उक्तः । ननु तैरैव धर्मैः साम्यम्, नेतरेरित्यत्र को हेतुरित्याकाङ्क्षायामाह उपायनशब्दशेषत्वादिति । 'परममुपैती'ति य उपायन- शब्दः, तच्छेषत्वात् साम्योपायनस्येत्यर्थः । ब्रह्मसम्बन्धहेतुकत्वादानन्दांशाया- विर्भावस्य, तदैव साम्योपायनकथनात्तैरेव धर्मैः साम्यमभिप्रेतमिति भावः । नन्वानन्दादीनां ब्रह्मधर्मत्वात् तैस्तत्साम्यकथनं तद्भेदमेव गमयेदित्याशङ्क्य, तद्धर्मवत्त्वमात्रस्य न तद्भेदसाधकत्वमित्यत्र दृष्टान्तमाह कुशेल्यादि । कुशा औदुम्बर्यः समिधस्ता अग्निष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तदा तत्सम्बन्धि यच्छन्दःस्तुत्युपगानं तद्वदित्यर्थः । तत्र 'अभि त्वा शूर नोनुमो दुग्धा इव धेनव' भाष्यप्रकाशः। साम्येपि 'न तत्सम' इति श्रुतौ संकोचस्तु स्यादेवेत्यत आहुः भगवदित्यादि । जीवान- न्दादीनामल्पत्वादिति । 'सर्वे जीवाः सर्वमयास्तथाप्यल्पा' इति नृसिंहोत्तरतापनीये जीवानामल्पतोया उक्तत्वेन तदानन्दादीनामपि तथात्वात् । नन्वेवमेव सूत्राशय इति कथं ज्ञातव्यमित्यत आहुः अत एव सूत्रकृतेत्यादि । हेतुमवतारयन्ति नन्वित्यादि । तदैवेति । ब्रह्मसम्बन्ध एव । तथाचोपायनशब्दशेषत्वात् उक्तैरेव धर्मैः साम्यमिति सूत्रयोजनेत्यर्थः । दृष्टान्तमवतारयन्ति नन्वानन्देत्यादि । व्याकुर्वन्ति कुशा इत्यादि । उपगीयतेऽनेनेत्युपगानम् । करणे ल्युट् । तथाच कुशाभिः कृत्वा छन्दःस्तुत्युपगानसाधनभूत- मकारवदिति सूत्रार्थ इत्यर्थः । एतद्व्युत्पादयन्ति तत्रेत्यादि । रश्मिः। पया । तच्छेषत्वादिति । हानावुपायनशब्दशेषत्वात् । भगवदित्यादीति । उपचर्यते कति- पयधर्मैर्गौणं क्रियते । सूत्रयोजनेति । हानौ जीवस्य भगवत्सकाशाद्विभागे ये जीवनिष्ठा धर्मास्ति- रोहिता भगवदिच्छया आनन्दैश्वर्यादयस्ते भगवत्सम्बन्धे सति पुनराविर्भूता भवन्तीति परं तुकारात् 'न तत्समाभ्यधिकश्च दृश्यत' इति श्रुतिनिषिद्धसाम्यपदं लाक्षणिकमद्वैतवाचकमिति पक्षनिरासात् साम्यमुपैतीति योजना यद्यपि, तथापि दुरूहत्वममन्यमाना उपायनशब्दसोपैतीत्यस्य साम्ये कर्मत्वा- च्छेषत्वं विशेषणत्वं तस्मात् उक्तैरेवैश्वर्यादिधर्मैः साम्यमिति साम्यसैतादृशस्य योजनेत्यर्थः । नन्वानन्देत्यादीति । नेति । चन्द्रवन्मुखमित्यादौ तथा । अनेनेति । भकारेण । छन्द इत्यादि । छन्दोभिर्वेदैः स्तुतियुक्तमुपगानं तत्साधनभूतो भकारः तद्वत् । अत्रोपगानं भावव्युटन्तम् । ऋत्विजो गायन्तीत्यार्त्विज्यं गानस्य । अत्र भाष्ये । तत्सम्बन्धीति । स्तुतिरूपप्रतिपाद्यस्य प्रतिपादकत्व- सम्बन्धि, छन्दसः स्तुतियुक्तमुपगानमित्यर्थः । प्रकृते । तत्रेत्यादीति । अभि त्वेति श्रुत्यर्थस्तु, हिरण्याक्षस्य वराहं प्रति वचः, ब्राह्मणे वाराहोक्तेः । कृष्णं प्रति भीष्मवचो वा । वेदान्ते कृष्णोक्तेः । यद्वा, हे शूर यातुधानादे, यज्ञाभिभावक, त्वामभि त्वा नोनुमः न रयन्तरेण साम्ना स्तुमः । तत्र दृष्टान्तः । 'अदुग्धाः न विद्यते दुग्धं यासु ताः धेनवो यथा न स्तुत्यास्तद्वत्, तवापि ब्रह्मत्वं परं १. अभेदो लक्षणा। 1819