अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1946, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मणः सकाशाद्विभागे सति तदिच्छया तद्धर्मतिरोधानस्य संसारित्वे हेतुत्वमुक्तं यत्, तदपि 'तदुक्त' मित्यनेन स्मार्यत इति न विस्मर्तव्यम् । यथान्यशाखोक्तधर्मा अप्येकस्यां विद्यायामुपसंह्रियन्ते, एवं ब्रह्मनिष्ठा धर्मा जीवेऽप्येतया श्रुत्या बोध्यन्त भाष्यप्रकाशः। ख्यानमसङ्गतम्, उपसंहारप्रकरणे धर्मसाम्यविचारप्रसङ्गस्याभावादित्यत आहुः यथेत्यादि । यथा छान्दोग्यस्थपञ्चाग्निविद्यायां काण्वाद्युक्तः षष्ठोऽग्निः प्राणविद्यायां पञ्चमं रेतश्चोपसंह्रियते, विद्यैक्य- बलात्, तथात्र श्रुत्या परमसाम्यनिरूपणादैक्यभ्रमेणासाधारणा ब्रह्मनिष्ठा धर्मा अपि जीवे उपसंहार्या इति शङ्कानिरासायैतदुक्तमित्यर्थः । तस्माच्चिद्दोषत्वे तिरोहितगुणप्राप्त्या साम्ये च सिद्धे ब्रह्मभूतस्य मुख्यं भजनं सिध्यतीति तदर्थं यतनीयम्, न तु विभूतिपरेण भवितव्यमिति बोधितम् । अत्रापहतपाप्मत्वस्य यज्ञे प्राक्तव्याद्यङ्गसम्बन्धे रुक्मवर्णत्वात् सौभाग्यस्य कर्तृत्वयो- रश्मिः। पञ्चममिति । सर्ववेदान्तप्रत्ययसूत्र एवोक्तम् । 'उपसंह्रियन्त' इत्यनुक्त्वा 'बोध्यन्त' इत्युक्तं तदर्थ- माहुः इति शङ्केति । उपसंहारशङ्कानिरासायैतत् 'बोध्यन्त' इति पदमुक्तमित्यर्थ इत्यर्थः । उपासनां प्राकरणिकीमाहुः तस्मादिति । ब्रह्मनिष्ठधर्माणां जीवे बोधनात् । दोषः पाप्मवेधः तस्मान्निर्गतत्वे प्रथमसूत्रोक्ते द्वितीयसूत्रोक्ते तिरोहितगुणानामानन्दादीनां प्राप्त्या साम्ये । 'ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते परा'मिति गीताया आहुः ब्रह्मभूतस्येति । जीवस्य । मुख्यं परं फलाविसंवादि एकादशैकोनविंशाध्यायोक्तम् । तदर्थ इति । मर्यादामार्गार्थे तदुक्ते । एतेन तत्पदार्थाशया भजनेऽयं पुष्टिमार्गो भवति । 'तत्वायामि ब्रह्मणे'ति सन्ध्याश्रुतेः । तत् महावाक्योक्तं त्वा त्वायामि पद्धत्यां सेवे । पादसेवोक्ता । ब्रह्मणा हिरण्यगर्भेण वन्द्यमानः वन्द्यमानम् । अमः सुः । 'ब्रह्मा मानसी सेवां प्रत्यहं करोती'ति सुबोधिन्याम् । वन्दनभक्तिः सेवापूर्वै एकादशस्कन्धसुबोधिन्यामुक्तम् । तत् पूर्वोक्तं यजमानो दैशिक आशास्ते आशां कुरुते । हविर्भिः बहुविधभक्तिमार्गीयैः समर्पणदानैः । स यजमानो न कृतात्मनिवेदी, किंतु श्रुतात्मनिवेदीत्याह अहेडमान इति । हेड अनादरे । हेडते कृतात्मनिवेदनत्वदशायां गुरुणा न हेडमानोऽहेडमानः, हे वरुण, इह लोके बोधी ज्ञानी उरु यथा भवति तथा शंसमानः कीर्तनभक्तिमान् । आयुः अन्नं प्रमोषीः प्रकर्षेण मोषीः । मुष स्तेये । जलदोषेण स्तेयं मा कार्षीः । अडभावश्छान्दसः । उरु शं यथा भवति तथा स यजमानोऽतो नोऽस्माकं आयुः त्वं प्रमोषीः । आनन्दमयादीनां प्रियशिरस्त्वसूत्रानुसारेण प्रियाद्युपासनमुक्त्वा तत्सङ्गेन स्मृताश्च विरुद्धधर्माधारत्वाय निकेतत्वानिकेतत्वे श्रीवैराग्यरूपे आहुः पुरुषविधब्राह्मणोक्तपतिपत्नीभजनाय । तत्सङ्गेन स्मृतार्थं च । अत्रापहतेति । श्रुतौ अपहतपाप्मा यज्ञ उक्तः, सोऽत्र शाखाभेदेन पुरुष- विधः । आनन्दमयाधिकरणे पुरुषविधब्राह्मणोक्तेरानन्दमयाद्युपासनप्रसङ्गेन पुरुषविध आनन्दमय इति स्मृतेः । पुरुषविधयज्ञो दंपतीत्वतः 'पतिः पत्नी चाभवता'मिति पुरुषविधब्राह्मणश्रुतेः । ततो यज्ञ आसन्द्येऽपहतपाप्मत्वं रुक्मवर्णत्वं पत्नीकृतमथोक्षजे । तस्याः क्रियात्वेन रुक्मवर्णत्वमिति । गोप्यत्वा'दजामेका'मिति श्रुत्युक्ताया अजायास्त्यक्ताया गुणहानिः तस्यां सत्यां ब्रह्मोपासनशेषत्वात्सा- म्यस्य । ब्रह्मप्राप्तिमुख्यनित्यक्रीडाप्रवेशोपयिकः प्रपञ्चः तस्य शेषत्वं पत्नीनिष्ठसाम्यस्येति परम्परया ब्रह्मोपासनशेषत्वं साम्यस्येत्याशयवन्त आहुः सौभाग्यस्येति । अलौकिककर्तृत्वयोनित्वाभ्यां सौभाग्यस्य साम्यरूपस्य । ब्रह्मवदभिन्न (निभिन्न) निमित्तोपादानत्वं तेन साम्यमित्युक्तम् । तस्याः कार्यकारणभावः प्रपञ्चसम्बन्धः इति त्रिधा सौभाग्यजन्यकर्तृत्वयोनित्वैस्त्रिधा आधिदैविकादिभेदेन या श्रीलक्ष्मीः शोभ्न