अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1947, कुल 2600 में से
संदर्भ में पढ़ें२८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २६. भाष्यप्रकाशः । नित्याम्ब्रां प्रपञ्चस्य च सम्बन्ध इति त्रिधा श्रीनिकेतनत्वमुक्तम् । अन्ये तु इदमप्येकसूत्रमधिकरणमङ्गीकृत्य, 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी'ति ताण्डिश्रुतिं 'तदा विद्वा'न्नित्याथर्वणश्रुतिं 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्या'मिति शाट्यायनिश्श्रुतिं 'तत्सुकृतदुष्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृत'- मिति कौषीतकिश्रुतिं चोदाहृत्य, यत्रोभयं श्रूयते, तत्र न कश्चिद्विचारः, यत्राप्युपायनमेव श्रूयते, न हानम्, तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरुपैयमानयो