अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1951, कुल 2600 में से
संदर्भ में पढ़ें२९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ६ सू० २७. चित्तो भूत्वात्मन्येवात्मानं पश्येत्, सर्वमेनं पश्यति, सर्वोऽस्यात्मा भवति, सर्वस्यात्मा भवति, सर्वं पाप्मानं तरति, नैनं पाप्मा तरती'त्याद्युक्त्वान्ते पठ्यते 'य एवं वेदे'ति । अत्र हि पाप्मतरणादिरूपं ब्रह्मज्ञानमाहात्म्यमुच्यते । ज्ञानस्य संसारमुक्तिहेतुत्वात् । अथर्वणोपनिषदादिषु तु भगवद्भक्तेर्मुक्तिहेतुत्वमुच्यते । 'परं ब्रह्मैतत् यो धारयती'त्युपक्रम्य 'भजति सोऽमृतो भवति सोऽमृतो भवती'ति । अग्रेऽपि 'मुक्तो भवति संसृते'रिति । एतद्विषयव्यवस्था तु पूर्ववोक्तेति नात्रोच्यते । एतावान् परं सन्देहः, 'य एवं वेद स पाप्मानं तरती'ति वचनाज्ज्ञानदशा- यामपि पापसत्त्वं वाच्यम्, अन्यथा तरणासम्भवापत्ते