अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1952, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३९१ तत्र श्रुतावविशेषेण पापनाशश्रवणान्मुक्तिपूर्वकाले पापनाशावश्यम्भा- वावेकत्र निर्णीतः शास्त्रार्थोऽपरत्रापि तथेति न्यायेन भक्त्या पापनाशादत्रापि तथैवेति प्राप्ते, आह सम्पराय इत्यादि । सम्परायः परलोकः, तस्मिन् प्राप्तव्ये सतीत्यर्थः । अथवा । परः पुरुषोत्तमस्तस्याऽयो ज्ञानम् । तथाच सम्यग्भूतं पुरुषोत्तमज्ञानं येन स सम्परायो भक्तिमार्ग इति यावत् । अथवा । परे पुरुषोत्तमे अयनमयो गमनं प्रवेश इति यावत् । तथाच सम्यक्परायौ येन स तथा भक्तिमार्ग इत्यर्थः । ज्ञानमार्गेऽक्षरप्राप्त्या भक्तिमार्गे पुरुषोत्तमप्राप्त्या तस्माद्विशेषमत्र ज्ञाप- यितुमेवंकथनम् । अतो भक्तेः पूर्वमेव पापनाशो युक्त इति भावः । ब्रह्मभूतस्य भक्तिलाभानन्तरं 'भक्त्या मामभिजानाती'ति भगवद्वाक्यात् पुरुषोत्तमस्वरूप- ज्ञानस्य भक्त्येकसाध्यत्वात् तथा । एवं सति 'मुक्तानामपि सिद्धानां नारायण- भाष्यप्रकाशः । पूर्वपक्षमाहुः तत्र श्रुतावित्यादि । तथैवेति । भक्तिदशायां पापमत्त्वमेव । सिद्धान्तं वक्तुं सूत्रं व्याकुर्वन्ति सम्पराय इत्यादि । भक्तिदशायामेव तर्तव्याभाव इति भावः । संपरायशब्दस्य प्रसिद्धार्थग्रहणे भक्तिमार्गबोधकपदाध्याहारापत्तिरिति तमर्थं विहाय यौगिकार्थं गृहीत्वा व्याकुर्वन्ति अथेत्यादि । अत्र द्वेधा व्याख्यानेन पुरुषोत्तमज्ञानस्य तत्प्राप्तेश्च साधनं भक्तिमार्ग एवेति ज्ञापिते सन्देहो भवति । ननु 'रूढिर्योगमपहरती'ति न्यायेन योगस्य निर्बलत्वाद्विदं न युक्तम्, व्यासचरणैर्वा कुत एवं प्रयुक्तमिति, तद्वारणायोहुः ज्ञानमार्गे इत्यादि । तस्मादिति । ज्ञानमार्गात् । एवंकथनमिति । यौगिकपदकथनम् । तथाचैवं व्यासाशयादध्या- हारापेक्षया यौगिकादरस्य लधुत्वाच्चैवमाशयकथनं युक्तमित्यर्थः । भक्तेरिति । मर्यादामार्गीयप्रे- मात्मिकाया भक्तेः । नन्विदं तदा युज्येत, यदा ज्ञानमार्गाद्भक्तिमार्गोत्कर्षः स्यात्, स एव तु कथ- मित्यत आहुः ब्रह्मेत्यादि । तथेति । ज्ञानमार्गाद्भक्तिमार्गोत्कृष्टत्वम् । ज्ञानमार्गे साक्षात्कारोत्तरं पुण्यपापनिवृत्त्या सुखप्राप्तेः, भक्तेस्तु पापनाशोत्तरमेव भवनादादित एव सुखप्राप्तेर्भेत्थ्यापि बोध्यम् । किञ्च । ननु भवत्वेवम्, तथापि कथं भक्तिमार्गे तर्तव्याभाव इत्यत आहुः एवं सतीत्यादि । रश्मिः । मुक्तो ज्ञानमार्गीयाद्भिन्नः । तत्र श्रुतावित्यादीति । अत्रापीति । भक्तिमार्गेपि । प्रसिद्धेति । 'कृत्वा तत्साम्परायिक'मित्यादौ परलोके सम्परायशब्दः प्रसिद्धः । भक्तिमार्गमिति । भक्तिमार्गे यः सम्परायः परलोकस्तस्मिन् तर्तव्याभावात् । तथा ज्ञानानन्तरमपि पापवन्तोऽन्ये भक्तिमार्गीयेभ्योऽन्ये 'मुक्तानामपि सिद्धाना'मित्याद्युक्तवाक्येभ्य इति सूत्रार्थः स्यादत्र तथैत्यर्थः । सप्तम्यन्तभक्तिमार्गपदा- ध्याहारः । लाघवादर्थाध्याहारे पदजन्यपदार्थोपस्थितिरहान्या घटपदात्पटवोधः स्यादिति भावः । तत्प्राप्तेरिति । भाष्ये प्रवेशः प्राप्तिरिति भावः । भक्तिमार्ग एवेति । प्रथमान्तं पदम् । तथाच तृतीयसुबोधिनौ । 'भक्तिमार्ग एव मार्ग' इति । सन्देह इति । उक्तसन्देहः । एवमिति । यौगिकं पदम् । ज्ञानमार्ग इत्यादीति । इदमानुमानिकाधिकरणे 'त्रयाणामेव चैव'मिति सूत्ररश्मौ 'यस्मि- न्निदं विचिकित्सन्ती'ति श्रुतिव्याख्याने स्पष्टम् । युक्तमित्यर्थ इति । तथाच पूर्वमीमांसाकारिकासु श्रीमदाचार्याः 'विचारो योगरूढित' इति । वेदे तथा । वेदान्ते योगमात्रं 'सर्वे सर्वार्थवाचकाः' 'सर्वं सर्वमय'मिति चेति । अत्रेति । भक्तिमार्गे । ब्रह्मेत्यादीति । ब्रह्मभूतस्येति । तर्तव्यपापरहितस्य । भक्त्यैकेति । न तु पापाभावं द्वारीकृत्य भक्त्येकसाध्यत्वात् । उत्कृष्टत्वमिति । 'अभिजानाती'ति- 1827