अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1953, कुल 2600 में से
संदर्भ में पढ़ें१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ. ३. पा. ३. अ. ६. सू. २८. परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' 'मुक्तोपसृप्यव्यपदे- शात्' 'जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते' 'जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् । वैष्णवत्वं लभेत् कश्चित् सर्वपापक्षयादिहे'त्यादिवाक्यैः पापनाशानन्तरमेव भक्तिसम्भवाद्भ- क्तस्य तर्तव्यपापादेरभावान्न ज्ञानमार्गीयतुल्यतेत्यर्थः । ननु 'य एवं वेदे'ति सामान्यवचनात् पुरुषोत्तमविदोऽप्येवमेवेति चेत्, तन्नाह तथा ह्यन्ये । तथा ज्ञानानन्तरमपि पापवन्तोऽन्ये भक्तिमार्गीयेभ्योऽन्य इत्यर्थः । उक्तवचनरूपोपपत्तिर्हिशब्देन ज्ञाप्यते ॥ २७ ॥ ननु भक्तिमार्गीयाणामपि गोपस्त्रीणां 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गला' इति वचनेन दुष्कृतसुकृतयोरपि हानि- श्रवणात् पूर्वोक्तवचनैर्विरोध इत्याशङ्कायामुत्तरं पठति । छन्दत उभयाविरोधात् ॥ २८ ॥ छन्द इच्छा, तथाच भक्तिमार्गीयाणामपि पूर्वं पापनाशो यः, स भगव- भाष्यप्रकाशः। 'मुक्ताना'मिति वाक्यं तु षष्ठस्कन्धचतुर्दशाध्यायस्थम् । 'नराणां क्षीणपापाना'मिति तु पाण्डव- गीतास्थम् । 'समाराध्य वृषध्वज'मिति तु वाराहपुराणीयप्रबोधिनीमाहात्म्यस्थम् । वैष्णवत्वमिति । भक्तिमार्गीयप्रेमवत्त्वम् । एतदग्रे 'एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः । वेदोक्तविधि- ना सम्यक् भक्तिमार्गानुसारत' इति गारुडवाक्यात् । 'स्निग्धास्ते वैष्णवाश्च त' इति गारुडाच्च । तथाचैतेभ्यो वाक्येभ्यो भक्तस्योत्कृष्टत्वात् तथेत्यर्थः । सूत्रशेषमवतारयन्ति ननु य इत्यादि । नन्विदं सूत्रे कुतो लभ्यत इत्यत आहुः उक्तेत्यादि । तथाच हिशब्दाल्लभ्यत इत्यर्थः ॥ २७ ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ सूत्रमवतारयन्ति ननु भक्तीत्यादि । पूर्वोक्तव- चनैरिति । पापाभावबोधकवचनैः । तथाच विरोधादनिश्श्चये पापसन्निपातान्न भक्तिमार्गीयस्यो- रश्मिः। पदोक्तं ज्ञानं तु फलात्मकमिति भावः । उत्कर्षापकर्षौ तु साधनभूतज्ञानभक्त्योः । इति त्विति । अत्र त्रुटिः 'अमुकस्य'मित्यस्य । एतेभ्य इति । भाष्ये आदिशब्देन 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा' इति वाक्यं तदत्रापीति ज्ञेयम् । तथेति । तर्तव्याभावो भक्तिमार्ग इत्यर्थः । ननु य इत्यादीति । इयं 'वाजसनेयिशाखाया'मित्यादिभाष्योक्ता ज्ञेया । यः पूर्वोक्तप्रकारेण ब्रह्म वेदेत्यर्थे पुरुषोत्तमो वाग्वि- षयः सगुणं ब्रह्मेति पुरुषोत्तमविदोप्येवमेवेत्यर्थः । अन्य इत्यर्थ इति । तथाच ब्रह्मशब्देन न पुरुषोत्तमः, तस्य पुच्छत्वात्, 'ब्रह्म पुच्छं प्रतिष्ठे'ति श्रुतेः । पुरुषोत्तमस्तु भक्तैः सह निगूढभावं करोतीति ब्रह्म वेदेत्यत्र पुरुषोत्तमग्रहणाभावान्न ब्रह्मशब्दः पुरुषोत्तमसाधारणः । तथाच ब्रह्मविदो ज्ञानानन्तरमपि पापवन्तो पुरुषोत्तमविद्वद्धो भक्तिमार्गीयेभ्योऽन्य इत्यर्थः ॥ २७ ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ विरोधेति । भक्तिमार्गे पापपापापाययोर्विरोधः १. असंभवदिति पाठः । २. मर्यादामागीयप्रेमवत्त्वमिति पाठः । ३. वेदोक्तविधिना भद्रे आगमोक्तेन वा सुश्वीरिति वाक्यादिति पाठः । 1828