अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1954, कुल 2600 में से
संदर्भ में पढ़ेंदिच्छाविशेषतः, अतो भक्तेः पूर्वमेव पापनाशनिरूपकातन्नाशनिरूपकवचनयो- रविरोधाद्धेतोर्भक्तेः पूर्वमेव पापनाश आवश्यक इत्यर्थः । एवं सति भक्तेः पूर्वमेव तन्नाश औत्सर्गिकः । स क्वचिद्विशेषेच्छयापनोद्यत इति भावो ज्ञापितो भवति । अत्रेच्छाविशेषे वक्तव्यबहुत्वेपि किञ्चिदुच्यते । चिकीर्षितलीलामध्यपातिभक्ता न सोपाधिस्नेहवत्यः, न सगुणविग्रहाः, न वा सुकृतादियुक्ता इति ज्ञापयितुं कति- पयगोपीस्तद्विपरीतधर्मयुक्ताः कृत्वा, तस्यां दशायां स्वप्राप्तौ प्रतिबन्धं कार- यित्वा, स्वयमेव तां दशां नाशयित्वा, स्वलीलामध्यपातिनीः कृतवानिति । न ह्येतावता सार्वदिक एवायं भावो भवति । न हि मन्त्रप्रतिबद्धशक्तिरग्निरदाहक इति तत्स्वभावत्वमेव तस्य सार्वदिकमिति वक्तुं शक्यम् । एतच्च श्रीभागवतद-
भाष्यप्रकाशः। त्कर्षसिद्धिरिति शङ्कायां विरोधनिवारणायोत्तरं पठतीत्यर्थः । सूत्रं व्याकुर्वन्ति छन्द इच्छे- त्यादि । एवं सतीति । पापनाशस्य बहुवाक्यसिद्धत्वे सति । ज्ञापितो भवतीति । इच्छाया अविरोधकथनेन ज्ञापितो भवति । ननूपपादनमन्तरेणैवामिच्छा कथं ज्ञातुं शक्यत इत्यत आहुः अत्रेच्छेत्यादि । तथाच विस्तरभियात्रानुपपादनेपि सुबोधिनीतोऽवगन्तव्यमित्यर्थः । एवं चात्र तर्तव्यलिङ्गश्रुतां 'तमेतं वेदानुवचनेन विविदिषन्ती'ति पूर्वं श्रवणात् सामान्यतो वेदैकसमधिगम्यत्वं प्रतिपादितम् । सरस्वत्यां कृतकेतमिति । विशेषस्त्वग्रे वाच्य इति ।
रश्मिः । सहावस्थानाभावस्तस्य निवारणाय । इच्छाया इति । पञ्चम्यन्तम् । अत्रेच्छेत्यादीति । द्वितीयस्क- न्धनवमाध्याये मूलेच्छा विशेषेच्छा चोक्ता, तत्रोक्तविशेषेच्छायां वक्तव्यं बहुत्वं यत्र विषयबहुत्वात्त- स्मिन् सत्यपि । तद्विपरीतेति । चिकीर्षिताङ्गजसङ्गलीलामध्यपातिभक्तधर्मा निर्गुणत्व-सोपाधिस्नेहवत्त्वा- भाववत्त्व-सगुणविग्रहाभाववत्त्व-सुकृतदुष्कृतत्वयुक्तत्वाभाववत्त्वरूपाः । तद्विपरीतधर्माः सगुणत्वसोपाधि- कस्नेहवत्त्व-सगुणविग्रहवत्त्व-सुकृतदुष्कृतत्वयुक्तत्वरूपाः । तैर्युक्ताः कृत्वा । तस्यामिति । शारीर्यां दशा- याम् । गोपकृतं प्रतिबन्धं कारयित्वेति । गोपाः कुर्वन्ति तान् प्रतिबन्धं कारयित्वा । तां शारीरीम् । 'अङ्गसङ्गं करिष्यामी'ति श्रुतिविरोधोऽङ्गसङ्गाभावे मत्वा परिहरन्ति स्म नहीति । अयमिति । सगुण- त्वादिभावः । तस्येति । अग्नेः । दशमेति । पञ्चाध्यायाम् । सम्प्रायच्छन्दश्शब्दयोः गूढार्थं व्यङ्ग्यार्थं वाहुः एवं चात्रेति । अत्रेति । अधिकरणे । श्रावणादिति । वेदस्य वेदान्ताङ्गत्वश्रावणात् सामान्यतः वेदवेदान्तसाधारण्येन वेदत्वेन यो वेदः तदेकसमधिगम्यत्वम् । सरस्वत्यां वेदवेदान्तरूपायां कृतं केतः स्थानं प्रतिपादकत्वं येन तत् । विशेषः सकलजीवनिकायकेतत्वम् । अग्रेऽग्रिमाधिकरणे । तेनोक्तश्रीनिकेतत्वधर्मे प्रमाणं सूत्रीयछन्दःशब्दो वेदवेदान्तार्थव्यञ्जक उक्तः । पश्चात् सकलजीविनि- कायकेतत्वमग्रेतनाधिकरणे निरूपयिष्यत इति ज्ञेयम् । श्रीवत्सकौस्तुभौ भगवतोऽन्यवैलक्षण्यज्ञापकौ । तेन प्रसङ्गात्पूर्वोक्तश्रीवत्सवत्त्वोपसंहारो दृढीकृतः । भक्तिमार्गे पापानुपसंहारः काचित्को विशेषेच्छाप- नोद्य उपसंहारश्चोक्तः । किञ्च, पादारम्भे 'इह तु ब्रह्मगता एव धर्मा विचार्यन्त' इति सावधारणभाष्या- द्धुक्तोऽध्यात्मिकादित्रितयविदाश्रयभक्तो नित्यलीलास्थो भक्तत्वेन न ग्राह्यः, अपित्वाश्रयत्वेनेति- फलप्रकरणवाक्योक्त्या ज्ञायते । अन्यत्र तु 'जीवमुख्यप्राणलिङ्गा'दिति सूत्रन्यायेन परम्परया ब्रह्मगता धर्मा बोध्या इति ।