भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1955, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1955

भाष्यप्रकाशः। नन्वन्यैर्यत् सूत्राणि व्याख्यायन्ते, तत्र पूर्वतन्त्रोक्तन्याया उपोद्वलकत्वेनोपन्यस्यन्ते, व्यासपादैस्तेषां तत्र तत्रादरणात्, अत्र तु पुराणेतिहासवाक्यानि, तत्र किं ज्याय इति चेत् । उच्यते । इदमेव ज्यायः । इतिहासपुराणयोर्वेदोषबृंहणत्वात् । तत्रापि 'वेदान्तकृद्वेदविदेव चाह'मिति 'मां विधत्तेऽभिधत्ते मा'मिति वाक्यद्वितयीव ज्यायसी। स्वयं समाधावनुभूयोक्तत्वाच्छ्री- भागवतं च । पूर्वतन्त्रे तु जैमिनये यत् स्वयं गुरुमुखादवगत्य पाठितं तदेव आद्रियते, नेतरदिति जैमिनिमतदूषणादवगम्यते, पुराणदिकं न क्वापि दूष्यते, प्रत्युतोपोद्वलकत्वेन चाद्रियते, अतो विचार्य किं ज्याय इति । किञ्च, अस्मिन् सूत्रे छन्दःशब्देन कैश्चिद्विद्याभ्यासयमनियमजनिका विदुष इच्छा व्याख्याता, अन्यैस्तु तत्सुहृदां तद्द्विषामिच्छा, इतरैस्तु व्याख्यातुरिच्छा, यथाकथ- ञ्चिच्छ्रुतिद्वयाविरोधः सम्पाद्य इति । एवमपि विचारे ईश्वरेच्छायाः सर्वत्र कारणत्वात् तत्तद्वि- रश्मिः। व्याख्यायन्त इति । द्विसूत्रमिदमधिकरणमन्येषामपि । तैः सुकृतदुष्कृतहानिकालविचारः । तद्धानं किं देहवियोगकाले देहादनुत्क्रान्तसाध्वनि च, उत देहवियोगकाल एवेति विशये । मार्गमध्ये परित्याग इति पूर्वपक्षे । मरणात्पूर्वमेवोपासे साक्षात्कृते तयोः परित्याग इति व्याख्यायन्ते । उपन्यस्यन्त इति । (यथा शंकरभाष्ये पर्यङ्कविद्यायोक्ता, तस्यां पूर्वतन्त्रोक्तन्यायाः पूर्वतन्त्रोक्तन्यायसिद्धार्थकविद्याः तासामुपोद्वलकत्वेनोक्तिः। यथा पर्यङ्कविद्यायां कौषीतकिनोध्वनि सुकृतदुष्कृतवियोगमामनन्ति, तथा ह्यान्येपि शाखिनः ताण्डिनः शाख्यायिनश्च । देहवियोगकाले सुकृतदुष्कृतहानमामनन्तीति) व्याख्याकारैरुपन्यस्यन्ते । भाष्येष्वादर्शनात् । तत्र तत्रेति । यथा 'आकाशस्तल्लिङ्गा'दित्यत्राकाशपदेन 'ब्रह्म वदे'दिति श्रुतिं कल्पयित्वाकाशादुत्पद्यन्त इत्याकाशादिशब्दा ब्रह्मवाचका इत्यत्र 'श्रुतिलिङ्गवाक्यप्रकरणे'ति पूर्वतन्त्रसूत्रात् । अहमिति । गीताव्यक्ता । इदं गीता- वाक्यम् । वेदवित्कर्तृकत्वाद्गीता ज्यायसी । 'मा'मित्यादिश्रीभागवतं गीताव्याख्यानत्वेन । व्याख्याता गीता ज्यायसी । स्वयमिति । व्यासेन भगवता चेति ज्यायः। जैमिनीति । इदं गुणत्रयविवर- णाध्याये स्पष्टम् । कैश्चिदिति । शङ्कराचार्यैः । तथाच भाष्यं 'छन्दत' इति सूत्रस्य । 'यदिच देहादप- सृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयोभ्युपगम्येत, ततः पतिते देहे यमनियमवि- द्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषप्रयत्नस्येच्छातोऽनुष्ठानानुपपत्तेरिति । य

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1955, कुल 2600 में से · BharatKosha