अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1966, कुल 2600 में से
संदर्भ में पढ़ेंउक्तविशेषणविशिष्टस्य स्वतो विकर्मकृत्यसम्भवात् सांसर्गिकं मत्तो भूतम्, न तु मया कृतमितिंवत् वा यत् कृतं विकर्म तत् 'कथञ्चिदुत्पतित'मित्युच्यते। त्यक्तान्यभावत्वेन भगवत्सेवाव्यासङ्गेनेन्द्रद्युम्नारख्यपाण्ड्यराजवन्महदागमनाथ- ज्ञानं वा। वक्ता उक्तरूपे भक्ते विकर्मोक्तावेवानुचितत्वज्ञापनाय वा 'कथञ्चि'दि- त्युक्तवान्। तेन तर्कितं विकर्मात्राभिप्रेतमिति ज्ञायते। एतादृशस्यापि यदि विकर्म भवत्, तदा तन्निवृत्त्यर्थं न तेनान्यत् कर्तव्यम्। भगवानेव हृदि निवि- ष्टस्तद्धुनोति यत इति। कदाचित् स्वभक्तिबलस्फूर्त्या सदोषमपि जनं कृतार्थी- करिष्यामीत्यङ्गीकुर्याच्चेद्भक्तः, तदैव तद्बुद्दिश्य एव तत्संसर्गजं दोषमस्यैतदङ्गी- कारेण तद्दोषमपि धुनोतीति सर्वपदेनोच्यते। चिरकालभोग्यमपि तत्क्षणेनैव नाशयति। तन्नाशने कालादेरप्रतिबन्धकत्वमित्यपि ज्ञापयितुं परस्य कालादेरीश-
भाष्यप्रकाशः।
पूर्वपदेनैव सम्बन्धो युक्त इत्याशयेन द्वितीयं विवृण्वन्ति उक्तेत्यादि। मत्तो भूतम्, न तु मया कृतमितिवदिति। अकामतः अबुद्धिपूर्वकं च कृतम्। एवञ्च सांसर्गिकेन सह त्रिविधं विकर्मोक्तम्। त्यक्तान्यभावस्तदपि न सम्भवतीत्यरुच्या ततोऽतिरिक्तमन्यदाहुः त्यक्तेत्यादि। अज्ञानं वेति। कथञ्चिदुत्पतितविकर्मस्थानीयमिति शेषः। गौण्यङ्गीकारे बीजं वक्तुमाहुः भक्तेत्यादि। तथाच तादृशस्य पापमेव नास्ति, किन्तु भगवदिच्छैव तादृशी सन्मार्गस्थापनाथे- त्याशयेनैतद्वाक्यवक्ता करभाजनो योगीश्वर एकादशस्कन्धे निमिं प्रति तथोक्तवानित्यर्थः। एवं कथनस्य तात्पर्यमाहुः तेनेत्यादि। सर्वपदतात्पर्यमाहुः कदाचिदित्यादि। इदमपि नवमस्कन्धे रन्तिदेवोपाख्याने सिद्धम्। 'तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः। अभवन् योगिनः सर्वे नारायणपरायणा' इति, द्वितीयस्कन्धे शुकोक्तौ च 'किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः। येऽन्येऽपि पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नम' इति। चिरकालभोग्यस्य यत्र क्षणमात्रेण नाशनम्, तदुदाहरणं त्वन्तर्गृहगताः प्रागेवोक्ताः। सिद्धमाहुः
रश्मिः।
त्यर्थात्। अयमिच्छाविषयो वाच्यः पूर्वभाष्यात्। पूर्वभाष्य इच्छाविवरणम्। पूर्वेति। उत्पतितपदेन। द्वितीयमिति। कथञ्चिदुत्पतितम्। मत्त इति। इत्यत्रेतीतिवत्। सप्तम्यन्ताद्वसिः। मत्तो कामतः भूतं अबुद्धिपूर्वकं भूतं संसर्गंतो भूतम्। अकामतः पञ्चमस्कन्धे बभ्रूहननं बभ्रूहनने इच्छाभावात्। अबुद्धि- पूर्वकं यथा सेवा संसारसहितसंसारस्य नाशनं कृतम्। संसर्गतः कृतमक्रूरे। संसर्गः शतधन्वनः। सांसर्गिक- मित्यत्र संसर्गेण निर्वृत्तमिति विग्रहे 'तेन निर्वृत्तमिति सूत्रेण 'अध्यात्मदिभ्यश्चेत्यत्' इति वा भवार्थे 'तदस्य प्रयोजन, मिति वा ठञ्। एतदपीति। त्रिविधं विकर्म। तत इति। त्रिविधात्। गौणीति। एकस्था- नीयत्वं गुणस्तद्योगाद्गौणी। भक्तेत्यादीति। उक्तरूप इति। पाण्ड्यराजवद्वर्त्तमाने। अनुचित- त्व्वेति। अनुचितत्वसूचनाय। तादृशस्येति। पाण्ड्यराजवद्वर्त्तमानस। सन्मार्गति। पाण्ड्यराजवद्व- र्त्तमाने भक्ते विकर्मोक्तावनुचितत्वं यत्र मार्गे तादृशसन्मार्गस्थापनाथी। तथेति। कथञ्चिदित्युक्तवान्। तेनेत्यादीति। तर्कितं अन्यथाज्ञानविषयं विकर्मात्र वाक्येऽभिप्रेतम्। तत्प्रसङ्गेति। रन्तिदेवस्य यः
१. कृतमिति बुद्धयेति पाठः। २. अनौचित्यापनाय इति पाठः। ३. अत्राप्यमीत्यादिपाठः। ३९ ब्र० सू० २० 1841