अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1967, कुल 2600 में से
संदर्भ में पढ़ेंत्वमुक्तम् । अत्र भजनादिहृन्निवेशान्तानां स्पष्ट एव विकर्मणि सत्यपि सम्भव इति ॥ २९ ॥ इति तृतीयाध्याये तृतीयपादे सप्तमं गतेरर्थवत्त्वमित्यधिकरणम् ॥ ७ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥ ( ३-३-८. ) ननु मुक्तेरेव सर्वत्र फलत्वमुच्यते, युक्तं चैतत्, संसृतेर्दुःखात्मकत्वात्, तन्निवृत्तेः सर्वेषामिष्टत्वात्, पुष्टिमार्गीयभक्तानां तु तदनपेक्षितत्वमुच्यते । तदुक्त- मथर्वणोपनिषत्सु । अष्टादशार्णमन्त्रस्वरूपमुक्त्वा पठ्यते 'परब्रह्मैतद्यो धारयती'त्या- देरन्ते 'सोऽमृतो भवती'त्यादि । एतदग्रे 'किं तद्रूपं किं रसनं कथं हैतद्भजन'मित्या- दिप्रश्नोत्तरं पठ्यते 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्यात्मनः भाष्यप्रकाश