अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1978, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१७ मुक्तिस्तु भक्त्यैवेति भावः । यच्च 'ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद'मिति वाक्यम्, तत्स्वाकल्पान्तं येषा- मधिकारः सप्तर्षिप्रभृतीनां तद्विषयकमिति ज्ञेयम् । अन्यथा भगवद्दत्ताधिकार- सामर्थ्यस्य भरतस्य स्वाधिकारसमाप्तौ मुक्तिर्न वदेत् । 'कृतात्मानः' इति भाष्यप्रकाशः । कारसमाप्त्यनन्तरं भक्तिः फलोन्मुखीभवतीति न भक्तित्वस्य मुक्तिजनकतावच्छेदकत्वहानिरिति मुक्तिस्तु भक्त्यैवेति भाव इत्यर्थः । ननु यद्याधिकारिकाणां न मुक्तिपर्यन्तो व्यापारः, तर्हि 'ब्रह्मणा सह ते सर्वे' इति वाक्ये अधिकारान्ते मुक्तिकथनं विरुद्धं स्यादित्यत आहुः यच्चेत्यादि । तथाच तद्भक्तेस्तदानीमेव फलोन्मुख्यस्य भगवता विचारितत्वात्तदापि तयैव तन्मुक्तिः, न त्वाधिकारिकै- र्गुणैरित्यदोषः । अत्र गमकमाहुः अन्यथेत्यादि । तथाच यद्याधिकारिकैरेव गुणैर्मुक्तिः स्यात्, तदा 'स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रि- भि'रिति तादृशोपासनया तथा मुक्तिं न वदेत् । अत एतदनुरोधेन पूर्वोक्तवाक्येपि साधनान्तरेणैव मुक्तिर्बोध्येत्यर्थः । तत्रापि गमकमाहुः कृतेत्यादि । तथाचात्रापि तथेत्यर्थः । एतेन प्रशान्ता- रुणलोचनत्वं विचारितम् । प्रशान्तं ज्ञानम्, अरुणं क्रिया, रजोरूपत्वात् । तदुभयविचारात्मकं लोचनम् । तेषु तेष्वधिकारिषु ज्ञानक्रिययोः कार्यार्थं प्रदानादिति बोध्यम् । अन्त्ये त्वत्र अपान्तरतमवसिष्ठप्रभृतीनां पूर्णज्ञानवतां दृष्टपरतत्त्वानांमपि व्यासमैत्रावरुणा- दिरूपजन्मान्तरदर्शनाद्विद्याया न मुक्तिहेतुत्वमित्याशङ्क्य, तन्निरासायाधिकारस्य प्रतिबन्धकत्वा- त्तत्समाप्तौ पूर्वया विद्ययैव मुक्तिमाहुः । रश्मिः । नात्र भगवद्धर्मेषु तेषां लय उक्तः । प्रकृतेः स्वरूपालिकायाः प्रणवत्वेन नवीनभावजनकत्वात्तत्र लयेपि भगवद्धर्मत्वाभावप्रसङ्गाभावात् । 'शब्दार्थरसरूपधृ'गिति द्वादशस्कन्धात् । ॐकारस्य शब्दत्वात् । यच्चेत्यादीति । सप्तर्षीति । प्रभृतिशब्देन चतुर्दशमन्वन्तराणि दिवाभिमानिदेवता(नि) च ग्राह्याणि । तदानीमिति । अधिकारसमाप्तिकाल एव । पूर्वोक्तेति । 'ब्रह्मणा सह ते सर्वे' इति वाक्ये 'स भुक्तभोगा'मित्यस्मिन्वाक्ये वा साधनान्तरेण भक्त्या । उपासनेन वा । तथेति । साधनान्तरेणैव व्यापिवैकुण्ठे प्रवेश उच्यते, नत्वाधिकारिकगुणैरित्यर्थः । प्रशान्तेति । सूत्रेऽधिकारशब्दात्साधनाध्याये साधनानां पादे भगवद्धर्माणां विचारादधिकार उत्तमोत्तमः साधनं भक्त्यादिरध्यायार्थः भगवद्धर्मी आनन्दमयादेः तत्र 'आनन्दादयः प्रधानस्यो'क्ताः अन्येऽधिकारशब्दात्तृतीयस्कन्धीयाधिकारप्रकरणस्मर- णात् 'आध्यानाये'ति सूत्रस्मारितध्यानादिविषयाणां तृतीयस्कन्धादाहुः प्रशान्तेति । तेन पूर्वत्रोत्तरत्र च तृतीयवाक्योक्तधर्माणामान्यत्रिकाणां भगवत्परत्वविचार इति पदार्थस्य नाव्याप्तिः । तृतीयवाक्यानि तु 'अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सैरखत्यां कृतकेतमकेतनम् । श्यामावदातं विरजं प्रशान्तारुणलोचनम्' इति षड्द्विशेषणानि विचारितानि । षष्ठी कला च । अन्यास्तत्रतत्र वक्ष्यन्ते । तेषु तेष्विति । भगवद्व्यासाचार्यादिषु ज्ञानकार्यार्थं प्रदानं ज्ञानस्य । एवं क्रियावतारेषु क्रियाकार्यं प्रथमसुबोधिन्यां स्पष्टम् । अपान्तरतमेति वेदाचार्यनाम । स व्यासो जातः । मैत्रावरुणी वशिष्ठपितरौ । आदिना मनस्तो नारदः । व्यासमैत्रावरुणादिभी रूप्यते व्यवह्रियते तादृशं 1853