अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1977, कुल 2600 में से
संदर्भ में पढ़ें३१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १० सू० ३२. तत्र जीवकृतभगवद्विषयकधर्माणां यत्र तत्साधकत्वम्, तत्र भगवदीयानां धर्माणां तत्साधकत्वं सुतरामेव । तेषां स्वकृत्यसाध्यत्वेनाविधेयत्वात्तत्साधनेष्व- प्रवेशोपीति सन्देहे निर्णयमाह यावदित्यादि । यस्मिन् जीवे यत्कार्यसाधनार्थमधिकारो भगवता दत्तः, तत्कार्यसाधनक्ष- मास्तस्मिन् ये स्वधर्मा भगवता स्थापिताः, त आधिकारिका इत्युच्यन्ते । तत्का- र्यसम्पत्तिरेव तदधिकारप्रयोजनमिति तावदेव तेषां तस्मिन् स्थितिरित्यर्थः । एवं सति तत्सम्पत्तौ सोऽपि निवर्तत इति तत्सम्बन्धिनो धर्मा अपि निवर्तन्त इति मुक्तिपर्यन्तं न तेषां व्यापारसम्भवः । भगवता तथैव विचारितत्वात् । भाष्यप्रकाशः। यदि न प्राप्नोति, तदा भगवद्धर्मत्वमपि न तथा ।