अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1980, कुल 2600 में से
संदर्भ में पढ़ेंत्वान्मुक्तौ च तदसम्भवात् 'भक्त्या मामभिजानाती'ति वाक्याद्भक्तौ ज्ञानस्यापि सम्भवाज्ज्ञानेनैव मुक्तिरिति पूर्वपक्षे, ज्ञानसाधनत्वनिरूपकश्रुतितात्पर्यं निरू- पयन् पुरुषोत्तमप्राप्तेरेव मुक्तिपदवाच्यत्वात्तज्जनस्यैव तत्प्रापकत्वमिति हृदि कृत्वाह अक्षराद्धियामित्यादि । तुशब्दः पूर्वपक्षनिरासे । वाजसनेयके श्रूयते
सर्वमायान्निवृत्त्यात्मकत्वेन तस्यां वैजात्यासम्भवात्, ज्ञानकारणत्वबोधकश्रुतेः सावधारणत्वेन भक्तिकारणत्वबोधिकायां च तदभावेन 'भक्त्या मामभी'ति गीतावाक्याद्भक्तौ ज्ञानस्य सम्भवात् 'गतेरर्थवत्त्व'मित्यतीताधिकरणे मर्यादामार्गे ज्ञानस्य मुक्तिसाधनताप्रतिपादनाच्च भक्तेः परम्परया कारणतामादाय भक्तिकारणतावाक्यानां समर्थनीयतया ज्ञानेनैव मुक्तिरिति पूर्वपक्षे, ज्ञानसाधन- त्वनिरूपकश्रुतितात्पर्यं निरूपयन् उक्तं हृदि कृत्वा अक्षरज्ञानस्य तां प्रति स्वरूपयोग्यतासम्पा- दकत्वेन कारणत्वमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति तुशब्दः पूर्वेत्यादि । पूर्वपक्षनिरास इति । पूर्वोक्तरीत्या सावधारणवाक्यसिद्धत्वाज्ज्ञानेनैव मुक्तिरिति पूर्वपक्षनिरासे । तं ज्ञानकारणत्वनि- रूपकश्रुतितात्पर्यंनिरूपणमुखेनोपपादयन्ति वाजेत्यादि । अयमर्थः । अस्थूलादिवाक्योपसंहारे 'य एतद्विदित्वा प्रैति स ब्राह्मण' इत्यक्षरवेत्तुर्ब्रह्म- त्वमुक्तम् । 'अथ परे'ति वाक्ये च परविद्याया अक्षरज्ञानजनकत्वमेवोक्तम् । तेन ज्ञानरूपे मार्गे इष्टप्राप्त्युपाये अस्थूलत्वादृश्यत्त्वादिगुणकं यदक्षरं तद्विषयकाण्येव ज्ञानानीष्टप्रापकतया निरूप्यन्ते, न तु पुरुषोत्तमविषयकाणीति ज्ञानविषयविशेषणबलान्निश्चीयते । तत्फलविचारे च 'ब्रह्मविदाप्नोति पर'मिति श्रुतावक्षरब्रह्मविदोऽक्षरात् परस्य प्राप्तिः फलत्वेनोच्यते । नचाक्षरमेव पुरुषोत्तम इति वाच्यम् । परपदप्रयोगवैयर्थ्यापत्तेः । 'दिव्यो ह्यमूर्त' इति मन्त्रे 'अक्षरात् परतः पर' इत्येतस्यापि विरोधापत्तेः । नच तत्राक्षरपदेन प्रकृतिर्वा, जीवात्मा वा ग्राह्य इति युक्तम् । प्रकृतविरोधात् । जगत्कारणभूतस्य चेतनस्यैव तत्राक्षरत्वेन प्रकृतत्वात् । अतस्तत्र 'अव्यक्तोऽक्षर इत्युक्तस्तमाहुः
ज्ञानरूपसाधनवैजात्यस्य । ज्ञानं भक्तिर्वा साधनमिति संशयः । भक्तिज्ञानप्रतिपादकश्रुतिद्वयं संशयबीजम् । वैजात्येति । पूर्वपक्षत्वाद्वैजात्यासंभव उक्तः । अयं समर्थनीयतयेत्यस्य । भक्तौ ज्ञानस्येति । इदमपि पूर्वपक्षत्वात् । ज्ञानं तु फलात्मकम् । परम्परयेति । फलात्मकज्ञानद्वारा । तामिति । भक्तिं प्रति । ज्ञानेनैवेति । एवकारो भक्तिव्यवच्छेदकः । तमिति । पूर्वपक्षम् । ज्ञानविषयेति । विशेषणमस्थूलत्वा- दृश्यत्वादिगुणकत्वम् । ब्रह्मविदितिभाष्यं विवृण्वन्ति स्म तत्फलेति । भाष्यमुपबृंहणपरमिति मत्त्वोपबृंहणं वक्तुमाहुः नचेत्यादि । सगुणगुणानां विशेषदर्शनोत्तरमभावात्तर्कः । वाच्यमित्यस्य तर्कितव्यमित्यर्थात् । परपदेति । परिणामाद्वैतत्वा द्विशेषदर्शनोत्तरमपि परत्वादिरूपपुरुषोत्तमगुणानां विशेषदर्शनोत्तरं भावात् । एवं परपदेत्यादिः । पुरुषोत्तमपदाभावादत्राह्मुः दिव्य इति । 'दिव्यो ह्यमूर्तः पुरुष' इत्यत्र नामैक- देशग्रहणादस्ति पुरुषोत्तमपदमिति । 'विष्णुर्नाम महायोगी महामायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तम' इति । यस्तु 'अर्धमात्रा तु निश्चले'त्युक्त्वा 'शुद्धस्फटिकसंकाशं किंचित्सू- र्यमरीचिवत् । लभते योगयुक्तात्मा पुरुषोत्तमतत्पर' इति योगतत्त्वोपनिषदि । 'अर्धमात्रात्मकः कृष्णः' तस्य लाभसाधकत्वेनोक्तः पुरुषोत्तमः सोऽभेदाच्छब्दाभेदेन साध्यसाधनभावः । ग्राह्य इति । एवमक्षरपरं परपदमिति भावः । प्रकृतेति । प्रकृतमक्षरं न प्रकृतिर्न जीवात्मेति भावः । नत्रेति । मुण्डके । प्रकृतत्वा- दिति । 'तथाक्षरात् विविधाः सौम्य भावाः प्रजायन्ते तत्र वैवापियन्ती'तिश्रुत्या तथा । तत्रेति । मुण्डके ।