भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1981, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1981

३२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ११ सू० ३३. 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूल'मित्यादि । तथाथर्वणे च 'अथ परा यया तदक्षरमधिगम्यत' इति । तेन ज्ञानमार्गेऽक्षरविषयकाण्येव ज्ञानानि निरूप्यन्ते, पुरुषोत्तमविषयकाणि नेति निश्चीयते । 'ब्रह्मविदामोति पर'मिति श्रुतावक्षरब्रह्मविदोऽक्षरात् परस्य प्राप्तिरुच्यते । 'अक्षरादपि चोत्तम' इति भग- वद्वाक्याच्चाक्षरातीतः पुरुषोत्तमः । 'भक्त्या मामभिजानाती'ति वाक्ये 'मा'मिति पदात् पुरुषोत्तमविषयकं ज्ञानमुच्यते, न त्वक्षरविषयकम् । किञ्च, ब्रह्मभूतस्य भक्तिलाभोक्तेस्तस्य चानन्दांशाविर्भावात्मकत्वात्तस्य चाविद्यानाशजन्यत्वात्तस्य चाक्षरज्ञानजन्यत्वात् पूर्वकक्ष्याविश्रान्तमेवाक्षरज्ञानम् । एवं सत्यक्षरविषयिणीनां भाष्यप्रकाशः । परमां गतिम्, य