भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1982, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1982

Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । [३२१] धियां श्रुतौ मुक्तिसाधनेषु यः अवरोधः प्रवेशर्न गणनेति यावत्, स सामान्यत- द्भावाभ्यां हेतुभ्याम् । पुरुषोत्तमसम्बन्धिसम्बन्धे मुक्तिरिति सामान्यम् । मर्या- दामार्गेऽङ्गीकृतानां 'ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भाष्यप्रकाशः । दुच्यते । तेनावधारणमपि जीवस्य पुनरावृत्यभावेन मृत्वतिक्रमेण कैवल्येनाक्षरप्राप्तेर्ब्रह्मभावात्म- कत्वेन चोपपद्यमानं न विरुध्यत इति ज्ञानकारणत्वनिरूपकश्रुतिमिरुच्यत इत्यर्थः । तेन सिद्धमाहुः एवमित्यादि । एवं तद्विरोधे सति अक्षरविषयिणीनां धियां तैत्तिरीयादिश्रुतौ योऽवरोधो मुक्तिसाधनेषु गणना, स सामान्यतद्भावाभ्यां हेतुभ्याम् । तत्र किं सामान्यमित्यपेक्षायां पुरुषोत्तमसम्बन्धिसम्बन्धे मुक्तिरिति भक्तसङ्गे सिद्धम् । 'सत्सङ्गलब्धया भक्त्या मयि मां य उपासिता । स वै मे दर्शितं सद्भिरञ्जसा विन्दते पद'मित्ये- कादशस्कन्धे । स च पुरुषोत्तमसम्बन्धिसम्बन्धस्त(त्त)द्धामरूपाक्षरज्ञानेऽप्यस्तीति तदेव सामान्यम् । तथा, 'मर्यादामार्ग' इत्याद्युक्तरीत्या तद्भावो ब्रह्मभावः ताभ्यां हेतुभ्यां अक्षरज्ञानानां मुक्तिसाधनेषु प्रवेशः । मर्यादामागिणां पुरुषोत्तमप्राप्तौ स्वरूपयोग्यतासम्पादकत्वेन प्रवेश इत्यर्थः । रश्मिः । रसत्वेनातिसुन्दरत्वात्परमं धाम पीठं चरणौ पुच्छं वृन्दावनम् । तदविनाभावात् । भक्तैः सह निगूढ- भावकरणे पीठाद्यन्यतमापेक्षा । न तु युगपत् । 'तं पीठस्थं येऽनुयजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषा'मिति श्रुतेः । 'अथ परे'त्यस्या अर्थकथने भाष्ये एवकाराच्छ्रुतौ 'ज्ञानादेव तु कैवल्य'मिति सावधारणे- केस्तदेकवाक्यतापन्नायामवधारणमित्याशयो ज्ञेयः । 'ब्रह्म वेद ब्रह्मैव भवती'त्यत्रोक्तश्रुतावेवकारविरोध- माशङ्क्याहुः तेनावेत्यादि । ब्रह्मभावेति । ब्रह्मभावो ब्रह्मत्वं 'बुद्ध्या विशुद्धया युक्त' इति गीतोक्त आत्मा स्वरूपं यस्याः । भावे त्वः । हलोपपुंवद्भावौ पूर्ववत् । तेन । ज्ञानेति । 'ज्ञानादेव तु कैवल्य'- मित्याद्युक्ताभिः । तद्विरोधेति । पुरुषोत्तमाक्षरज्ञानप्रतिपादिकयोः श्रुत्योर्विषयभेदादविरोधे सति । पुरुषोत्तमेतिभाष्यमुक्तसूत्रार्थभाष्यप्रपञ्चं विवरीतुमपेक्षामाहुः तत्र किमिति । विवृण्वन्ति स्म पुरुषोत्तमेति । सम्बन्धिनोऽक्षरभक्तप्रमेयबलानुग्रहाः । तेषां सम्बन्धोंशांशिभाव एकस्वामित्व- माधाराधेयभावौ । तन्निष्ठभगवद्भावब्रह्मभावयोर्जन्यजनकभावः सम्बन्धः । एकस्वामित्वं भगवद्वीर्यसं- विजननैकैकाधिकरणयं सम्बन्ध इत्याशयेनाहुः भक्तसङ्ग इति । भक्तसङ्गे सिद्धं सामान्यम् । केत्यतो वाक्यं पठन्ति स्म सत्सङ्गेति । पदं मुक्तिः । स चेति । अस्यार्थः पुरुषोत्तमेति । पुरुषोत्तम- सम्बन्धिभक्तः भगवद्वीर्यसंविजनकः (भगवद्भावजनकः) तस्य भगवद्भावस्य सम्बन्धोऽक्षरज्ञाने जन्य- जनकभावः । अन्यत्राप्याहुः तद्धामेति । तद्धाम पुरुषोत्तमसम्बन्धि तद्रूपाक्षरं तस्य ज्ञाने । परम- मुक्तिजनके । मम पुरुषोत्तमाधिष्ठानं हृदयमक्षरमिति ज्ञानेऽप्यस्ति । अपिनोक्तोदाहरणं तस्मिन् । तदेवेति । विधेयलिङ्गम् । उक्तसम्बन्ध एव सामान्यमित्यर्थः । मर्यादेति भाष्यं विवृण्वन्ति स्म तथा मर्यादेति । इति वाक्यादिति ब्रह्मभावानन्तरं भगवद्भावसम्भवादित्यत्र हेतुः, न तु ब्रह्मभावा- नन्तरमित्यत्र । तेनेति वाक्याद्ब्रह्मभावस्तदनन्तरमिति नान्वेतव्यम् । परम्परोपयोगे तु प्रवेशादित्यन्तो हेतुः। साध्यार्थकमाष्येणैव सत्यक्षरेत्याद्युक्तेन सह युवन्ति स्म अक्षरज्ञानानामिति । भाष्यीयप्रवेशन- मित्यर्थः । कार्यभूतहेतुना साध्यमुक्तं प्रवेशमाहुः मर्यादामार्गिणामिति । इदमुक्तं मर्यादामार्ग इत्यादिभाष्येण । स्वरूपेति । स्वरूपयोग्यतासम्पादनेन कार्येण हेतुना प्रवेशोऽक्षरज्ञानानां मुक्तिसाधनेषु ४१ ब्र० सू० २० 1857

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1982, कुल 2600 में से · BharatKosha