भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1986, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1986

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३२५ किञ्च । तैत्तिरीयोपनिषत्सु पठ्यते 'यस्मिन्निदं सञ्च विचैति सर्वं यस्मिन् देवा अधि विश्वे निषेदुः । तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तःसमुद्रे कवयोऽवयन्ति यदक्षरे परमे प्रजा' इति । अत्राक्षरात्मकत्वेन क्षरात्मकादाका- शात् परमे व्योम्नि भक्तानां हृदयाकाश इति यावत् । तत्र प्रकाशमानमित्यर्थात् । अत एव 'ब्रह्मविदाप्नोति पर'मित्युपक्रम्य, 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योम'न्नित्येतदुपनिषत्स्वेव पठ्यते । 'यदक्षरे परमे प्रजा' इति पदं 'अवयन्ती'त्यनेन सम्बध्यते । अत्र प्रजापदात् व्याप्तिवैकुण्ठात्मको लोकोऽक्षरप- देनोच्यते इत्यवगम्यते । अत एव 'न यत्र माये'त्यादिना श्रीभागवते तत्स्वरूप- मुच्यते । एतेनाक्षरस्य पुरुषोत्तमाधिष्ठानत्वं निश्चीयते । इतोप्यक्षरात्तीतः पुरुषो- त्तम इत्यवगम्यते । एवं सति सामान्यं भगवद्विभूतिरूपत्वम्, तद्भावस्तस्य भाष्यप्रकाशः। ननु श्रुतावक्षरात् परत्वमेव पुरुषस्योक्तम्, न तु तत्र स्थितत्वम्, तथोक्तौ परस्य स्वप्रति- ष्ठत्वं च हीयेतेति गीतास्मृतिवाक्यमन्यथा नेतव्यमित्याशङ्कयाहुः किञ्चेत्यादि । अस्यां श्रुतौ सर्वाधारत्वं सर्वदेवनिषदनस्थानत्वं सर्वात्मकत्वं च पादत्रयेणोच्यते, तुरीये तदाधार उच्यते, तस्यार्थमाहुः अत्रेत्यादि । भक्तहृदयाकाशमेवात्र परमव्योमपदे परामृश्यत इत्यत्र मानमाहुः अत एवेत्यादि । ननु भवतु भक्तहृदयाकाशे प्रकाशमानत्वमक्षरस्य, तथापि कथं लोकात्म- कत्वम्, अत आहुः यदि त्यादि । तथाच प्रजाप्रजातादक्षरस्य लोकात्मकत्वमित्यर्थः । एतमर्थं पुराणेनोपबृंहयन्ति अत एवेत्यादि । इतोपीति । शुकवाक्यादपि । तथाच श्रुतौ पुराणे च तथा सिद्धत्वाद्रीतावाक्यं नान्यथा नेतुं शक्यमित्यर्थः । स्वप्रतिष्ठताहानिं परिहरन्ति एवं सतीत्यादि । तथाच छान्दोग्ये 'स्वे महिम्रि प्रतिष्ठित' इति श्रवणात्, तैत्तिरीये 'ब्रह्म पुच्छं प्रतिष्ठे'ति श्रावणाच्चाक्षरब्रह्मणो भगवद्विभूतिरूपत्वेन चरणरूपतया स्वाभिन्नत्वेन च भक्तिसामान्या- द्भगवतस्तत्र स्थितावपि न स्वप्रतिष्ठत्वहानिरित्यर्थः । एवमत्र मुक्तिस्वरूपमस्थूलत्वादयो धर्माश्च रश्मिः। रूपेण पुरुषोत्तमभेदात् मार्गान्तरत्वात् । श्रुताविति । 'पुरुषात्र परं किंचित्सा काष्ठा सा परा गति'रित्यादिश्रुतौ । गीतास्मृतिवाक्यमिति । ननु पुराणवन्नेतिहासः श्रुतिबाध्य इत्यत उक्तं स्मृतीति । इतिहासस्य स्मृतित्वपक्षे बाध्यत्वमिति भावः । आहुरिति । अक्षरस्य पुरुषोत्तमाधारत्व- प्रतिपादिकां श्रुतिमाहुरित्यर्थः । सर्वाधारत्वमिति । यस्मिन् ब्रह्मणि इदं विश्वं समेति च व्येति चेति जगल्लयस्थानत्वं विरुद्धमेतीत्युत्पत्तिस्थानमित्युक्तेस्तथा । सर्वदेवेति । यस्मिन्ब्रह्मणि विश्वस्मिन् इति अधिविश्वं तत्र । सर्वेति । तृतीयपादे तत् ब्रह्म । स्पष्टमन्यत् । तस्यार्थमिति । सर्वाधारेऽक्षरा- धारत्वस्य बाधात्तुरीयस्यार्थमाहुरित्यर्थः । भक्तिसामान्यादिति । भक्त्या सामान्यं भगवद्विभूतित्वं भक्तिसामान्यं तस्मात् । भक्ताक्षरयोर्भक्तिसामान्यं तदत्रापीति ज्ञेयम् । स्वसमवायाधारसम्बन्धेन् भक्तिरक्षरात्मकभक्तहृदय इति स्वं भक्तिस्तत्समवायान्दो भगवान् तदधिकरणं भक्तहृदयमक्षरात्मक- मिति । चरणरूपतया स्वाभिन्नत्वेन च भगवतस्तत्राक्षरे भावः सत्ता उक्तरीत्या 'तद्धाम परमं ममे'- त्युक्तरीत्या स्थितावपि । अपिना 'स आत्मा स्वाश्रयाश्रय' इत्युक्तस्वप्रतिष्ठत्वेन सह छान्दोग्योक्त- स्वमहिमप्रतिष्ठत्वं समुच्चीयते । न स्वेति । योगिवदनेकरूपत्वाद्भक्तहृदयगामित्वं स्वप्रतिष्ठत्वमिति । तस्य हानिनेत्यर्थः । भाष्यं स्फुटार्थम् । पादाध्यायार्थौ सङ्गमयन्ति स्माव्याप्तिवारणाय एवमत्रेति । अत्राधिकरणेऽक्षरधीरुपमपि न जन्यमुक्तिस्वरूपम्, विषयवाक्ये चास्थूलत्वादयो धर्माश्चाक्षरधर्मी अपि 1861

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 1986, कुल 2600 में से · BharatKosha