भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1985, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1985

३५४- श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ११ सू० ३३. अत्र पूर्वं क्षरस्वरूपमुक्तमिति 'परस्तस्मात्त्वि'त्यत्र क्षरादेव परत्वमुच्यते । तच्छ- ब्दस्य पूर्वपरामर्शित्वात्तस्यैव पूर्वमुक्तत्वात् । अत एवाक्षरव्यावर्तकस्तुशब्द उक्तः । एतेन नित्यत्वेन क्षरणाभावादक्षरशब्देन जीव एवोच्यते, न तु पुरुषोत्‍त- माधिष्ठानभूतो जीवातीत इति निरस्तम् । 'यं प्राप्य न निवर्तन्त' इति वाक्यात् जीवे तथात्वासम्भवात् । नित्यमुक्तत्वापत्त्या शास्त्रवैफल्यापत्तेश्च । इत एव ज्ञानमार्गीणां तत्प्राप्तिरेव मुक्तिरिति ज्ञेयम् । ततोऽनिवृत्तेः । 'पुरुषः स परः पार्थ'- त्यनेनाक्षरात् परस्य स्वस्य भक्त्येकलभ्यत्वमुक्तम् । तेन ज्ञानमार्गीयाणां न पुरुषो- त्तमप्राप्तिरिति सिद्धम् । 'यस्यान्तःस्थानि'त्यनेन परस्य लक्षणमुक्तम् । तच्च मृत्स्ना- दिप्रसङ्गे श्रीगोकुलेश्वरे स्पष्टमुच्यते । तेनाक्षरोपासकानां न पुरुषोत्तमोपासक- त्वम्। तद्विषयकश्रवणादेरभावादिति भावः। 'अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गति'मिति वाक्यात् 'स याति परमां गति'मित्यत्राक्षरमेव यातीत्यर्थो ज्ञेयः । भाष्यप्रकाशः। तच्छब्देन संनिहितपरामर्शाच्च स्वस्य वक्तुम् । अत्रेति । 'सहस्रयुगे'त्यादिग्रन्थे । अत्र मता- न्तरमुद्भाव्य परिहरन्ति एतेनेत्यादि । एतेनेति । 'क्षरः सर्वाणि भूतानी'ति वाक्यान्तरसिद्धं भूतग्रामं व्यक्तकोटौ निवेश्य ततः परत्वकथनेन । हेत्वन्तरमाहुः यमित्यादि । तथाच भूतग्रामपदेन जडान् गृहीत्वा अक्षरपदेन जीवग्रहणे एतौ दोषौ प्रसञ्जयेताम्, अतस्तन्मतम- युक्तमित्यर्थः । अस्मादेव सन्दर्भादर्थचतुष्टयं यदन्यत् सिद्धं तदाहुः इत एवेत्यादि । ज्ञेय इत्यन्तम् । इत एवेति । अक्षरस्य भगवद्धामत्वादेव । इत्यर्थो ज्ञेय इति । एकशब्द्याज्ज्ञेयः । तथाचाक्षरस्य पुरुषोत्तमसम्बन्धित्वे सत्यपि पुरुषोत्तमप्राप्तिं प्रति न हेतुत्वम् । तद्धेतुतावच्छेद- कस्थानन्यभक्तित्वस्य तत्राभावादित्येवमेतेन सन्दर्भेण सा शङ्का निवारितेत्यतो न कार्येत्यर्थः । रश्मिः। ममे'त्यस्मत्पदार्थस्य परामर्शान्न स्वस्य वक्तुमन्यथा त्वक्षरस्य वक्तुम् । एताविति । तथात्वासम्भवादिति भाष्योक्तं मुक्तित्वं शास्त्रवैफल्यापत्तिश्चेत्येतौ । अर्थचतुष्टयमिति । ज्ञानमार्गीणामक्षरप्राप्तिः १ । अक्षरात्परस्य स्वस्य भक्त्येकलभ्यत्वम् २ । 'समान एवं चाभेदा'दिति सूत्रोक्तावतारे श्रीगोकुलेश्वरेप्य- क्षरोपासकानां न पुरुषोत्तमोपासकत्वम्, पुरुषोत्तमविषयकश्रवणादेरभावात् ३ । 'स याति परमां गति'मित्यत्राक्षरमेव यातीत्यर्थः ४ । इत्यर्थचतुष्टयम् । एकेति । उभयोर्वाक्ययोरेकः शब्दः परमामिति गतिमिति च ययोस्ते एकशब्दे वाक्ये तयोर्भाव एकशब्द्यं तस्मात् । ननु गणनादेवार्थचतुष्टये लब्धे तदुपादानस्य किं प्रयोजनमत आहुः तथाचेति । अनन्येति । नन्ववयवावयविभावसम्बन्धे मास्तु अनन्यभक्तित्वम्, स्वस्वामिभावसम्बन्धे तु स्यादिति चेत् । न । ज्ञानमार्गस्य भिन्नत्वात् । 'उत्तमः पुरुषस्त्वन्य' इति पुरुषोत्तमस्य भिन्नत्वे तत्प्रापकस्यापि भेदात् । नन्वेवं सति पुष्टिभक्तावप्यनन्यभक्तित्वं न स्यात्, प्रतिकृतिकसम्बन्धिन्याः मूलरूपातिरिक्तविषयत्वादिति । चेत् । न । अनन्यभक्तेर्मर्यादामार्गी- यत्वात् । 'मयि चानन्ययोगेन भक्तिरव्यभिचारिणी'ति गीतावाक्यस्य 'अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जव'मित्यादिसाधनप्रायपाठपठितत्वेन साधनसाध्यत्वेन तथावसायात् । तत्रेति । अक्षरसम्वन्धे । एतेनेति । अर्थचतुष्टयप्रतिपादकेन । सेति । एतेन नित्यत्वेनेत्यादिभाष्योक्ताक्षरधीपदेन जीवधी- र्ग्राह्या, न तु पुरुषोत्तमाधिष्ठानभूतजीवातीतोऽक्षरधीपदेन ग्राह्य इत्याशङ्का । निवारितेति । अक्षरत्वेन 1860