अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1984, कुल 2600 में से
संदर्भ में पढ़ेंसमवमृशन्ति, 'अनु मे दीक्षा' मिति मन्त्रेण यजमानः 'तत् समवमृशन् यं ऋत्विजं कामयेत, अयं यज्ञयशसमृच्छेदि'ति तं प्रथममवमर्शये'दिति श्रूयते श्रुतौ कल्पे च । अत्र सर्वेषामृत्विजां तानूनप्त्रत्वाविशेषेऽपि यस्मिन् स्नेहातिशयेन तथेच्छा, तत्रैव तथा कृतिः, नेतरेषु । न हि तन्त्राविशिष्टेषु कथमेवं कृतिरिति पर्यनुयोगः सम्भवति, एवमिहापीत्यर्थः । ननु श्रवणादेर्यथा पुरुषोत्तमसम्बन्धित्वेन तत्प्राप्तिहेतुत्वम्, एवमक्षरस्या- प्यस्त्वित्याशङ्का तु निखिलासुरजीवतमःपुञ्जनिरासकेन यदुवंशोदयाचलचूडाम- णिनैव निरस्तेति न स्वतो वक्तुमुचितेत्याशयेन आह तदुक्तमिति । भगवद्गीता- खिति शेषः । तत्र 'यदक्षरं वेदविदो वदन्ती'त्युपक्रम्य, 'स याति परमां गति'मि- त्यन्