अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1988, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। विषयवाक्यत्वेनोपन्यस्य, किमासां विशेषप्रतिषेधबुद्धीनां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, प्रकरणावरोधाच्छ्रुतिविभागात्, विद्यान्तररूपस्य विद्यान्तररूपत्वे प्रमाणाभावान्निषेधरूपाणां गुणा- नामानन्दादिवत् स्वरूपावगमोपायत्वाभावाच्चेति हेतुभिर्नान्यत्र प्राप्तिरिति पूर्वः पक्षः। सिद्धान्तस्तु, प्रपञ्चपर्युदासस्य, विशेषनिराकरणरूपस्य ब्रह्मबोधनप्रकारस्य, सामान्यात्, तस्य प्रतिपाद्यस्य ब्रह्मणः सर्वत्र भावादैक्यात् सर्वत्रावरोधस्तासां निषेधबुद्धीनां परिग्रहः। तेन 'आनन्दादयः प्रधा- नस्ये' त्यत्र विधिमुखो विचारः, इह तु निषेधमुख इति तस्यैवायं प्रपञ्च इति भास्करं शाङ्करं च मतम्। रामानुजभाष्ये तु, सर्वेषूपासनेषु ब्रह्मणः समानत्वात्, अस्थूलत्वादीनां तत्प्रतीतौ भावाद- न्तर्भावात् । अयमर्थः । केवलानन्दादेः प्रत्यगात्मनि विद्यमानत्वेन तेषामसाधारणाकारेण ब्रह्मोपस्थापकत्वाभावादसाधारणाकारनिश्चयार्थं हेयप्रत्यनीकताज्ञानस्यावश्यकत्वेन चिदचिदात्मक- प्रपञ्चवैलक्षण्यबोधनमावश्यकम् । तत्रास्थूलत्वादिना अचिद्वैलक्षण्यम्, प्रशासनेन चिद्वैलक्षण्यं च वाजसनेयके उच्यते, एवमाथर्वणेऽप्यदृश्यत्वादिकथनाभिरङ्कुशकर्तृत्वसर्वज्ञत्वादिना ज्ञेयम् । तथा- चास्थूलत्वादिविशेषितज्ञानानन्दाद्याकारस्य ब्रह्मणोऽनुसन्धेयत्वादस्थूलत्वादीनामानन्दादिवदस्ति ब्रह्मप्रतीतावन्तर्भाव इति तासामस्थूलत्वादिवुद्धीनां सर्वत्रावरोध इति सिद्धान्तः। तेनेदमधि- करणं तत्सहकारित्वात्यन्तावश्यकमिति तन्मतापेक्षयेदं मतं युक्तम् । ननु तर्हि पूर्वपक्षोक्तहेतूनां का गतिरित्याकाङ्क्षायां गुणानां प्रधानानुवर्तित्वे दृष्टान्तं तत्र प्रमाणं चाह 'औपसदवत्त- दुक्त'मिति । यथा चतूरात्रे जामदग्न्याहीने पुरोडाशिनीषूपसत्स्वङ्गभूतः सामवेदपठितोपि 'अग्निर्वे रश्मिः। विशेषेति । स्थूलत्वादीनां श्रौतानां विशेषाणां प्रतिषेधस्तद्विषयिणीनामस्थूलत्वादिप्रकारकास्थूलादि- विशेष्यकबुद्धीनाम् । सर्वत्रेति । वाजसनेयकाथर्वणातिरिक्तेषु स्थलेष्वपि । विद्यान्तरेति । सगुणो- पासनेषु सर्वत्र विशेषप्रतिषेधोपसंहारेण विद्यान्तरं सगुणोपासनरूपत्वे । प्रपञ्चेति । पर्युदासः सद्द्ग्राही । विशेषेति । प्रापञ्चिकस्थूलत्वादीनां निराकरणरूपस्य । सामान्यादिति । सर्वत्र सामान्यात् । सौत्रतद्भावशब्दव्याख्यानं तस्य प्रतीति । विधिमुखेति । विशेषाणामानन्दादीनां विधिस्तन्मुखस्त- दुपायो विचारः । इहाधिकरणे तु स्थूलत्वादीनां निषेधोपायः । तस्यैवेति । 'आनन्दादयः प्रधान- स्ये'त्यस्य । भास्करमिति । अत्र भेदोपि ज्ञेयः । शाङ्कर आरोपपवादः स्पष्टः । विशिष्टाद्वैतार्थं पृथगाहुः रामानुजेति । सामान्यहेतुं व्याकुर्वन्ति स्म सर्वेष्विति । तद्भावहेतुं व्याकुर्वन्ति स्म तत्प्रतीताविति । ब्रह्मप्रतीतौ । प्रत्यगात्मनीति । जीवे । असाधारणेति । चिदचिदात्मक- प्रपञ्चवैलक्षण्याकारनिश्चयार्थम् । हेयेति । हेयः प्रपञ्चस्तस्य प्रत्यनीक आनन्दादिस्तत्ता वैलक्षण्यं तस्या ज्ञानस्य । अचिदिति । जडांशाद्वैलक्षण्यम् । स्वल्पार्थे नञ् । चिद्वैलक्षण्यमिति । नहि चिज्जीवः प्रशास्तीति भावः । अस्थूलत्वादीति । आदिना प्रशासितृत्वम् । तथाचास्थूलादिमज्ज्ञानानन्दा- कारस्येत्यर्थः । अन्तर्भाव इति । विषयतान्तर्भावः । तासामिति । सौत्रं पदम् । तत्सहेति । 'आनन्दादयः प्रधानसे'त्यस्य सहकारित्वात् । प्रधानेति । प्रधानविशेषणत्वे । तत्रेति । दृष्टान्ते प्रमाणं तदुक्तमिति । यथा चतूरात्र इति । तथाहि । यजुर्वेदे 'जमदग्निः पुष्टिकामश्चतूरात्रेणायजेते'त्युत्पन्ने जामदग्न्याहीने जामदग्न्यं च तदहीनं जामदग्न्याहीनम्, तत्र पुरोडाशं 'पुरोडाशिन्युपसदो भवन्ती'ति, १. प्रपञ्चप्रतीतिरुपरतिः । 1863