अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाशः। विषयवाक्यत्वेनोपन्यस्य, किमासां विशेषप्रतिषेधबुद्धीनां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, प्रकरणावरोधाच्छ्रुतिविभागात्, विद्यान्तररूपस्य विद्यान्तररूपत्वे प्रमाणाभावान्निषेधरूपाणां गुणा- नामानन्दादिवत् स्वरूपावगमोपायत्वाभावाच्चेति हेतुभिर्नान्यत्र प्राप्तिरिति पूर्वः पक्षः। सिद्धान्तस्तु, प्रपञ्चपर्युदासस्य, विशेषनिराकरणरूपस्य ब्रह्मबोधनप्रकारस्य, सामान्यात्, तस्य प्रतिपाद्यस्य ब्रह्मणः सर्वत्र भावादैक्यात् सर्वत्रावरोधस्तासां निषेधबुद्धीनां परिग्रहः। तेन 'आनन्दादयः प्रधा- नस्ये' त्यत्र विधिमुखो विचारः, इह तु निषेधमुख इति तस्यैवायं प्रपञ्च इति भास्करं शाङ्करं च मतम्। रामानुजभाष्ये तु, सर्वेषूपासनेषु ब्रह्मणः समानत्वात्, अस्थूलत्वादीनां तत्प्रतीतौ भावाद- न्तर्भावात् । अयमर्थः । केवलानन्दादेः प्रत्यगात्मनि विद्यमानत्वेन तेषामसाधारणाकारेण ब्रह्मोपस्थापकत्वाभावादसाधारणाकारनिश्चयार्थं हेयप्रत्यनीकताज्ञानस्यावश्यकत्वेन चिदचिदात्मक- प्रपञ्चवैलक्षण्यबोधनमावश्यकम् । तत्रास्थूलत्वादिना अचिद्वैलक्षण्यम्, प्रशासनेन चिद्वैलक्षण्यं च वाजसनेयके उच्यते, एवमाथर्वणेऽप्यदृश्यत्वादिकथनाभिरङ्कुशकर्तृत्वसर्वज्ञत्वादिना ज्ञेयम् । तथा- चास्थूलत्वादिविशेषितज्ञानानन्दाद्याकारस्य ब्रह्मणोऽनुसन्धेयत्वादस्थूलत्वादीनामानन्दादिवदस्ति ब्रह्मप्रतीतावन्तर्भाव इति तासामस्थूलत्वादिवुद्धीनां सर्वत्रावरोध इति सिद्धान्तः। तेनेदमधि- करणं तत्सहकारित्वात्यन्तावश्यकमिति तन्मतापेक्षयेदं मतं युक्तम् । ननु तर्हि पूर्वपक्षोक्तहेतूनां का गतिरित्याकाङ्क्षायां गुणानां प्रधानानुवर्तित्वे दृष्टान्तं तत्र प्रमाणं चाह 'औपसदवत्त- दुक्त'मिति । यथा चतूरात्रे जामदग्न्याहीने पुरोडाशिनीषूपसत्स्वङ्गभूतः सामवेदपठितोपि 'अग्निर्वे रश्मिः। विशेषेति । स्थूलत्वादीनां श्रौतानां विशेषाणां प्रतिषेधस्तद्विषयिणीनामस्थूलत्वादिप्रकारकास्थूलादि- विशेष्यकबुद्धीनाम् । सर्वत्रेति । वाजसनेयकाथर्वणातिरिक्तेषु स्थलेष्वपि । विद्यान्तरेति । सगुणो- पासनेषु सर्वत्र विशेषप्रतिषेधोपसंहारेण विद्यान्तरं सगुणोपासनरूपत्वे । प्रपञ्चेति । पर्युदासः सद्द्ग्राही । विशेषेति । प्रापञ्चिकस्थूलत्वादीनां निराकरणरूपस्य । सामान्यादिति । सर्वत्र सामान्यात् । सौत्रतद्भावशब्दव्याख्यानं तस्य प्रतीति । विधिमुखेति । विशेषाणामानन्दादीनां विधिस्तन्मुखस्त- दुपायो विचारः । इहाधिकरणे तु स्थूलत्वादीनां निषेधोपायः । तस्यैवेति । 'आनन्दादयः प्रधान- स्ये'त्यस्य । भास्करमिति । अत्र भेदोपि ज्ञेयः । शाङ्कर आरोपपवादः स्पष्टः । विशिष्टाद्वैतार्थं पृथगाहुः रामानुजेति । सामान्यहेतुं व्याकुर्वन्ति स्म सर्वेष्विति । तद्भावहेतुं व्याकुर्वन्ति स्म तत्प्रतीताविति । ब्रह्मप्रतीतौ । प्रत्यगात्मनीति । जीवे । असाधारणेति । चिदचिदात्मक- प्रपञ्चवैलक्षण्याकारनिश्चयार्थम् । हेयेति । हेयः प्रपञ्चस्तस्य प्रत्यनीक आनन्दादिस्तत्ता वैलक्षण्यं तस्या ज्ञानस्य । अचिदिति । जडांशाद्वैलक्षण्यम् । स्वल्पार्थे नञ् । चिद्वैलक्षण्यमिति । नहि चिज्जीवः प्रशास्तीति भावः । अस्थूलत्वादीति । आदिना प्रशासितृत्वम् । तथाचास्थूलादिमज्ज्ञानानन्दा- कारस्येत्यर्थः । अन्तर्भाव इति । विषयतान्तर्भावः । तासामिति । सौत्रं पदम् । तत्सहेति । 'आनन्दादयः प्रधानसे'त्यस्य सहकारित्वात् । प्रधानेति । प्रधानविशेषणत्वे । तत्रेति । दृष्टान्ते प्रमाणं तदुक्तमिति । यथा चतूरात्र इति । तथाहि । यजुर्वेदे 'जमदग्निः पुष्टिकामश्चतूरात्रेणायजेते'त्युत्पन्ने जामदग्न्याहीने जामदग्न्यं च तदहीनं जामदग्न्याहीनम्, तत्र पुरोडाशं 'पुरोडाशिन्युपसदो भवन्ती'ति, १. प्रपञ्चप्रतीतिरुपरतिः । 1863
भाष्यप्रकाशः । होत्रं वेत्वि'त्यादिकः पुरोडाशप्रदानमन्त्रो विनियोगविधेर्याजुषत्वेन यजुर्वेदिनाध्वर्युणा याजुर्वेदिके- नोपांशुस्वरेण पठ्यते, न तूद्गात्रा सामगेन सामस्वरेणोच्चैस्त्वेन, तद्वत् । तदुक्तं पूर्वकाण्डे शेषलक्षणे 'गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग' इति । अर्थस्तु, गुणमुख्ययोर्व्यतिक्रमे विरोधे सति तदर्थत्वात् गुणस्योत्पत्तिविधेः प्रधानार्थत्वान्मुख्येन याजुर्वेदिकेन विनियोगविधिना वेदसंयोगो ग्राह्य इति । एतद्दृष्टान्तव्याख्यानं पूर्वोक्तभाष्यत्रयेपि समानम् । शाबरभाष्ये त्वन्यदुदाहृतम् । तथाहि । अस्याधानं यजुर्वेदविहितम्, 'य एवं विद्वानग्नि- माधत्त' इति, तदङ्गत्वेन यजुर्वेद एव गानं च विहितम्, 'य एवं विद्वान् वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायती'ति, एतानि च सामानि सामवेदे उत्पन्ना
[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३२९]
इयदामननात् ॥ ३४ ॥ ननु संसारनिवृत्त्यानन्दाविर्भावयोरविशेषादक्षरे ब्रह्मणि लये पुरुषोत्तमे प्र- वेशात् न्यूनतोक्तौ को हेतुरित्याकाङ्क्षायामाह । इयदि१ति परिमाणवचनम् । तस्य श्रुतौ कथनादित्यर्थः । अत्रेदं ज्ञेयम् । तैत्तिरीयोपनिषत्सु 'सैषानन्दस्य मीमांसा भवति'त्युपक्रम्य, मानुषमानन्दमेकं गणयित्वा, तस्मादुत्तरोत्तरं शतगुणमानन्दं गन्धर्वानारभ्य, प्रजापतिपर्यन्तस्योक्त्वा, उच्यते 'ते ये शतं प्रजापतेरानन्दाः, स एको ब्रह्मण आनन्द' इति । एवं सति इयत् एतावदित्यक्षरानन्दस्य सावधिकत्वेन श्रुतौ कथना- दानन्दमयत्वेन निरवध्यानन्दात्मकत्वस्य पुरुषोत्तमे कथनात्तथोक्तिरिति ॥ ३४ ॥ इति तृतीयाध्याये तृतीयपादे एकादशमक्षरधियामित्यधिकरणम् ॥ ११ ॥
भाष्यप्रकाशः। दोषापत्तेश्च । तृतीये त्वक्षरस्याक्षरत्वेन निवेशादुक्तदोषत्रयाभावात्तन्मतमुत्तमम् । तथाप्याथर्वणोदि- तस्य परस्मात्परत्वस्य तैत्तिरीयोक्तस्य लोकरूपत्वस्य या धीस्तदसंग्रहान्न पूर्णमित्यवधेयम् ॥ ३३ ॥ इयदामननात् ॥ ३४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । व्याकुर्वन्तः परिमाणवचनं व्युत्पादयन्ति अत्रेत्यादि । आनन्दमयत्वेनेत्यादि । पूर्वानुवाकसमाप्तावानन्दमये जीवस्योप- संक्र्मणमुक्त्वा, अग्रिमारम्भे 'तदप्येष श्लोको भवती'ति तच्छब्देनानन्दमेव लक्षीकृत्य, 'यतो वाचो निवर्तन्त' इति श्लोकेन वाङ्मनसागोचरत्वस्य ब्रह्मानन्दे कथनेन पुरुषोत्तमे तथा कथना- दक्षरे सावधिकत्वोक्तिरित्यर्थः । ननु 'यतो वाच' इति श्लोकः 'कदाचने'ति पाठभेदेन मनोमयेपि पठ्यते, ब्रह्मोपनिषदि च 'आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुध' इति श्लोकोत्तरार्धं पठ्यते, अतः कथमेतेन पुरुषोत्तमानन्दस्य तथात्वसिद्धिरिति चेत् । उच्यते । मनोमयस्य वेदात्मकताया यजुःशिर- स्त्वादिना बोधितत्वाद्वेदस्य च शब्दब्रह्मात्मकत्वात् 'सर्वे वेदा' इति श्रुतेर्ब्रह्मबोधकत्वान्मनों- मयश्लोके ब्रह्मण इति पञ्चम्या शब्दब्रह्मणो वेदान्मनोमयाद्वाङ्मनसगोचरमानन्दं विद्वान्
रश्मिः। उक्तमनावश्यकत्वं सगुणत्वस्य विशेषस्य निषेधादावश्यकत्वदोषापत्तेरित्यर्थः । द्वितीयभास्करमते भेदोपि कार्यात्मना ज्ञेयः । उक्तेति । गौरवादित्याद्युक्तदोषत्रयाभावात् । तन्मतं रामानुजमत- मुत्तमम् । परस्मादिति । नन्वक्षरधियामित्यत्राक्षरशब्दशक्यतावच्छेदकमक्षरत्वम्, परस्मादपरत्वं तु 'ऋग्वेदो यजुर्वेद' इत्यादिश्रुत्युक्तं ऋगादाविति चेत् । न । अक्षरस्यापरविद्यात्वात्तत्राप्यपरत्वं प्राप्त- मिति । 'द्वे विद्ये वेदितव्ये परा चैवापरा चे'ति श्रुतेः । तैत्तिरीयेति । किंचेतिभाष्ये महाना- रायणोक्तस्य । तदसंग्रहादिति । 'अक्षरधिया' मित्यत्राक्षरस्याक्षरत्वेन निवेशात्, विशेषनिषेधसम्ब- न्धितयाप्यनिवेशात् परस्मादपरत्वेन लोकरूपत्वेनाप्यनिवेशात् तस्या असंग्रहात् । अक्षरपदशक्य- तावच्छेदके न पूर्णम्, किंतु न्यूनमिति न्यूनतास्यनिग्रहस्थानमित्यर्थः ॥ ३३ ॥ इयदामननात् । नन्वित्यादीति । अविशेषादिति । 'दुःखभावः सुखं चेति पुरुषार्थ- द्वयं मत'मितिवाक्यादविशेषात् । तथात्वेति । निरवध्यानन्दत्वसिद्धिः । पुरुषोत्तमेति । शब्दब्रह्मप्रति-
१. इयत इति पाठः । ४२ ब्र० सू० २० 1865
६३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ११ सू० ३४. भाष्यप्रकाशः। कदाचन न बिभेतीति पुरुषोत्तमस्यानन्दज्ञानसाधनतया मनोमय एतस्योक्ततया, ब्रह्मोपनिषदि च 'यज्ज्ञात्वा मुच्यते बुध' इति तुरीयपादे कथनेन जीवाभिन्नमानन्दमेतदित्यर्थायोगाद् यस्मिन् परमात्मनि जीवात्मा संघेयतत्वेन पूर्वमन्त्र उक्तः, एतत्परमात्मस्वरूपं आनन्दं आनन्दोऽस्यास्ती- त्यानन्दं जीवस्य सन्धेयतत्वेन सम्बन्धि, यज्ज्ञात्वा बुधः सन् मुच्यत इत्यर्थकतया तस्य भगवदी- यत्वेन तथात्वसिद्धिरिति जानीहि । अतो न चोद्यावकाश इति दिक् । अन्ये तु, इदमेकसूत्रमधिकरणान्तरमङ्गीकृत्य, 'द्वासुपर्णेति' मन्त्रो मुण्डके श्वेताश्वतरे च ब्रह्मप्रकरणे पठ्यते, काठके तु 'ऋतं पिबन्ता'विति । तयोराद्ये भोक्तृभोक्त्रोर्वेद्यता, द्वितीये तु भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेदे प्राप्ते, विद्यैक्यं युक्तम् । इयत एतावन्मात्रस्य द्वित्वपरिच्छिन्नस्यो- भयत्रामननात् । 'पिबन्ता'वित्यस्य प्रयोगस्य छत्रिन्यायेन पिबदपिबत्समुदायेपि सम्भवात् । उपक्रमोपसंहाराभ्यामेतयोर्वाक्ययोः परविद्यात्वनिश्चयेन उभयत्रापि जीवसहितस्य ब्रह्मण एव प्रतिपाद्यत्वादित्याहुः । तन्मतेऽधिकरणवैयर्थ्यमेव । काठकवाक्यस्य जीवद्वयपरत्वं निवार्य जीवसहितब्रह्मपरत्वस्य 'गुहां प्रविष्टा'वित्यधिकरण एव प्रतिपादितत्वात्तदपेक्षयाधिक्यस्यात्रादर्शनाच्चेति । रामानुजाचार्यास्तु, इयत् अस्थूलत्वादिविशेषितमानन्दादिकमेव गुणजातं सर्वत्रानु- सन्धेयतत्वेन प्राप्तम् । कुतः । आमननात् । आभिमुख्येन मननं चिन्तनमामननं तद्भाद्धेतोरित्ये- वमर्थमाहुः । तत्राप्युदासीना वयम् ॥३४॥ इत्येकादशमक्षरधियामित्यधिकरणम् ॥११॥ रश्मिः। पाद्यपुरुषोत्तमानन्दशब्दं ज्ञानं तस्य साधनतया । साधनत्वमुक्तविधया । एतस्येति । निरवद्यानन्दस्य । इत्यर्थायोगादिति । कर्मकर्तृभेदौचित्यादितिभावः । पूर्वमन्त्र इति । 'महात्मा प्रज्ञयात्मानं संधत्ते परमात्मनि । तेन सन्ध्याध्यानमेव तस्मात्सन्ध्यामिवन्दन'मिति मन्त्रे । तस्येति । निरवद्यानन्दस्य । तथात्वेति । निरवद्यानन्दसिद्धिः । चोद्येति । पुरुषोत्तमजीवमनोमयानन्दश्रुत्या प्राप्तस्य चोद्यस्य दोषस्यावकाशः । तयोरिति । वाक्ययोः । भोक्तृभोक्त्रोः ब्रह्मजीवयोः । भोक्त्रोरिति । छाया- तपयोः । छत्रीति । 'छत्रिणो यान्ती'तिन्यायेन छत्री राजा, अन्ये त्वच्छत्रिणः । उपक्रमेति । मुण्डके तृतीयमुण्डकारम्भस्यापि द्वितीयमुण्डकस्था 'दिव्यो ह्यमूर्तः पुरुष' इत्युपक्रमेण 'आनन्दरूपममृतं यद्विभाती'- ति वोपक्रमेण संपन्ना । श्वेताश्वतरे 'य एको वर्णो बहुधा शक्तियोगा' दित्युपक्रम्य 'अजामेकां लोहितकृष्ण- रूपा'मित्युपक्रम्य वा 'द्वा सुपर्णे'त्यस्याः कथनात् । उपसंहारस्तु मुण्डके 'नायमात्मा बलहीनेन लभ्य' इति, श्वेताश्वतरे 'ऋचो अक्षरे परमे व्योम'न्निति । उभयत्रेति । वाक्ययोः । अत्रेति । अस्मिन्नधिकरणे । अतोस्य सूत्रस्य पूर्वशेषत्वमिति भावः । अस्थूलत्वादीति । अस्थूलत्वादिमदान- न्दादिकमित्येवं विशेषितम् । इदं पूर्वशेषमस्मिन्मते । तत्रापीति । अपिना पूर्वमतसमुच्चयः । एकत्र- वृत्तेर्दूषकत्वादपरत्र विद्वन्मण्डने 'अभेदोऽनुपाधित्वा'दित्यनयोक्तत्वादुदासीनाः। मायागुणैः सर्वकर्मादि- भिश्चिन्तनीयमित्यन्ये । रामानुजास्तु मायागुणैरचिन्तनीयम्। अस्मन्मतेऽपि । 'प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्र'मिति द्वितीयस्कन्धात् ॥३४॥ इत्येकादशमक्षरधियामित्यधिकरणम् ॥ ११ ॥ 1866
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३३१ अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ (३-३-१२.) अथ ज्ञानमार्गे यथा स्वात्मत्वेन ब्रह्मणो ज्ञानम्, तथा भक्तिमार्गेऽपि भक्त्या पुरुषोत्तमज्ञाने स्वात्मत्वेन पुरुषोत्तमज्ञानं भवति, न वेति विचार्यते । सर्वान्तरत्वेन श्रुतौ कथनात् तत् भवतीति पूर्वः पक्षः । तथात्वेपि 'सर्वस्य वशी सर्वस्येशान' इत्यादिश्रुतिभिरेवमेव ज्ञानम्, न तु तथेति सिद्धान्तः । अत्र तथा भाष्यप्रकाशः । अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ अधिकरणमवतारयन्ति अथेत्यादि । यथा ज्ञानमार्गेऽक्षरधियः स्तूयन्ते, तथाऽभेदोपासनापीति भक्तिमार्गे अक्षरधीविनियोगविचारोत्तरम- भेदधीस्मरणाज्ज्ञानमार्गे पूर्णज्ञानसम्पत्तौ यथा स्वात्मब्रह्माभेदानुभवात्मिका वृत्तिर्भवति, तथा भक्तिमार्गे सिद्धायां भक्तौ 'भक्त्या मामभिजानाती'ति वाक्यावेदिते ज्ञाने स्वात्मपुरुषोत्तमा- भेदानुभवात्मिका वृत्तिर्भवति, न वेति संशये विचार्यत इत्यर्थः । पूर्वपक्षमाहुः सर्वान्तरत्वेनेत्यादि । बृहदारण्यके कहोडप्रश्ने उषस्तप्रश्ने च 'यत्साक्षादप- रोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे'ति, तदुत्तरवाक्ये च 'एष त आत्मा सर्वान्तर' इति याज्ञवल्क्येन सर्वान्तरत्वेन कथनात्, अन्तर्यामिब्राह्मणे च 'यः पृथिव्यां तिष्ठन् यः पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयती'त्यारभ्य, 'य आत्मनि तिष्ठ'न्नित्यन्तैर्वाक्यैः परमात्मा सर्वान्तरत्वेन श्रावितः । स च यदन्तस्तिष्ठति, तं स्वान्तः स्थापयति, बहिरिवायोगोलकमित्यन्तर्यामिब्राह्मणे सिद्धम् । तथा सति श्रौतेन येन केनापि साधनेन तस्मिन्नभिज्ञायमाने स्वात्मनस्तद्व्याप्तत्वेन भेदास्फुरणात् स्वात्मत्वेन ज्ञानमदण्डवारितम्, अतस्तद्भवतीति पूर्वः पक्ष इत्यर्थः । सिद्धान्तमाहुः तथात्वेपीत्यादि । ब्रह्मणः सर्वान्तरतया एतदात्मनस्तदविभक्तत्वेपि 'सर्वस्य वशी'त्यादिश्रुतिभिः सर्वेशितृत्वादिरूपेणैव ज्ञानम्, उत्कटया भक्त्या तेषामेव स्फुरणात्, न तु स्वात्मत्वप्रकारकमित्येष सिद्धान्त इत्यर्थः । नन्वभिज्ञाने सर्वांशज्ञानदर्शनात्तदंशाज्ञाने को हेतुरित्याकाङ्क्षायां हेतुं गृह्णन्ति अत्र तथेत्यादि । विपरीतः इति । स्वात्मत्वेन ज्ञाने । एतदेव रश्मिः । अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ एष इति । समीपतरवर्ती । स्थापय- तीति । स्वाश्रयाश्रयत्वार्थं तथा । तस्मिन्निति । पुरुषोत्तमे । अभीति । 'भक्त्या मामभिजानाती'ति वाक्यं स्मारितम् । अदण्डेति । यथा दण्डेन गामभ्याज्येत्यत्र दुष्टायां गवि दण्डोपयोगः, तथाऽदुष्टे पूर्वपक्षज्ञानमदण्डेन वारितमित्यर्थः । एतदात्मनः समीपतरवर्तिजीवात्मनः । एवेति । श्रीगोस्वा- मिनां महाविष्णुत्वेन टिप्पण्युक्तदिक् परस्याप्यभिप्रेतेत्येवकारः । तेषामिति । सर्वेशितृत्वादीनाम् । अयमर्थः । टिप्पण्यां श्रीगोस्वामिभिः 'समुद्दिजे भवद्धेतो'रित्यत्र ब्रह्मविद्यायां देवक्यां भक्तिमार्गीयासामग्र्या ज्ञानमार्गीयासामग्रीबाधोपपादनात्तेषामिति । अधुनापि तथैव भक्तप्रत्यक्षविषयत्वेनैवैवकारः । स्वात्म- त्वेति । स्वात्मत्वप्रकारकपुरुषोत्तमविशेष्यकं ज्ञानमित्यर्थः । तदंशेति । ईक्षत्यधिकरणे यावद्धर्मत्वेना- ज्ञानमुक्तमत्राभिज्ञाने तदंशाज्ञाने को हेतुरिति प्रश्नः । अत्र तथेत्यादीति । वृतभक्ते स्वात्मत्वेन पुरुषो- १. स्वात्मवेनेति पाठः । २. अक्षरधीविचारेणाभेदज्ञानस्मरणानन्तरं ज्ञानमार्गे इति पूर्वः पाठः श्रीहस्ताक्षरेषु । 1867
३३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १२ सू० ३५. ज्ञानाभावस्यावश्यकत्वार्थं विपरीते बाधकमाह । पूर्वस्मिन् सूत्रे ब्रह्मानन्दात् भजनानन्दस्याधिक्यं निरूपितम् । स तु भगवद्दत्तः । तद्व्यवधायकोऽर्थश्च प्रभुणा न सम्पाद्यते । स्वात्मत्वेन ज्ञानं च भजनानन्दान्तरायरूपम् । यद्येतत् सम्पादयेत्, तं न दद्यात्, अग्रेऽन्यथाभावात्, अतः स्वात्मत्वेन ज्ञानं भक्तिमार्गीयस्य न सम्भव- तीत्याशयेनाह अन्तरा स्वात्मन इति। भगवता भक्तिमार्गे स्वीयत्वेनाङ्गीकृतो य आत्मा जीवस्तस्य यदात्मत्वेन ज्ञानम्, तत् भजनानन्दानुभवे अन्तरा व्यवधान- रूपमिति भगवता तादृशे जीवे तन्न सम्पाद्यत इत्यर्थः । तत्सम्पादनस्य सर्वथैवा- सम्भावितत्वं हीनत्वं च ज्ञापयितुं दृष्टान्तमाह भूतग्रामवदिति । उक्तभक्तस्य विग्रहोऽप्यलौकिक इति तत्र लौकिको भूतग्रामो न सम्भवति, हीनत्वात्त- भाष्यप्रकाशः । विभजन्ते पूर्वस्मिन्नित्यादि । 'इयदामनना'दिति सूत्रे अक्षरस्य गणितानन्दत्वबोधनेन ब्रह्मानन्दाद्भजनानन्दस्याधिक्यं निरूपितम् । स भजनानन्दस्तु कृपाधिक्येन भगवता दत्त इति तद्व्यवधायकोऽर्थो भगवता न सम्पाद्यते । 'स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमै- च्छ'दित्यादिश्रुतिभ्यो मुख्यभक्तिमार्गस्य क्रीडार्थत्वावगमाद्भेदे च क्रीडाया असम्भवात् । स्वात्मत्वेन ज्ञानं हि 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्ये'दिति श्रुतेर्भेदविलायकत्वेन भजनानन्दान्तरायरूपं यदि स्वात्मत्वेन ज्ञानं सम्पादयेत्, भजनानन्दं न दद्यात्, अग्रे विलयेन तस्यान्यथाभावात्, अतः स्वात्मत्वेन ज्ञानं भक्तिमार्गीयस्य पूर्णदशायां न सम्भवतीत्याशयेन स्वात्मत्वेन ज्ञाने बाधकमानेन सूत्रेणाहैत्यर्थः । सूत्रं व्याकुर्वन्ति भगवतेत्यादि । अन्तरेति मध्यवाचकमव्ययम् । तथाच व्यवधायकमित्यर्थः । नन्वस्तु तस्यान्तरायत्वम्, तथापि तन्न सम्पादयतीति कथमवगन्तव्यमित्यत आहुः तत्सम्पादनस्येत्यादि । अलौकिक इति । साक्षात्सम्बन्धस्य हेये लौकिकविग्रहे असम्भवादलौकिकः । हीनत्वाच्चेत्यर्थ इति । तथाच चिकीर्षितलीलाप्रतिबन्धकत्वेन हीनत्वाद्भूतग्रामवदन्तरायत्वं दृष्टान्तेनावगन्तव्यमित्यर्थः । लौकि- रश्मिः । त्तमज्ञानाभावस्य । बाधकमिति । अन्तरायत्वरूपं बाधकं सूत्रकार आह दत्त इति । सर्वात्मभावो दत्त इति तत्फलं सोपि दत्तः । फलसाधने एकीकृत्य निरूपिते वा । अर्थ इति । अभेदः । नेति । भक्त- वश्यत्वादिति भावः । भक्तभावस्तु 'भद्रं कर्णेभिः शृणुयाम देवा' इति श्रुत्युक्तः । एकाकीति । एता- वत्पर्यन्तमेकाकी पुरुषविधः । अहङ्कारपाप्मदाहमयविशिष्टः । मुख्येति । भक्तिमार्गेऽहंकारादिसत्त्व एका- कित्वम्, ज्ञानमार्गे तु न, ब्रह्मातिरिक्ताहंकारादेर्लयात् । कर्ममार्गे तु कर्मरूपीश्वरः । अतोऽत्र भक्ति- मार्गस्येत्युक्तम् । मुख्यत्वं त्रिषु मार्गेषु । स्वात्मत्वेनेत्यादिभाष्यं विवृण्वन्ति स्म स्वात्मत्वेनेति । भजनानन्देति । सर्वात्मभावजन्यभजनानन्दान्तरायरूपम् । ज्ञानमिति । पुरुषोत्तमज्ञानम् । भज- नानन्दमिति । भाष्यीयस्य तमितिपदस्यार्थः । अग्र इति भाष्यार्थोऽग्र इति । तस्येति । भक्तैः सह निगूढभावकर्तुः श्रीपुरुषोत्तमसेवार्थ्येन भेदेन लीला अनुभ(ाव)वतः अन्यथाभावोऽभेदेन भावः । बाधक- मिति । विभाज्यस्यानुवृत्तिः । भगवतेत्यादीति । ननु जगद्व्यापारवर्जेऽधोक्षजे स्वात्मत्वेन ज्ञानम- सम्भवीयत आहुः स्वीयत्वेनेति । तथाच 'नायमात्मा प्रवचनेन लभ्य' इति श्रुतिविषयभक्तविषयं पुरुषोत्तमस्य स्वात्मत्वेन ज्ञानं सम्भवतीति भावः । तादृश इति । वृते । नेति । अन्यत्राप्राप्तं व्रेत प्राप्तं नेत्यर्थः । तत्सम्पादनस्य अभेदसम्पादनस्य । उक्तेति । वृतभक्तस्य पुरुषोत्तमशरीरत्वेन तस्य विग्रहोपि 1868
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३३१
थेत्यर्थः । अथवा । लौकिको भूतग्रामः स्त्रीपुत्रपश्वादिर्ब्रह्मानन्दानुभवे बाधकः, तथा भजनानन्दानुभवे स्वात्मत्वेन भगवज्ज्ञानमित्यर्थः ॥ ३५ ॥ अन्यथाऽभेदानुपपत्तिरितिचेन्नोपदेशान्तरवत् ॥ ३६ ॥ ननु भक्तेष्वप्युद्धवादिषु ज्ञानोपदेशः श्रूयते, स चात्मब्रह्माभेदज्ञानफलक इत्यात्मत्वेन ज्ञानाभावे तद्भेोपदेशानुपपत्तिः स्यादिति तन्मन्तव्यमेव, एवं सति भक्तिमार्गात् ज्ञानमार्गस्योत्कर्षश्च सिध्यतीत्याशङ्क्य, परिहरति उपदेशा- भाष्यप्रकाशः । कशरीरस्य प्रतिबन्धकत्वं सन्दिग्धत्वादुपपादनसापेक्षमित्यरुच्या प्रकारान्तरेण दृष्टान्तं व्याकुर्वन्ति अथेत्यादि । यत्तदोर्नित्यसम्बन्धाद्यद्येति पदमर्थादेवायातत्यितो नोक्तम् ॥ ३५ ॥ अन्यथाऽभेदानुपपत्तिरितिचेन्नोपदेशान्तरव
३३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १२ सू० ३६. न्तरवदिति । न ह्यत्राभेदज्ञानायोपदेशः, किन्तु यथाग्रिमस्वर्गापवर्गाख्यपार- लौकिकानन्दफलकालौकिके कर्मण्यधिकाररूपसंस्कारार्थं गायत्र्युपदेशः क्रियते, तत्संस्कारसंस्कृतं तच्छरीरादिकमपि भूतादिभिरपि नोपहृतं भवति, यथा वा योगोपदेशसंस्कृतस्य वपुरग्न्यादिभिर्नोपहन्यते, तथा प्रकृते भक्तिभावस्य रसा- त्मकत्वेन संयोगविप्रयोगभावात्मकत्वात् द्वितीयस्य प्रलयानलादतिकरालत्वेन कदाचित्तद्भावोदये तेन भक्तवपुरादेस्तिरोधानेऽग्रिमभजनानन्दानुभवप्रतिबन्धः स्यादिति तन्निवृत्त्यर्थं ज्ञानोपदेशसंस्कारसंस्कृतं तद्वपुरादिकं भगवता क्रियते, न स्वात्माभेदज्ञानं भगवतोऽभिप्रेतमित्यर्थः । अन्यथोपदेशानन्तरं बदरीं गच्छन् विदुरं प्रति 'इहागतोऽहं विरहातुरात्
तस्यान्यस्याभावादभेदपदेनाभेदोपदेश एवोच्यते । एतेन भगवान् स्वीयानां भक्तिभावप्रतिबन्धनिरासायैव सर्वं करोतीति ज्ञापितं भवति । अथवा। उपदेशान्तरवदित्यस्यायमर्थः । शरीराद्यध्यासवतस्तद्भिन्न आत्मा तत्त्वम्, न तु शरीरादिरित्युपदेशो ज्ञानमार्गे यथा क्रियते, तेन शरीरादावात्म- बुद्ध्या यः स्नेहादिः, सोऽपगच्छति, तथात्र सर्वेषामात्मनो ह्यात्मा 'य आत्मनि तिष्ठ'न्नित्यादिश्रुतिसिद्धो जीवात्मनोऽप्यात्मा पुरुषोत्तम इति बोध्यते । तेन पुरुषोत्तमे निरुपधिः स्नेहस्तत्सम्बन्धित्वेनात्मनि स सिध्यति । यद्यप्येवंभावः पूर्वमप्यासीदेव, तथापि सहजस्य शास्त्रार्थत्वेन ज्ञाने सति प्रमोदो दार्ढ्यं च भवतीति तथा । नैतावता जीवाभेद आयाति । अग्रे जीवनसम्पत्तिरेवोपदेशकार्यम्, न तु तेन पूर्वभावोपमर्दः सम्भवतीति सारम् । तेन ज्ञाने सर्वाधिक्यं मन्वानाय भक्तिबलप्रदर्शनं च सिध्यति ॥ ३६ ॥ भाष्यप्रकाशः। अतोऽत्राभेदपदेनाभेदोपदेश एव लक्षणयोच्यत इत्यभेदपदान्वयानुपपत्त्या ज्ञातव्यमित्यर्थः । तेन सिद्धमाहुः एतेनेत्यादि । एतेनेति । उक्ताशङ्कानिरासेन । भक्तदेहस्थितैर्योग्यादेशादपि सम्भवेन तदर्थमात्मन्ब्रह्माभेदोपदेशकथनं न युक्तमित्यरुच्या उपदेशान्तरपदस्यार्थान्तरमाहुः अथवेत्यादि । तथाच स ज्ञानोपदेश एतदर्थः, न त्वात्मन्ब्रह्माभेद- ज्ञानफलक इति न तेन ज्ञानोत्कर्षसिद्धिरित्यर्थः । नन्वेवं सति ज्ञानोपदेशवैय्यर्थ्यं नापैतीत्याशङ्क्य परिहरन्ति यद्यपीत्यादि । तथेति । अवैयर्थ्यम् । नैतावतेत्यादि । तथाचैवं ज्ञानोपदेशस्य सार्थक्यादेतावता आत्मत्वोपदेशमात्रेण न जीवस्य ब्रह्माभेद आयातीत्यर्थः । तेन सिद्धमाहुः अग्रे इत्यादि । तथाच यत्र किञ्चित्कार्यार्थ विप्रयोगसहनमावश्यकम्, तत्रैवैवं प्रभुः करोति, न तु सर्वत्र । अतः पूर्वोक्तं सर्वं सारमुपपन्नमित्यर्थः । एवंकरणस्य प्रासङ्गिकं फलमाहुः तेनेत्यादि । ननूद्धवादिषु ज्ञानोपदेशः पौराणः, स किमर्थमिह विचार्यत इति चेत् । उच्यते । 'विधिश्च प्रतिषेधश्च निगमो ही'त्यादिनोद्धवकृतप्रश्नेन 'मां विधत्तेऽभिधत्ते मा'मित्यादिना भगवदुक्तोत्तरेण रश्मिः। गाधबोधैः । संसारकूपपतितोच्चरणावलम्बं गेहंजुषामपि मनस्युदियात्सदा नः' । लक्षणयेति । नामैकदेश- त्वादैहिकसम्बन्धो लक्षणा तया । अभेदपदेति । यथा 'गङ्गायां घोष' इत्यत्र घोषपदान्वयानुप- पत्त्या लक्षणाबीजभूत्या ज्ञातव्यमित्यर्थः । उक्तेति । ननु भक्तेष्वित्याद्युक्तशङ्कानिरासेन । भक्ति- भावेति । विरहेण वपुराद्यभावे भक्तिभावे विरहांशप्रतिबन्धः तन्निरासाय । अमरगीतसुबोधिन्यैवकारः । अपैतीति । पूर्ववत् । यद्यपीत्यादीति । पूर्वमिति । (यथाहुस्ते (उद्धवादयः) उत्पत्त्यैव भक्ता इति । तथाच जन्मना ज्ञानवन्तो जडभरतादयो ज्ञेयाः । यद्वा । युगलगीते गोपीनां सिद्धेः ।) उपदेशात्पूर्वमित्यर्थः । अतीति । तेनोत्तमाधिकारोद्घोति भाष्यारम्भकारिकायाः । अग्रे इत्यादीति । देवकीवसुदेवार्जुन- नन्दगोपीषु । अग्रे एकादशसमासौ एकाशीतितमाध्याये अमरगीते च । उपदेशकार्यमुक्तम् । अतः पूर्वोक्तमिति । भक्तविषयत्वात्पूर्वोक्तं भक्तिभावप्रतिबन्धनिरिकरणाय ज्ञानोपदेशः, न तु पुरुषोत्तमस्य स्वात्मत्वेन ज्ञानायेत्युक्तम् । सारमिति । स्मार्तः प्रयोगः । 'सारं सारं समुद्धृत'मिति वाक्यात् । प्रास- ङ्गिकमिति । प्रसङ्गो ब्रह्माभेदज्ञानफलकज्ञानोपदेशपरिहारस्य तेन जन्यते भक्तिबलप्रदर्शनं प्रासङ्गिकम् । १. अतिप्रमोद इति पाठः । 1871
३३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १२ सू० ३७. व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥ ननु 'तद्योऽहं सोऽसौ योऽसौ सोऽह'मित्यैतरेयके, तैत्तिरीयके च 'अहमस्मि ब्रह्माहमस्मी'ति पठ्यते । अत्र मध्यस्थं ब्रह्मपदमुभयत्र सम्बध्यते । तेनावृत्त्या व्यति- हारः। अतो ब्रह्माभेदः सिध्यति । तथा लीलामध्यपातिभक्तानामपि 'कृष्णोऽहमहं कृष्ण' इति भावउल्लेखश्च श्रूयते । अतस्त्वभेदज्ञानं भक्तिफलमिति पुम्फुल्यमानं प्रतिवादिनं तत्स्वरूपं बोधयति । रसात्मकत्वाद्भक्तेः संयोगविप्रयोगात्मकत्वात् भाष्यप्रकाशः। च तस्य श्रौतत्वस्फुटीकरणात्, सन्देहेऽपि 'एतदन्तः समाम्नाय' इति वाक्येन तथात्वाद्दिचार्यत इति जानीहि । अत्र शाङ्करा द्विसूत्रमेतदधिकरणमङ्गीकृत्य बृहदारण्यकस्थोषस्तकहोडब्राह्मणयोर्ब्रह्मविद्या- त्वमभ्यासादाशङ्क्य रूपाभेदादैकविद्यं साधयन्ति । भास्कराश्च सूत्रमेकीकृत्य उपदेशवदित्येवं पठित्वा पूर्ववदेव सिद्धान्तयन्ति । रामानुजास्तु व्यतिहारादिसूत्रद्वयमत्र निक्षिप्यैतदेव सिद्धान्तयन्ति । तदिदमुपसंहारश्लाघ्याद्यसूत्राभ्यामेव सिध्यतीति तेनैव गतार्थम्, अतो न पृथक् चिन्तनीयम् ॥ ३६ ॥ व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥ सूत्रमवतारयन्ति नन्वित्यादि । ऐतरेयके इदं वाक्यमादित्यपुरुषं प्रकृत्योक्तम् । तैत्तिरीयके तु जलस्थं ब्रह्म प्रकृत्य । अत्रेति । तैत्तिरीयके । तेनावृत्त्या व्यतिहार इत्यादि । ब्रह्मपदोभयत्र सम्बन्धेन तदावृत्त्या व्यतिहारः स्वात्मनो ब्रह्मत्वविधानेन ब्रह्मणः स्वात्मत्वविधानेन व्यत्ययः । अत उक्त- पाञ्चत्याज्जीवस्य ब्रह्माभेदः सिध्यति, तथा भक्तवाक्येपीति शङ्कायां व्यतिहारस्वरूपं सूत्रेण बोधयति । तथाच यद्यभेददर्शनस्य भक्तिफलत्वं न स्यात्, तदा लीलास्थानां ब्रह्माभेदो न स्फुरेत्, स तु स्फुरतीति दृश्यत इति पूर्वोक्तः सिद्धान्तो न युक्त इत्याशङ्कायां व्यतिहार- रश्मिः। शैषिकः प्रत्ययः । भाष्यीयचकारार्थः । श्रौतविषयाग्रहिणः प्रत्याहुः नन्विति । श्रौतत्वेति । विधि- प्रतिषेधार्थवादनामधेयमन्त्राणां श्रुतिषु दर्शनाच्छ्रौतत्वस्फुटीकरणात् । समाम्नायः श्रुतिः । 'वने वृन्दा- वने क्रीडन् गोपगोपीसुरैः सह'ति श्रुतिः । प्रपञ्चोयमिति । बृहदिति । 'यत्साक्षादपरोक्षं ब्रह्म, य आत्मा सर्वान्तर' इत्येवं द्विरुषस्तकहोडप्रश्नयोर्नैरन्तर्येण वाजसनेयिनः समामनन्तीति । 'अभ्यासस्य भेदकत्वं पूर्वतन्त्रसिद्धम्' । एकीकृत्येति । तेन 'अन्तरा भूतग्रामवदात्मनोऽन्यथाभेदानुपपत्तिरिति- चेन्नोपदेशव'दित्येवमेकीकृत्य ॥ ३६ ॥ व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥ आदित्येति । अन्तस्तद्धर्माधिकरणोक्त- मादित्यपुरुषम् । जलस्थमिति । 'अम्भस्यपार' इत्यारम्भात् । अम्भसि अपारे इति च्छेदः । अत एव 'नमामि हृदये' इति सुबोधिन्यारम्भे कारिका । व्यत्यय इति । विशेष्यविशेषणभावस्य ब्रह्मजीवयो- र्व्यत्ययो वैपरीत्यम् । पूर्वोक्त इति । ज्ञानोपदेशस्य भक्त्यर्थं वपुराधिरauthार्थत्वमिति सिद्धान्तः । १. पम्फुल्ल्यमानमिति पाठः । 1872
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३३७
द्वितीयाभावोद्रेके यथेतेरेऽश्रुप्रलापादयो व्यभिचारिभावाः, तथातिविगाढभावेन तदभेदस्फूर्तिरप्येकः, स च न सार्वदिकः, तदा स्वात्मानं तत्त्वेन विशिंषन्ति, तं च स्वात्मत्वेन। सोऽत्र व्यतिहारपदार्थ इत्यर्थः। अपरं च। उद्देश्यविधेयभावस्फू्र्तौ न ह्यद्वैतज्ञानमस्ति, किन्तु भावनामात्रम्, भक्तानां तु विरहभावे तदात्मकत्व- मेवाखण्डं स्फुरति, येन तल्लीलां स्वतः कुर्वन्ति। एतद्यथा तथा श्रीभागवतदशम-
भाष्यप्रकाशः। खरूपमनेन बोधयतीत्यर्थः। सूत्रं व्याकुर्वन्ति रसात्मकत्वादित्यादीति। एकः स इति। एको व्यभिचारिभावः। तथाच विरहदशायां काश्चनात्मानं तत्त्वेन विशिंषन्ति, अन्याश्च तं स्वात्मत्वेन, अतो भिन्नवक्तृको व्यतिहारपदार्थः, न तु त्वदुक्तरीतिकः, अतः कादाचित्कत्वाच्च तस्य भक्तिफल- त्वमित्यर्थः। सूत्रयोजना तु, इतरवत् अश्रुप्रलापादिवत्, भक्तानां 'अहं कृष्णः कृष्णोऽह'मिति व्यतिहारो विशेषणबुद्धिव्यत्ययो व्यभिचारिभावः, हि यतो हेतोः विशिंषन्ति । भगवद्वृत्तवेनाश्वत्थादीनिव । अनेन प्रकारेणात्मानं कदाचिदेव विशिंषन्ति, न सर्वदा, अतस्तथेति। एतेनोदाहरणेन भक्त्युत्कर्षसिद्धिं स्फुटीकुर्वन्ति अपरं चेत्यादि। (तथाचात्र 'लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिका' इति पूर्वं कथनात्, 'रिङ्गयामास काप्यङ्घ्री कर्षती'त्यादाव- नुकरणे स्वात्मविस्मरणेन केवलभगवत्त्वस्फूर्तेरेव बोधनाच्चेत्यर्थः। एवञ्च 'मय्येव सकलं जात'मित्यत्रापि भावनामात्रम्, चतुर्थपादे 'तद्ब्रह्मास्म्यहमेव य' इत्यत्र 'ब्रह्माह'मिति पदाभ्यामङ्ग- यभावनामात्रस्यैव बोधनात्। एतद्यथा तथा अस्माभिः कैवल्योपनिषदर्थसंग्रहे स्फुटीकृतमिति ततोज्ञेयम्। अत्राभेदानुभवस्य विगाढभावदशास्थव्यभिचारिभावतया भक्तिमार्गे विनियोग-
रश्मिः। रसात्मकत्वादित्यादीति । अतिविगाढेति । अविहितभक्तिपूर्वकशास्त्रीयस्नेहवत्त्वं विगाढ- त्वम् । अतिशब्दस्तु अन्याभिनवगुप्तपादादिप्रौढदृष्ट्येत्यत्यन्तत्वार्थं विगाढम् । तदभेदेति । रामानुज- भाष्ये 'अम्भस्यपारे' इत्यारम्भे 'महीया'निति पदेनानन्दवल्लीस्थो 'रसो वै स' इत्युक्तः परामृश्यतेऽतोऽत्र तदभेदस्फूर्तिः । तमिति । पुरुषोत्तमम् । भिन्नेति । ज्ञानिभिन्नभक्तवक्तृकः । त्वदिति । ज्ञानिवक्तृकः । 'अहं मनुरभवं सूर्यश्चे'तिवत् । अत इति । भक्तिमार्गीयत्वात् । नस्येति । पुरुषोत्तमाभेदज्ञानस्य । विशेषणेति । व्यत्ययो वैपरीत्यम् । व्यभीति । शान्तरसनिष्ठत्वे सति भक्तिरसनिष्ठत्वात् । तथे- तीति । भक्तिमार्गीयेति । अपरं चेत्यादीति । परेषांमैतरेयतैत्तिरीयकयोरुद्देश्यविधेयभावेऽविद्याया अगतत्वान्न ह्यद्वैतज्ञानमस्ति, किन्तु शास्त्रदृष्ट्या भावनाऽभेदस्मरणम् । एवकारार्थे मात्रच् । पूर्णज्ञानिनो वामदेवस्य 'अहं मनुरभवं सूर्यश्चे'त्येवमवयुत्य(१)निरूपणमद्वैतस्य । कर्ममार्गे संन्यासाभावादङ्गक्तिमार्ग आहुः भक्तानामिति । संन्यासे विरहभावे । 'विरहानुभवार्थं तु सर्वत्यागः प्रशस्यत' इति वाक्यात् । अख- ण्डमित्यस्य भावाद्वैते विशेषणं तदात्मकत्वमेवेति । यथा 'सा सा सा सा जगति सकले कोऽयम- द्वैतवाद' इति । वक्ष्यन्ति चाये लिङ्गभूयस्त्वाधिकरणे । येनेति । अनेनाखण्डस्फुरणस्य करणत्वमुक्तम् । निरोधलीलाकरणे 'पृच्छेयेमा लता' इत्यत्राखण्डं तदात्मकत्वं लतासु स्फूर्तिः करणम् । यतो भगवदीय एव भगवद्गतिं जानातीति पृच्छ्या भवन्ति । 'स्वयमेवात्मनात्मानं जानासी'ति वाक्यात् । तत्रापि स्वतः स्फुरणं प्रत्यक्षालकमिति नान्यप्रक्षापेक्षा । भक्त्युत्कर्षस्त्वेवम्। सर्वभावः पुरुषोत्तमः। गीतायां पुरुषोत्तम- योगाध्याये तयोक्तेः । स चाक्षरद्वारा, स च पाद इति अखण्डांश इदमित्थतयाक्षर एव, पुरुषोत्तमस्या- ४३ ब्र० सू० २० 1873
स्कन्धविवृतौ प्रपञ्चितमस्माभिः । एवं सति मुख्यं यदद्वैतज्ञानं तत् भक्तिभावैक- देशव्यभिचारिभावेष्वेकतरदिति सर्पपर्णाञ्चलयोरिव ज्ञानभक्त्योस्तारतम्यं कथं वर्णनीयमितिभावः ॥ ३७ ॥ इति तृतीयाध्याये तृतीयपादे द्वादशमन्तरा भूतग्रामवदित्यधिकरणम् ॥ १२ ॥ भाष्यप्रकाशः । विचारेण साधनदशायां सर्वभावेन भजने भेदोपासनवदभेदोपासनस्याप्येकदेशत्वं बोधितम् । सर्वभावेनैवाकृत्स्नत्वपरिहारं तत्र विशेषाभावादिति ।) यत्तु शङ्करभास्कराचार्यौ पूर्वोक्तमैतरेयवाक्यं 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी'ति जाबालवाक्यं चोदाहृत्य, किमिह व्यतिहारेणोभयरूपा मतिः कार्या, उतैकरूपेति संशये, उभयरूपमतिकरणे ईश्वरस्य निकर्षः, संसारिणश्चोत्कर्ष आपद्येतेत्येकरूपैव कार्येति पूर्वपक्षमुक्त्वा, उभयरूपैव कार्या, अन्यथा उभयाम्नानमनर्थकं स्यात् । नचोक्तदोषापत्तिः । अनेन प्रकारेणाप्यात्मैक्यस्यैवानुचिन्तनीयत्वात् । वचनप्रामाण्याच्चात्र द्विरूपा मतिः कर्तव्येत्युच्यते । फलतस्त्वेकत्वमेव दृढीभवति । यथा ध्यानार्थेपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वदित्याहुः । तदसङ्गतम् । तस्या मतेर्वचनमात्रजन्यत्वे विशेष्यविशेषणभावस्फुरणेन तादृशभावनामात्नं कार्यमिति सिध्यति, न तु तेन भेदोऽपैति, आहार्यज्ञानत्वात् । नचानेन फलत ऐकात्म्यसिद्धि- रित्यपि युक्तम् । पूर्वोक्तैर्न्यायैस्तद्विषयश्रुतिभिश्च सिद्धे अंशांशिभावे तदपनोदेनैकात्म्यस्य वक्तु- मशक्यत्वात् । 'यथा ध्यानार्थेऽपी'ति भवदुक्तन्यायेनापि वाक्यप्रामाण्यात्तद्गुणकेश्वरप्रसिद्धिवद्विशेष- णविशेष्यभावबोधनबलात् तादात्म्यस्यैव सिद्धेश्च । लक्षणाग्रस्तं वाक्यैकदेशं 'तत्त्वमसी'त्यादाय रश्मिः । धोक्षजत्वात् । तथाचेदमित्थतया चरणेऽखण्डत्वम्, न भक्तिलभ्ये पुरुषोत्तम इति ज्ञानाद्भक्त्युत्कर्ष- सिद्धिः । अत्रेत्यारभ्येतीत्यन्तो ग्रन्थो मूलपुस्तके नास्ति । व्याख्या तु सर्वभावेनेति । पुरुषोत्तम- योगाध्याये 'यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारते'तिवाक्या- त्सर्वभावेनेत्यादिः । एकदेशित्वं वृक्षधर्मदेशित्वम् । तत्रेति । अखण्डज्ञाने । भाष्ये । एवं सतीत्यादि । मुख्यमिति । लोकाश्रयणात् । अन्यमार्गत्वाद्वा । भक्तिभावेति । त्रयस्त्रिंशद्व्यभिचारिभावाः तेष्वेक- तम इति प्राप्ते महाभाष्यप्रयोगात्तरप् । ज्ञानभक्त्योरिति । दृष्टान्तोऽखण्डस्फुरणेनेति अक्षरज्ञानपीत- कौशेयवासोभक्त्योस्तारतम्यं कथं वर्णनीयमिति प्रश्नः । भक्तिमार्गेन्तराभेदासम्पादनाद्भक्त्युत्कर्ष इत्यु- त्तरम् । संसारिणश्चोत्कर्ष इति । एकेषां जीवब्रह्मवादादपरेषां व्यापकैकजीववादादुत्कर्षः ब्रह्मज्ञानात् । व्यापकैकजीवस्य ब्रह्मणा भेदाभेदौ । एकरूपेति । 'अहं वै त्व'मिति । उक्तेति । निकर्षोत्कर्षदोषयो- रापत्तिः । एकत्वमिति । आवरणभङ्गं बोध्यम् । अपैतीति । अप आ एति । बाधकालीनमिच्छा- जन्यं ज्ञानमाहार्यज्ञानम् । वेदान्तविज्ञानेनावरणभङ्गे फलतस्त्वेकत्वे भूयसां साधनप्रतिपादकानां वेदभा- गानां वैयर्थ्यप्रसङ्गमालोच्याहुः पूर्वोक्तैरिति । द्वितीयाध्यायोक्तैः .सूत्रैः । वक्तुमिति । साधनैर्विना वक्तुम् । विशेषणेति । 'त्वमहं अहं त्व'मिति विशेषणविशेष्यभावः । विशेषणस्य विशेष्यभावः । अन्यथा धर्मादित्वं स्यात् । तस्य बोधनबलात् । तादात्म्यस्येति । नीलो घट इत्यत्रेव गुणसांशस्य तदात्मनो भावत्वं तस्यैव सिद्धेः । घटो नील इति पक्षेपि तथा । लक्षणेति । अंशांशिभावे तादात्म्यम् । १. रश्मौ एकदेशित्वम् । 1874
भाष्यप्रकाश-रश्मि-परिबृंहितम् । ३१९
सैव हि सत्यादयः ॥ ३८ ॥ (३-३-१३.) अथेदं विचार्यते। प्राप्तभक्तेः पुरुषस्य सत्यशमदमादयो विधीयन्ते, न भाष्यप्रकाशः। सकलशास्त्रव्याकुलीकरणानौचित्यस्य प्रागेवोक्तत्वाच्चेति । रामानुजाचार्यास्तु । 'सर्वं खल्विदं ब्रह्म', 'ऐतदात्म्यमिदं सर्वं तत्त्वमसी'त्यवगतसर्वा- त्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनार्थमपूर्वं किञ्चिदस्ति, तत्तु वक्ष्यति 'आत्मेति तूपगच्छन्ति ग्राहयन्ती'ति । नच सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानं जीवे च ब्रह्मत्वानुसन्धानं तथ्यं सम्भवति । तस्मादनादरणीयं तन्मतमित्याहुः । तदपि युक्तमेव । एतस्मिन्नधिकरणे वैराग्यतपःसमाधिपरिप्राकसिद्धस्य ब्रह्मात्माभेदज्ञानस्य भक्तिमार्गीयव्य- भिचारिभावतानिरूपणेन ब्रह्मभावप्राप्यवबोधकं पीतकौशाम्बरेण च विदितमिति विशेषणं प्रतिपादितं ज्ञेयम् । ज्ञानमार्गाणां तावतैव ब्रह्मभावात्मकफलसिद्धेरिति ॥ ३७ ॥ इति द्वादश- मन्तराभूतग्रामवदित्यधिकरणम् ॥ १२ ॥ सैव हि सत्यादयः ॥ ३८ ॥ फलतो भक्त्युत्कर्षं साधयित्वा साधनतोऽपि तत् रश्मिः। तदपेक्षया तदंशे तच्छब्दलक्षणेत्येवं एकदेशं तदिति अभेदसम्बन्धः। सकलशास्त्रेति । 'ऐतदात्म्यमिदं सर्व'मित्यादिवेदशास्त्रेत्यर्थः। तन्मूलान्यन्यशास्त्राणीति सकलशब्दः। प्रागेवेति । द्वितीयाध्याये तदनन्य- त्वाद्यधिकरणे । सर्वात्मेति । सर्वस्मिन्नात्मभावः सर्वात्मभावः । तद्विषयत्वात् । अस्येति । उक्तैतरेय- वाक्यस्य जाबालवाक्यस्य च। अपूर्वमिति । 'सर्वं खल्विद'मित्यादिप्रतिपादितं पूर्वं न भवतीत्यपूर्वम् । वक्ष्यतीति। फलाध्याये। तन्मतं पूर्वमतम्। षोडशाधिकरणप्रतिपाद्यमाहुः एतस्मिन्निति । 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजये'दिति भक्त्यनन्तरं योगसूत्रसिद्धमाहुः वैराग्येत्यादि । 'जन्मौ- षधिमन्त्रतपःसमाधिजाः सिद्धय' इति। तेन साधनसिद्धमभेदज्ञानमुक्तम्, न तु शाब्दज्ञानेनापरोक्षम् । ब्रह्मभावेति । अक्षरज्ञानप्राप्यवबोधकं सात्त्विकत्वेन सगुणाक्षरज्ञानप्राप्यः पीतकौशाम्बरो भाति । पीतकौशाम्बरं माया। गोपालतापनीये 'माया पीताम्बर'मित्युक्तम् । अत्र ब्रह्मभावानन्तरं भगवद्भावो ज्ञेयः 'अक्षरधिया'मिति सूत्रादनुवृत्तः। तेन पीतकौशेयाम्बरो विषयो नास्थूलादिमात्रश्रुतिविषयोऽक्षरः । ब्रह्मभावेत्यत्र ब्रह्मभावेन प्राप्यत्वं ब्रह्मभावप्राप्यत्वं तस्य बोधकमिति करणतृतीयासमासः । ननु क्वचिद्ब्रह्मभावविषयत्वमक्षरस्य क्वचित्पीतकौशेयाम्बरस्येत्यत्र व्यवस्थामाहुः ज्ञानमार्गाणामिति । मार्ग- भेदाद्व्यवस्थेति भावः । तावता अक्षरज्ञानमात्रेण । ब्रह्मभावत्वेनाक्षरात्मकत्वेन कार्यकारणभावादेवकारः। ब्रह्मभावस्य भगवद्भावद्वारत्वे तु पीतकौशेयाम्बरस्य ब्रह्मभावस्य सगुणत्वादितिभावः । अत्र सुबोधिनी । 'पीतं कौशं कौशेयं यदम्बरं तेन च विदितम् । अनेन ब्रह्मभावेपि ज्ञानमङ्गमिति तदेव विशेषणमाह पीतमिति। अहन्ताममताभावः। रूपत्रये शुक्ले पीतान्तर्भावात् । अहन्ताममता कृष्णा मायाकार्यत्वेन तमोरूपत्वात्तमसश्च नीलत्वात् । कौशमिति कुशसम्बन्धिनो यमनियमादयः । अम्बरमित्यवस्थापरित्यागेन निर्लेपता। एतानि ब्रह्मभावे ज्ञानसाधनानि । 'वैराग्यं च तपश्चैव समाधिरिति साधनम्' । एकमेवैतन्न प्रत्येकपर्यवसायि । चकारोऽनुक्तसमुच्चयार्थः । सर्वफलरूपो भगवानित्यर्थ' इति । अत्रालौकिकं व्याख्यानं भगवतोऽलौकिकत्वात् ॥ ३७ ॥ इति द्वादशमन्तरा भूतग्रामवदित्यधिकरणम् ॥ ११ ॥ सैव हि सत्यादयः ॥ ३८ ॥ फलत इति । ब्रह्मभावस्याक्षरं तद्भावस्य पुरुषोत्तम इति । 1875
३४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १३ सू० ३८.
वेति। फलोपकार्यान्तरङ्गसाधनत्वात् शुद्धौ सत्यामेव चित्ते भगवत्प्रादुर्भावसम्भ- वात् विधीयन्त इति पूर्वः पक्षः। तादृशस्य ते न विधीयन्त इति सिद्धान्तः। तत्र हेतुमाह। हि यस्माद्धेतोः, सैव भक्तिरेव सत्यादिसर्वसाधनरूपा। तस्यां सत्यां सत्यादयो ये ज्ञानमार्गे विहितत्वात् कष्टेन क्रियन्ते मुमुक्षुभिः, ते भक्तहृदि भगवत्प्रादुर्भावात् स्वत एव भवन्तीति न विधिमपेक्षन्त इत्यर्थः ॥ ३८ ॥
भाष्यप्रकाशः। साधयतीत्याशयेनाधिकरणं वदन्तोऽवतारयन्ति अथेत्यादि। यथा 'सत्यं परं पर५सत्य'मित्यादौ ज्ञानार्थम्, यथाच 'शान्तो दान्त' इत्यादौ ज्ञानोत्तरं सत्यशमदमादयो विधीयन्ते, तथा प्राप्तभक्तेः पुरुषस्य भक्त्युत्तरं ते विधीयन्ते, न वेति संशये, फलोपकार्यान्तरङ्गसाधनत्वात् फलस्य भगवत्प्रा- प्तेरुपकारी मुख्यं साधनं भगवदाविर्भावः, तस्यान्तरङ्गा चित्तशुद्धिः, तस्याः साधनानि सत्यादीनि, तस्मात्। एतदेव विवृणोति शुद्धौ सत्यामेव चित्ते भगवदाविर्भावसम्भवादिति । अतो यथा सम्परायाधिकरण उपन्यस्तैर्वाक्यैर्भक्तेः पूर्वं ते विधीयन्त इत्युन्नीयते, तथा भक्त्युत्तरमपि ते विधीयन्ते इति पूर्वपक्षः । तादृशस्य प्राप्तभक्तेस्ते सत्यादयो न विधीयन्ते, 'भक्त्या त्वनन्यये'ति वाक्ये अन्यसाधननिरपेक्षयैव भक्त्या ज्ञानदर्शनप्राप्तीनामुक्तत्वात् तयैव संसिद्धेरिति सिद्धान्तः । तत्र सिद्धान्ते युक्तिमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति हीत्यादि। 'यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि । सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'ति । 'धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति ही'ति च एकादशे भगवद्वाक्यात् सैव भक्तिरेव सर्वसाधनरूपा। अतस्तथेत्यर्थः ।
रश्मिः। साधनत इति । ज्ञानमार्गे साधनानि सत्यशमदमादीनि । ज्ञानानन्तरमनुवर्तनात् । वेदान्तशब्दस्तु प्रमाणं न साधनम् । प्रमाणावगतसाधने प्रवर्तते यतः । अतः सत्यशमदमादिभिः शाब्दापरोक्षं तद्वन्न भक्तिमार्गे, न सत्यशमदमादयो भगवद्रूपे फले साधनम्, किन्तु भक्तिरेवेति साधनतः सत्यशमदमादि- तोपि। तत् उत्कर्षम्। तदित्यव्ययम् । भक्त्युत्कर्षम्। तत्स्वरूपत्वं भक्तेः, न तु भक्तिरूपत्वं सत्यशम- दमादीनां ज्ञानसाधनत्वेप्यत्रेत्येवं साधनतोपि तत्साधयतीत्यर्थः। यथेत्यादि विचारो यथेत्यर्थः। भाष्य- सूचितं विषयवाक्यमाहुः सत्यं परमिति । इदं विषयवाक्यम् । 'सदेव सौम्येदमग्र आसीत्' 'सत्यं परं धीमहि' 'सत्यव्रतं सत्यपरं त्रिसत्य' मित्यादिषु सत्यज्ञानानन्तेषु सत्योपादानात् । अन्ययोरुपलक्ष्य- त्वात् । 'शान्तो दान्त' इति शारीरब्राह्मणेस्ति । 'अणुः पन्था विततः पुराणः' इति द्वितीयाध्याये भोक्त्रा- पत्तिसूत्रेऽणुः पठितः । महत् उपासनमाह । तथा चोपक्रमः । 'विरजः पर आकाशात् अज आत्मा महान्ध्रुवः' । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' । 'नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि त'- दिति । उपसंहारश्च 'स वा एष महानज आत्मा अजरोऽमरोऽमृतो ब्रह्माभयं वै ब्रह्माभयं ५ ह वै ब्रह्मा भवती'ति । ज्ञानोत्तरमिति । 'तस्मादेवंविच्छान्तो दान्त' इति पाठाद्विदो विशेषणीभूतज्ञाना- नन्तरम् । यतो वेत्तीति वित् ज्ञानानुकूलव्यापारवान् । ज्ञानं च साधनचतुष्टयसाध्यमिति विषयश्रुतौ सत्यशमदमादयः ज्ञानोत्तरं पूर्वं वा विधीयन्ते, तथा ज्ञानशब्दस्य भक्तिपरत्वे प्राप्तभक्तेर्भक्तेः पूर्वं स्वतःसिद्धसत्यशमदमादयो भक्त्युत्तरं विधीयन्ते न वेति संशय इत्यर्थः । फलेतिभाष्यं विवृण्वन्ति स्म फलेति । त इति । तर्तव्यपापादयः । त इति । सत्यशमदमादयः । तादृशस्येतिभाष्यं विवृण्वन्ति स्म तादृशस्येति । युक्तिमिति हेतुशब्दार्थः । अतस्तथेति । सैव भक्तिरेव सत्यादिसर्वसाधनरूपा ।
१. भगवदाविर्भाव इति प्रकाशपाठः ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४१ भाष्यप्रकाशः । अत्र शाङ्करभास्कराचार्यौ, इदमेकसूत्रमधिकरणमङ्गीकृत्य, बृहदारण्यकोपान्ते, 'स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मे'त्युपक्रम्य, 'जयतीमान् लोका'निति फलमुक्तम् । अग्रे च 'आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्ते'ति प्रकृत्यानन्तरमुच्यते, 'तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषः, यश्चायं दक्षिणेक्षन् पुरुष' इत्यादि, ततो 'हन्ति पाप्मानं जहाति चे'ति फलमुच्यते, तत्र फलभेदाद्विद्याभेद इति प्राप्ते, सैव पूर्वोक्तेवेयं विद्या, द्विर्हेतौ, सत्यादयः पूर्वप्रकृता एवात्र 'तद्यत्तत्सत्य' मित्यनेन परामृश्यन्ते । स्थानविशेषसम्बन्धाच्चैकविध्यम् । फलं तूपनिषदो'रहरित्यह'मिति चोक्तयोः, न तु विद्यायाः, तस्माददोष इत्याहतुः । तदयुक्तम् । सौत्रस्यादिपदस्यासङ्गतेः । उत्तरस्मिन् वाक्ये हि 'तद्यत्तत्सत्य' मिति तत्पदेन सत्य- मात्रमाकृष्यते, न त्वन्यत्किञ्चिदादिपदबोधितं तस्मात् । नच पूर्ववाक्ये स्थानविशेषोक्तिर्येन तदैक्या- दैक्यं सम्भाव्यम्, किञ्च, सर्ववेदान्तप्रत्ययाधिकरणे शाखान्तराधिकरणोक्तास्त्रयो हेतव ऐकविद्यार्थ- माहतास्तत्कथं तत्रानुक्तात् स्थानविशेषात् तत्सिद्धिः । नापि केवलाद्रूपैक्यात्, 'चोदनाद्यविशेषा'- दित्यस्य व्यभिचारित्वापत्तेः। किञ्च, इयं सत्यविद्या पूर्वमुपनिषदोः प्रसङ्गे विचार्यमाणा पूर्ववाक्यो- क्तया सहैक्यमस्मारयन्ती कथम कस्मादत्र स्मारयेत् । अतः काल्पनिक एवायं विचार इत्युपेक्ष्यः । रामानुजाचार्यास्तु, 'न वा विशेषा'दित्यत्राक्ष्यादित्यस्थानभेदेन विद्याभेदसोत्तरवाक्ये साधितत्वादत्र च वाक्यद्वये फलभेदस्य दृश्यमानत्वादवस्थाभेदेन रूपभेदस्यापि सत्त्वादुत्तरवाक्य उपा- सनभेदे सति कथं पूर्ववाक्योक्तेनास्याभेदः सम्भवति, किञ्च, एकविद्यात्वे फलभेदस्योपनिषद्गुणनिब- न्धनत्वम्, तस्य तन्निबन्धनत्वेन बाधकनिवृत्तौ चैकविद्यात्वमित्यन्योन्याश्रय इति दूषणमाहुः ॥३८॥ रश्मिः । बृहदिति । बृहदारण्यकचतुर्थप्रपाठकोपान्ते यक्षपूज्यम् । फलभेदादिति । लोकजयपाप्महननभेदात् । स्थानेति । स्थानविशेषसम्बन्धैक्यप्राप्तमेकविद्यमित्यर्थः । फलभेदाद्विद्याभेदं वारयतः स्म त्रय इति । तृतीयान्त एकः । अधिकारादिति द्वितीयः । चकारोक्तस्तृतीयः । एवं त्रय आहताः । पूर्वतन्त्र- द्वितीयाध्यायीयशाखान्तराधिकरणे संयोगादयश्च तस्य हेतव उक्तास्तेष्वेकं संयोगं विहाय त्रय आहता इत्यर्थः । रूपैक्यादिति । विद्यारूपैक्यात् । प्रासङ्गिकोऽयं हेतुः । व्यभिचरित्वेति । सर्ववेदान्त- प्रत्ययत्वसाध्याभावेति सत्यत्वादिधर्मवति चोदनाद्यविशेषहेतोर्वृत्तित्वेनासाधारण्यात्तथा । फलं त्वित्या- द्युक्तं प्रत्युत्तरयन्ति स्म किञ्चेयमिति । उपनिषदोः प्रसङ्गे सत्यविद्या पूर्वं विचार्यमाणेत्यन्वयः । पूर्व- वाक्येति । हृदयब्राह्मणोक्त्या हृदयब्रह्मणः सर्वत्वेन अक्षरत्वेनोपासनं सर्वात्मभावरूपं त्र्यक्षरं तद्विषय- कम् । पूर्ववाक्यं 'य एवं वेदे'ति । तदुक्त्या हृदयविद्यया । स्मैक्यमिति । स्वस्या हृदयविद्यायाः पूर्वस्याः तदुत्तरसत्यब्राह्मणीयायाः 'तद्धैतदेतदेव तदा सत्यमेवे'ति श्रुतेः प्राप्तं स्वस्याः सत्यविद्याया ऐक्यम् । श्रुतेस्तु तत् हृदयं ब्रह्म । तदास्येत्यत्र तत् ब्रह्मेत्यर्थः । अकस्मादिति । वाक्यं विना । अग्रेति । अग्रेतन 'आप एवेदमग्र आसु'रिति ब्राह्मणे । स्मारयेदिति । नच 'ता आपः सत्यमसृजन्ते'ति 'ते देवाः सत्य- मित्युपासत' इति । 'तदेतत्र्यक्षर ५ सत्य' मितीति प्रत्यभिज्ञानमतो नाकस्मादिति वाच्यम् । पूर्ववाक्योक्तया सहैक्यसासारणे प्रश्नपर्यवसानात् । उत्तरवाक्य इति । 'आप एवेदमग्र आसु'रिति महावाक्ये । अत्र चेति । अधिकरणेयम् । अवस्थेति । बाल्यतदितररूपावस्थाभेदेन । पूर्वेति । सत्योपासनेन । अस्य द्वितीयवाक्योक्तोपासनस्य अभेद इत्यर्थः । फलभेदो विद्यैक्ये बाधकः । तस्य एकविद्यात्वे निवृत्ति- रुपनिषद्गुणे ऐक्येपि फलभेदसाधकः । अत एकविद्यात्वे फलभेदस्य तथा । तस्येति । उपनिषदूगणस्य फलभेदनिबन्धनत्वं तेनं । बाधकेति । बाधकः फलभेदस्तस्य निवृत्तौ ॥ ३८ ॥ 1877
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वं भक्तेरुक्तम् । तद्दार्ढ्यार्थमधुना मुक्ति- प्रतिबन्धकत्वेन हेयत्वेनोक्तानां कामादीनामपि भगवत्सम्बन्धान्मुक्तिसाधकत्व- मुच्यते । भक्तिस्तु विहिताविहिता चेति द्विविधा । माहात्म्यज्ञानयुतेश्वरत्वेन प्रभौ निरुपधिस्नेहात्मिका विहिता । अन्यतोऽप्राप्तत्वात् कामाद्युपाधिजा सा त्वविहिता । एवमुभयविधाया अपि तस्या मुक्तिसाधकत्वमित्याह । इतरत्र विहितभक्तेरिति शेषः । कामाद्युपाधिजस्नेहरूपायां कामाद्येव मुक्तिसाधन- मित्यर्थः । भगवति चित्तप्रवेशहेतुत्वात् । आदिपदात् पुत्रत्वमसम्बन्धित्वादयः । स्नेहाभावेऽप्यविहितत्वभगवद्विषयकत्वयोरविशेषात् द्वेषादिरपि संगृह्यते । तेन भगवत्सम्बन्धमात्रस्य मोक्षसाधकत्वमुक्तं भवति । तत्र विहितभक्ता- वित्यर्थः । शास्त्रे सर्वथा हेयत्वेनोक्ता हि गृहाः। सर्वनिवेदनपूर्वकं गृहेषु भगवत्सेवां कुर्वतां तदुपयोगित्वेन तेभ्य एव मुक्तिर्भवतीत्यर्थः । एतादृशानां गृहा भग- वद्गृहा एवेति ज्ञापनायायतनपदम् । तेषु तथा प्रयोगप्राचुर्यात् । आदिपदेन भाष्यप्रकाशः । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ सूत्रप्रयोजनमाहुः पूर्वेत्यादि । तद्दार्ढ्यार्थमिति । कैमुतिकन्यायेन तदर्थम् । तेनास्य प्रासङ्गिकत्वं बोधितम् । सूत्रं व्याकर्तुं पूर्वोक्तं विभजन्ति भक्तिरित्यादि । अन्यतोऽप्राप्तत्वादिति । शास्त्रव्यतिरिक्तहेत्वन्तरादप्राप्तत्वात् । व्याकुर्वन्ति इतरत्रेत्यादि । कामादेः कथं मुक्तिसाधनत्वमित्यपेक्षायां 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वा । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते' इति दशमस्कन्ध- वाक्यानुसारेण हेतुमादिपदस्यार्थं तत्कथनतात्पर्यं चाहुः भगवतीत्यादि । सूत्रशेषं व्याकुर्वन्ति तत्रेत्यादि । एतदग्रे, चकारार्थबोधिका माहात्म्यज्ञानेत्यादिका फक्किका उक्ता, सा लेखक- प्रमादात् पश्चात्पतितास्तीति ज्ञेयम् । ननु कामादीनां कथं तथात्वमित्याकाङ्क्षायां सौत्रं हेतुं व्याकुर्वन्ति शास्त्र इत्यादि । इदं चाग्रे 'गृहिणोपसंहार' सूत्रे सेत्स्यतीति ज्ञेयम् । अत्रायमेवाशय इत्यत्र गमकमाहुः एतादृशानामित्यादि । प्रयोगप्राचुर्यादिति । 'अण्डमुत्पादयामासुर्ममाय- रश्मिः । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ कैमुतिकेति । यत्सम्बन्धेन कामा- दीनां मुक्तिसाधनत्वं तत्सम्बन्धेन सत्यशमदमादीनां मुक्तिसाधनत्वे किमु वक्तव्यमित्येवं कैमुतिकन्यायेन । पूर्वोक्तमिति । सूत्रे पूर्वमुक्तं कामादि इतरत्रेति च । न च विभागोऽस्त्वेवेति वाच्यम् । ग्रन्थप्रयोजनं प्रपञ्च्य विभागे इत्याशयात् । सौत्रकामादीतरत्रेत्यनयोः सप्रपञ्चं विभागं करे कुर्वन्तीत्यर्थः । विहितेति । विधिविषया । 'तं भजेदि'ति । विधिरपूर्व इति । भाष्ये । तदर्थमत्यन्ताप्राप्तिमाहुः शास्त्रेति । तत्कथ- नेति । तेन भगवदित्यादिभाष्येणादिशब्दकथनतात्पर्यम् । भाष्ये । भगवत्सम्बन्धमात्रस्येति । प्रमेयबलस्येति यावत् । उक्तेति । भाष्ये उक्ता । अत्र चकारोक्तेस्तत्सम्बन्धस्य युक्तत्वात् । शास्त्र इत्यादीति । 'गृहं सर्वात्मना त्याज्य'मित्यादिशास्त्रे । गृहा इति पुंस्त्वं स्मार्तम् । तेभ्य इति । आय- तनादिभ्यः । 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात् । एतादृशानामित्यादीति । भगवद्गृहा इति । एतेनैतादृशाः महाराजोपचारेण भक्तार इत्युक्तम् । महाराजो यावत्पर्यन्तं तिष्ठति १. रश्मौ उक्तेति पाठः ।
स्त्रीपुत्रपश्वादयः संगृह्यन्ते । एतेन ज्ञानादिमार्गादुत्कर्ष उक्तो भवति । बाध- कानामपि साधकत्वात् । माहात्म्यज्ञानपूर्वकस्नेहे सत्येव भर्तृत्वेन ज्ञाने कामोपि सम्भवतीति ज्ञापनाय चकारः ॥ ३९ ॥ इति तृतीयाध्याये तृतीयपादे त्रयोदशं शैव हि सत्यादय इत्यधिकरणम् ॥ १३ ॥ भाष्यप्रकाशः। तनमुत्तमम् ।' 'पञ्चायतनपूजे'त्यादौ तथात्वात् । पूर्वोक्तं प्रयोजनं निगमयन्ति एतेनेत्यादि । एतेनेति । पूर्वसूत्रे भगवद्भक्तिबलस्य, अत्र च 'गोप्यः कामा'दित्यादिसप्तमस्कन्धवाक्यात् कामा- दीनामविहितभक्तिहेतूनाम्, 'भक्तिरस्य भजन'मित्युक्त्वा, 'एतदेव च नैष्कर्म्य'मिति विहितभक्तेः संन्यासरूपतायास्तापनीये श्रावणात्, 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्यात् गृहादीनां च मुक्तिसाधनत्वस्य कथनेन । चकारसूचितमर्थमाहुः माहात्म्येत्यादि । इतिज्ञाप- नायेति । इतिहेतोर्विहितभक्तौ कामादपीति ज्ञापनाय । अत्रोभयोर्भक्त्योः स्वरूपबलसाधन- योर्विचारेण पुष्टिभक्त्याश्रितमर्यादाभक्तिबोधकं वाम उरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहं स्थितमिति विशेषणं प्रतिपादितं ज्ञातव्यम् । अन्ये तु, 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश' इत्युपक्रम्य, 'एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः रश्मिः। तावत्पर्यन्तं तद्गृह्यमिति । स्त्रीपुत्रेति । प्रमेयबलविषया एव । निगमयन्तीति । तस्मात्तथेतिवत् । अविहितेति । अस्य मुक्तिसाधनत्वस्येत्यनेनान्वयः । विहितेति । भजनस्य 'तं भजे'दिति गोपाल- तापनीये विहितत्वात् । संन्यासेति । नैष्कर्म्यं संन्यासो भवतीति तथा । निर्गतः कर्मणः निष्कर्मी संन्यासी तस्य भावो नैष्कर्म्यं संन्यासः । उपनिषद मावर्तयेत् आरणं वेति सकलकर्मनिषेधात् । गृहा इति बहुवचनार्थमाहुः गृहादीनामिति । आदिपदेन स्त्रीपुत्रपश्वादयः संगृह्यन्ते । दम्पत्योः सहाधि- कारात्स्त्रीः । भगवत्सेवार्थं वत्सानयनम् । 'पुत्रेण लोकं जयती'ति पुत्रः । 'पुत्रे कृष्णप्रिये रति'रिति । 'पय- साग्निहोत्रं जुहोती'ति । 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रय- तात्मन' इति । अत्राप्यादिपदेनारामोपवनादिः । अव्ययानां द्योतकत्वमाश्रित्याहुः चकारेति । विहि- तेति । 'माहात्म्यज्ञानपूर्वस्तु सुदृढ' इति वाक्याद्विहितत्वम् । कामादपीति । तत्र चेति सूत्रांशा- त्कामादपीत्यर्थः । षोडशाधिकरण्यो अर्थमाहुः अत्रोभयोरिति । विहिताविहितयोः । स्वरूपबलं साधनं च तयोः । स्वरूपबलं बाधकानां साधकत्वम् । पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वम् । पुष्टीति । अविहितभक्तिकामार्याश्रिताया मर्यादाभक्तेर्विहितभक्तेर्बोधकम् । बोधकत्वं तु 'भवत्पदाम्भोरुहनावम- त्रे'त्यत्र भगवत्पादयोर्भक्तित्वमुक्तम्, तत्र वाम ऊरुः पादसहित इति पुष्टिभक्त्याश्रितत्वस्य । 'दक्षिणा- ङ्घ्रिसरोरुह'मिति मर्यादाभक्तेः । अत्र पूर्ववाक्योक्त्येति भाष्यप्रकाश उक्तम्, तेन हृदयब्राह्मणोक्त- भूमसर्वात्मभावयोरुपासनासूचि । तथाहि । 'एष प्रजापतिर्यद्धृदय'मित्युपक्रमः । अत्र हृदयस्य प्रजाप- तित्वं विधीयते । कथमेवं स्यात् हृदयं सर्वात्मभावत्वेन वक्ष्यमाणं प्रजापती रजोधिष्ठातेति । एवं तु स्यात् । हृदि अयं रजोधिष्ठाता । वेदान्तत्वात् योगे तु प्रजानां पतिर्भगवान् । भूमा प्रजापतिः सर्वात्म- भावकरणेन सर्वात्मभावत्वाद्भूमा । 'एतद्ब्रह्मैतत्सर्वं'मिति ब्रह्मलिङ्गम् । सर्वात्मभावरूपत्वमाह 'तदेतत्त्र्य- क्षर ५ हृदयमिति'ति । 'हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेदे'ति । स्वाश्चेत्यत्र शसो डा । अन्ये चेति । हृ । सम्प्रदाने प्रत्ययः । हृञ् हरण इत्यस्मात् । हृदः सान्निध्यात् । स्वाश्चानिन्द्रियाणि वसवोऽभिमुखाभिहरन्त्यन्ये तदनुसारिणः । सर्वेन्द्रियाणां भगवत्परत्वं सर्वात्मभावः निरोधलक्षण- 1879
भाष्यप्रकाशः। सत्यसङ्कल्प' इति छान्दोग्ये आम्नायते । 'स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु,' 'य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान' इति वाजसनेयके । तयोरेकविद्यं परस्परगुणोपसंहारो भवेन्न वेति सन्देहे, कामादिसूत्रेणैकविद्यमुपसंहारं च सिद्धान्ती- कुर्वन्ति । कामादीत्यत्र कामपदं 'देवदत्तो दत्तः' 'सत्यभामा भामे'तिवन्नामैकदेशरूपम् । तेन सत्यकामाद्या वाजसनेयके वशित्वाद्याश्छान्दोग्ये उपसंहार्याः । हृदयायतनस्य, वेद्यस्येश्वरस्य, लोकासम्भेदप्रयोजनकसेतुत्वरूपेश्वरधर्मस्य च समानत्वादिति चाहुः । तच्चिन्त्यम् । श्रुतौ सत्यकामपदस्य यौगिकत्वेन नामत्वाभावात् तदेकदेशस्य कामादिपदस्य नामैकदेशतया वक्तुमशक्यत्वात् । अथ रूढत्वम्, तदापि तदेकदेशेन कामादिपदेन ब्रह्मैव समर्पणीयम्, न तु तद्गुणा अपि । दृष्टान्ते तथैव दर्शनात् । अथ योगरूढत्वम्, तदापि कामपदस्य सर्वकामादिपदैकदेशतायास्तुल्यत्वान्मनोमयादिवाक्योक्ता अपि धर्मा वाजसनेयके कुतो नोपसंह्रियेरन्, कुतो वा तस्यानेनैकविद्यात्वाभावः । हृदयस्यायतनस्य वेद्यसेश्वरस्य सत्यसंकल्प- त्वाकाशात्मत्वस्य समानधर्मस्य सत्त्वात् । किञ्च । यद्यायतनादिकमेतदेकविद्यत्वादिसम्पादकत्वेन व्यासचरणानामभिप्रेतं स्यात्, तदा कामादिरत्र वशित्वादि तत्रेति ब्रूयुः, न त्वेवं सन्दिग्धं वदेयुः । किञ्च । सर्ववेदान्तप्रत्ययाधिकरणे 'चोदनाद्यविशेषा'दित्यनेन शाखान्तराधिकरणोक्ता- श्चत्वारस्त्रयो वा हेतवो विद्यैक्यार्थं संगृहीताः । तत् यद्यायतनादिभिरङ्गीक्रियेत, तदा रश्मिः । अन्येपि । 'य एवं वेदे'त्युपासनम् । एवं 'द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेदे'त्यत्र । तथैव 'यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'त्यत्र । स्वर्गलोक आत्मसुखम् । व्युत्पत्तिस्तु एतीति यम् । एरच् । एकविधमित्यस्य कारणं परस्परेति । इति सन्देह इति । इति सन्देहो यस्मिन् ऐकविद्य- मिति पूर्वपक्षे स तथोक्तस्तस्मिन् । नैकविद्यं कार्यं न उपसंहारं कारणमस्ति । वाजसनेयक इति । उपसंहार्या इत्यन्वयः । सौत्रेतरत्र पदार्थः । छान्दोग्य इति । सौत्रतत्रपदार्थः । आयतनादिभ्य इत्यस्यार्थः । हृदयेति । हृदयमायतनं यस्येश्वरस्य । आदिपदार्थमाहुः लोकेति । 'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये'त्युक्तो लोकासम्भेदः प्रयोजनमस्य सेतुत्वस्य तत्तथोक्तम् । तेन रूप्यते व्यवह्रियते यः स ईश्वरधर्मस्तस्य । समानत्वं छान्दोग्यवाजसनेयकयोर्ज्ञेयम् । सूत्रे कामशब्दो न नामैकदेश इत्याहुः श्रुताविति । नामत्वेति । पाचकपाठकवत् नामत्वाभावात् । विशेषणत्वात्त- थेति नोक्तम् । विष्णुरात्तः परीक्षित् इत्यत्र न विशेषणत्वेपि नामत्वात् । एवं वेदान्ते योगमादायोक्तम् । बाहुलकाग्रहवादिनं प्रत्याहुः अथेति । स्वमते रूढ्यभावः । दृष्टान्ते इति । 'देवदत्तो दत्त' इत्युक्ते पूर्वस्मिन् । वेदान्ते 'स्मृतेश्चे'तिसूत्रभाष्यानुरोधेन वेदत्वाग्रहवादिनं प्रत्याहुः अथ योगेति । स्वमते योगरूढिर्वेद एव, न वेदान्ते । सर्वकामादीति । छान्दोग्ये पञ्चमप्रपाठके 'मनोमयः प्राणशरीरो भारूपः (सत्यकामः) सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्य- नादर एष म आत्मा हृदये' इत्यत्र सर्वकामादिपदानि तेषामेकदेशतायाः । मनोमयेति । वाक्यमन्य- वहितपूर्वमुक्तम् । तस्येति । मधुविद्यान्तर्गतस्योक्तवाक्यार्थस्य । अनेन वाजसनेयकार्येण । एका विद्या एकविद्या तस्या भाव एकविद्यत्वं तस्याभावः । अत्र दहरविद्या निर्गुणविषया वाजसनेयकोक्ता सगुणविषया तयोर्भेद उपसंहारः परस्परं तत्र विद्याभेदो विरुध्यते 'अभेदानुपपत्तिभ्त्वा'दित्यादिविद्वन्मण्डनेन तद्वि- रोधाय सर्ववेदान्तप्रत्ययप्रपञ्चरूपत्वनिषेधमाहुः किञ्च सर्वेति । चत्वार इति । संयोगेन सह । अत्र इति । अत्रैव व्याख्यातम् । तद्यदीति । तत् विद्यैक्यम् । आयतनादिभिरिति । चोदनाद्यविशे-
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३४५ आदरादलोपः ॥ ४० ॥ (३-३-१४.) ननु नित्यानां वर्णाश्रमधर्माणां भगवद्धर्माणां चैककाले प्राप्तौ युगपदुभयोः करणासम्भवादन्यतरबाधे प्राप्ते, कस्य स्यान्न कस्येति स्यात् संशयः। तत्र कर्मणां स्व- स्वकाले विहितानामकरणे प्रत्यवायश्रवणादितरत्रातथाश्रवणादन्यदापि तत्कृति- सम्भवात् सावकाशत्वेन तेषामेव बाधो युक्तः, न तु निरवकाशानामिति पूर्वः पक्षः। भाष्यप्रकाशः। तस्य हेतोर्व्यतिरेकव्यभिचारः प्रसज्येत, कतिपयैरङ्गीकारे यत्किञ्चिद्धेतुसत्त्वस्य यत्र क्वापि सौल- भ्याद्विद्याभेदश्चोच्छिद्येत । प्रकृते च चोदना भिद्यते, एकत्र 'अन्वेष्टव्यं विजिज्ञासितव्य'मिति वाक्यात्, अन्यत्र च 'य एवं वेदे'ति वाक्यात् । आख्या
३४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४०. तत्र सिद्धान्तमाह आदरादिति । ब्रह्मयज्ञप्रकरणे तैत्तिरीयकैः पठ्यते 'ॐमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तमृचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमुचा करिष्यति य इत्तद्विदुस्त इमे समासत्' इति । अत्र ऋक्सम्बन्धित्वेन वर्णात्मकं, वस्तुतस्तु परमव्योमात्मके अक्षरे ब्रह्मण्योङ्कारे वर्तमानं तल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद, स किं ऋचा करिष्यतीत्यनेन तदज्ञाने वेदाध्ययनस्य निष्फलत्व- भाष्यप्रकाशः। भगवद्धर्मेषु । सिद्धान्तं विशदयितुं सूत्रं विवृण्वन्ति ब्रह्मयज्ञेत्यादि । ब्रह्मयज्ञप्रकरण इति । तैत्तिरीयाणामारण्यके स्वाध्यायब्राह्मणे । श्रुत्यर्थस्तु, ब्रह्मयज्ञेन यक्ष्यमाण ॐमिति प्रतिपद्यते, प्रणवाक्षरं प्रथममुच्चारयेत् । प्रतिपद्यत इति पञ्चमो लकारः । पूर्वोच्चारणे हेतुः । एतद्वै यजुस्त्रयीं विद्यां प्रति, अयं यजूरूपः प्रणवस्त्रयीं विद्यां लक्षीकृत्य प्रतिनिधिरूपो यतोऽस्ति । तथाथर्वणे स्फुटम्, 'तस्य वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदोऽथ द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः स सामभिः सामवेद' इति सायणभाष्ये । वस्तुतस्तु आथर्वणानां गोपथब्राह्मणे इन्द्रप्रजा- पतिसंवादे प्रजापतिना वेदत्रये एकाक्षरोऽथर्ववेदे मात्राभिर्युक्त इति व्यवस्थापनात्, तैत्तिरीये बृहन्नारायणे 'ॐमित्येकाक्षरं ब्रह्म'तिश्रवणादत्रामात्र एव । नच त्रयीप्रतिनिधित्वविरोधः । द्वादशस्कन्धे 'स सर्वमन्त्रोपनिषद्वेदबीजं सनातन'मिति बीजत्वबोधनात् यथा पुस्तकलिखनोत्तरं तन्मूलपुस्तके प्रतिव्यवहारः, तथा त्रयीमूलत्वात् प्रतित्वम् । एकादशस्कन्धे 'वेदः प्रणव एवाग्रे' इति प्रथमकृतयुगे तन्मात्रबोधनात्तदा सर्वं कार्यं प्रणवेनैवेति वा तस्य त्रयीप्रतिनिधित्वमित्य- दोषात् । 'एषा वा'गिति सर्ववाग्बीजत्वात् सर्ववाग्रूपम् । तथाच छन्दोगा आमनन्ति 'तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णे'ति । 'अश्वत्थादिपत्रेषु दृश्यमा- नास्तन्तुसदृशा अवयवाः शङ्कवस्तैर्यथा कृत्स्नानि पर्णानि व्याप्तानि, तद्वदोङ्कारेण सर्वा वाग्व्याप्ते'ति सायणभाष्ये । 'एतत्परममक्षर'मिति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं पर'मिति काठकश्रुतेः । तदेतदृचाभ्युक्तमिति । तदेतत्परमं ब्रह्मरूपमक्षरं वक्ष्यमाणयर्चा स्पष्टमुक्तमित्येवं ज्ञेयः । ऋचं पठित्वा व्याकुर्वन्ति अत्रेत्यादि । ऋक्सम्बन्धित्वेन वर्णात्मके, वस्तुतस्तु 'एतद्ध्ये- वे'ति काठकश्रुत्या 'यो वेद निहितं गुहायां परमे व्योम'न्निति तैत्तिरीयश्रुतेश्च परमव्योमात्मके ॐकारे, 'यस्मिन् देवा अधि विश्वे निषेदु'रिति देवनिषदनस्थानत्वाल्लोकात्मके अक्षरे ब्रह्मणि, रश्मिः। विधिव्याख्यानादाहुः प्रतिपद्यत इति । पञ्चम इति । लेट् । तद्वेति । प्रतिनिधिरूपत्वं च । आथ- र्वणमाहुः तस्य वा इति । अत्रेति । तैत्तिरीयके स्वाध्यायब्राह्मणे । एकाक्षरमिति । समष्ट्यधिकृ- तम् । एतदर्थं वस्तुतस्तुपक्षः । प्रतीति । प्रतिनिधिव्यवहारः । प्रतित्वं प्रतिनिधित्वम् । 'प्रतिप्रतिनि- धिप्रतिदानयो'रिति सूत्रादर्थः । श्रुतौ ऋच इति षष्ठ्यन्तम् । ऋक्सम्बन्धिनि वर्णात्मके इत्यर्थः । तदाहुः ऋक्सम्बन्धित्वेनेति । अर्थपरत्वेन वस्तुतस्तु पक्षेणाक्षरे परम इति श्रुतिं व्याकुर्वन्तीत्याशयेनाहुः वस्तुतस्त्विति । एतद्ध्येवेति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो 1882