अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2001, कुल 2600 में से
संदर्भ में पढ़ें३४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १३ सू० ३८.
वेति। फलोपकार्यान्तरङ्गसाधनत्वात् शुद्धौ सत्यामेव चित्ते भगवत्प्रादुर्भावसम्भ- वात् विधीयन्त इति पूर्वः पक्षः। तादृशस्य ते न विधीयन्त इति सिद्धान्तः। तत्र हेतुमाह। हि यस्माद्धेतोः, सैव भक्तिरेव सत्यादिसर्वसाधनरूपा। तस्यां सत्यां सत्यादयो ये ज्ञानमार्गे विहितत्वात् कष्टेन क्रियन्ते मुमुक्षुभिः, ते भक्तहृदि भगवत्प्रादुर्भावात् स्वत एव भवन्तीति न विधिमपेक्षन्त इत्यर्थः ॥ ३८ ॥
भाष्यप्रकाशः। साधयतीत्याशयेनाधिकरणं वदन्तोऽवतारयन्ति अथेत्यादि। यथा 'सत्यं परं पर५सत्य'मित्यादौ ज्ञानार्थम्, यथाच 'शान्तो दान्त' इत्यादौ ज्ञानोत्तरं सत्यशमदमादयो विधीयन्ते, तथा प्राप्तभक्तेः पुरुषस्य भक्त्युत्तरं ते विधीयन्ते, न वेति संशये, फलोपकार्यान्तरङ्गसाधनत्वात् फलस्य भगवत्प्रा- प्तेरुपकारी मुख्यं साधनं भगवदाविर्भावः, तस्यान्तरङ्गा चित्तशुद्धिः, तस्याः साधनानि सत्यादीनि, तस्मात्। एतदेव विवृणोति शुद्धौ सत्यामेव चित्ते भगवदाविर्भावसम्भवादिति । अतो यथा सम्परायाधिकरण उपन्यस्तैर्वाक्यैर्भक्तेः पूर्वं ते विधीयन्त इत्युन्नीयते, तथा भक्त्युत्तरमपि ते विधीयन्ते इति पूर्वपक्षः । तादृशस्य प्राप्तभक्तेस्ते सत्यादयो न विधीयन्ते, 'भक्त्या त्वनन्यये'ति वाक्ये अन्यसाधननिरपेक्षयैव भक्त्या ज्ञानदर्शनप्राप्तीनामुक्तत्वात् तयैव संसिद्धेरिति सिद्धान्तः । तत्र सिद्धान्ते युक्तिमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति हीत्यादि। 'यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिरितरैरपि । सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'ति । 'धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक्प्रपुनाति ही'ति च एकादशे भगवद्वाक्यात् सैव भक्तिरेव सर्वसाधनरूपा। अतस्तथेत्यर्थः ।
रश्मिः। साधनत इति । ज्ञानमार्गे साधनानि सत्यशमदमादीनि । ज्ञानानन्तरमनुवर्तनात् । वेदान्तशब्दस्तु प्रमाणं न साधनम् । प्रमाणावगतसाधने प्रवर्तते यतः । अतः सत्यशमदमादिभिः शाब्दापरोक्षं तद्वन्न भक्तिमार्गे, न सत्यशमदमादयो भगवद्रूपे फले साधनम्, किन्तु भक्तिरेवेति साधनतः सत्यशमदमादि- तोपि। तत् उत्कर्षम्। तदित्यव्ययम् । भक्त्युत्कर्षम्। तत्स्वरूपत्वं भक्तेः, न तु भक्तिरूपत्वं सत्यशम- दमादीनां ज्ञानसाधनत्वेप्यत्रेत्येवं साधनतोपि तत्साधयतीत्यर्थः। यथेत्यादि विचारो यथेत्यर्थः। भाष्य- सूचितं विषयवाक्यमाहुः सत्यं परमिति । इदं विषयवाक्यम् । 'सदेव सौम्येदमग्र आसीत्' 'सत्यं परं धीमहि' 'सत्यव्रतं सत्यपरं त्रिसत्य' मित्यादिषु सत्यज्ञानानन्तेषु सत्योपादानात् । अन्ययोरुपलक्ष्य- त्वात् । 'शान्तो दान्त' इति शारीरब्राह्मणेस्ति । 'अणुः पन्था विततः पुराणः' इति द्वितीयाध्याये भोक्त्रा- पत्तिसूत्रेऽणुः पठितः । महत् उपासनमाह । तथा चोपक्रमः । 'विरजः पर आकाशात् अज आत्मा महान्ध्रुवः' । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' । 'नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि त'- दिति । उपसंहारश्च 'स वा एष महानज आत्मा अजरोऽमरोऽमृतो ब्रह्माभयं वै ब्रह्माभयं ५ ह वै ब्रह्मा भवती'ति । ज्ञानोत्तरमिति । 'तस्मादेवंविच्छान्तो दान्त' इति पाठाद्विदो विशेषणीभूतज्ञाना- नन्तरम् । यतो वेत्तीति वित् ज्ञानानुकूलव्यापारवान् । ज्ञानं च साधनचतुष्टयसाध्यमिति विषयश्रुतौ सत्यशमदमादयः ज्ञानोत्तरं पूर्वं वा विधीयन्ते, तथा ज्ञानशब्दस्य भक्तिपरत्वे प्राप्तभक्तेर्भक्तेः पूर्वं स्वतःसिद्धसत्यशमदमादयो भक्त्युत्तरं विधीयन्ते न वेति संशय इत्यर्थः । फलेतिभाष्यं विवृण्वन्ति स्म फलेति । त इति । तर्तव्यपापादयः । त इति । सत्यशमदमादयः । तादृशस्येतिभाष्यं विवृण्वन्ति स्म तादृशस्येति । युक्तिमिति हेतुशब्दार्थः । अतस्तथेति । सैव भक्तिरेव सत्यादिसर्वसाधनरूपा ।
१. भगवदाविर्भाव इति प्रकाशपाठः ।