अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2002, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४१ भाष्यप्रकाशः । अत्र शाङ्करभास्कराचार्यौ, इदमेकसूत्रमधिकरणमङ्गीकृत्य, बृहदारण्यकोपान्ते, 'स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मे'त्युपक्रम्य, 'जयतीमान् लोका'निति फलमुक्तम् । अग्रे च 'आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्ते'ति प्रकृत्यानन्तरमुच्यते, 'तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषः, यश्चायं दक्षिणेक्षन् पुरुष' इत्यादि, ततो 'हन्ति पाप्मानं जहाति चे'ति फलमुच्यते, तत्र फलभेदाद्विद्याभेद इति प्राप्ते, सैव पूर्वोक्तेवेयं विद्या, द्विर्हेतौ, सत्यादयः पूर्वप्रकृता एवात्र 'तद्यत्तत्सत्य' मित्यनेन परामृश्यन्ते । स्थानविशेषसम्बन्धाच्चैकविध्यम् । फलं तूपनिषदो'रहरित्यह'मिति चोक्तयोः, न तु विद्यायाः, तस्माददोष इत्याहतुः । तदयुक्तम् । सौत्रस्यादिपदस्यासङ्गतेः । उत्तरस्मिन् वाक्ये हि 'तद्यत्तत्सत्य' मिति तत्पदेन सत्य- मात्रमाकृष्यते, न त्वन्यत्किञ्चिदादिपदबोधितं तस्मात् । नच पूर्ववाक्ये स्थानविशेषोक्तिर्येन तदैक्या- दैक्यं सम्भाव्यम्, किञ्च, सर्ववेदान्तप्रत्ययाधिकरणे शाखान्तराधिकरणोक्तास्त्रयो हेतव ऐकविद्यार्थ- माहतास्तत्कथं तत्रानुक्तात् स्थानविशेषात् तत्सिद्धिः । नापि केवलाद्रूपैक्यात्, 'चोदनाद्यविशेषा'- दित्यस्य व्यभिचारित्वापत्तेः। किञ्च, इयं सत्यविद्या पूर्वमुपनिषदोः प्रसङ्गे विचार्यमाणा पूर्ववाक्यो- क्तया सहैक्यमस्मारयन्ती कथम कस्मादत्र स्मारयेत् । अतः काल्पनिक एवायं विचार इत्युपेक्ष्यः । रामानुजाचार्यास्तु, 'न वा विशेषा'दित्यत्राक्ष्यादित्यस्थानभेदेन विद्याभेदसोत्तरवाक्ये साधितत्वादत्र च वाक्यद्वये फलभेदस्य दृश्यमानत्वादवस्थाभेदेन रूपभेदस्यापि सत्त्वादुत्तरवाक्य उपा- सनभेदे सति कथं पूर्ववाक्योक्तेनास्याभेदः सम्भवति, किञ्च, एकविद्यात्वे फलभेदस्योपनिषद्गुणनिब- न्धनत्वम्, तस्य तन्निबन्धनत्वेन बाधकनिवृत्तौ चैकविद्यात्वमित्यन्योन्याश्रय इति दूषणमाहुः ॥३८॥ रश्मिः । बृहदिति । बृहदारण्यकचतुर्थप्रपाठकोपान्ते यक्षपूज्यम् । फलभेदादिति । लोकजयपाप्महननभेदात् । स्थानेति । स्थानविशेषसम्बन्धैक्यप्राप्तमेकविद्यमित्यर्थः । फलभेदाद्विद्याभेदं वारयतः स्म त्रय इति । तृतीयान्त एकः । अधिकारादिति द्वितीयः । चकारोक्तस्तृतीयः । एवं त्रय आहताः । पूर्वतन्त्र- द्वितीयाध्यायीयशाखान्तराधिकरणे संयोगादयश्च तस्य हेतव उक्तास्तेष्वेकं संयोगं विहाय त्रय आहता इत्यर्थः । रूपैक्यादिति । विद्यारूपैक्यात् । प्रासङ्गिकोऽयं हेतुः । व्यभिचरित्वेति । सर्ववेदान्त- प्रत्ययत्वसाध्याभावेति सत्यत्वादिधर्मवति चोदनाद्यविशेषहेतोर्वृत्तित्वेनासाधारण्यात्तथा । फलं त्वित्या- द्युक्तं प्रत्युत्तरयन्ति स्म किञ्चेयमिति । उपनिषदोः प्रसङ्गे सत्यविद्या पूर्वं विचार्यमाणेत्यन्वयः । पूर्व- वाक्येति । हृदयब्राह्मणोक्त्या हृदयब्रह्मणः सर्वत्वेन अक्षरत्वेनोपासनं सर्वात्मभावरूपं त्र्यक्षरं तद्विषय- कम् । पूर्ववाक्यं 'य एवं वेदे'ति । तदुक्त्या हृदयविद्यया । स्मैक्यमिति । स्वस्या हृदयविद्यायाः पूर्वस्याः तदुत्तरसत्यब्राह्मणीयायाः 'तद्धैतदेतदेव तदा सत्यमेवे'ति श्रुतेः प्राप्तं स्वस्याः सत्यविद्याया ऐक्यम् । श्रुतेस्तु तत् हृदयं ब्रह्म । तदास्येत्यत्र तत् ब्रह्मेत्यर्थः । अकस्मादिति । वाक्यं विना । अग्रेति । अग्रेतन 'आप एवेदमग्र आसु'रिति ब्राह्मणे । स्मारयेदिति । नच 'ता आपः सत्यमसृजन्ते'ति 'ते देवाः सत्य- मित्युपासत' इति । 'तदेतत्र्यक्षर ५ सत्य' मितीति प्रत्यभिज्ञानमतो नाकस्मादिति वाच्यम् । पूर्ववाक्योक्तया सहैक्यसासारणे प्रश्नपर्यवसानात् । उत्तरवाक्य इति । 'आप एवेदमग्र आसु'रिति महावाक्ये । अत्र चेति । अधिकरणेयम् । अवस्थेति । बाल्यतदितररूपावस्थाभेदेन । पूर्वेति । सत्योपासनेन । अस्य द्वितीयवाक्योक्तोपासनस्य अभेद इत्यर्थः । फलभेदो विद्यैक्ये बाधकः । तस्य एकविद्यात्वे निवृत्ति- रुपनिषद्गुणे ऐक्येपि फलभेदसाधकः । अत एकविद्यात्वे फलभेदस्य तथा । तस्येति । उपनिषदूगणस्य फलभेदनिबन्धनत्वं तेनं । बाधकेति । बाधकः फलभेदस्तस्य निवृत्तौ ॥ ३८ ॥ 1877