अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2006, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ३४५ आदरादलोपः ॥ ४० ॥ (३-३-१४.) ननु नित्यानां वर्णाश्रमधर्माणां भगवद्धर्माणां चैककाले प्राप्तौ युगपदुभयोः करणासम्भवादन्यतरबाधे प्राप्ते, कस्य स्यान्न कस्येति स्यात् संशयः। तत्र कर्मणां स्व- स्वकाले विहितानामकरणे प्रत्यवायश्रवणादितरत्रातथाश्रवणादन्यदापि तत्कृति- सम्भवात् सावकाशत्वेन तेषामेव बाधो युक्तः, न तु निरवकाशानामिति पूर्वः पक्षः। भाष्यप्रकाशः। तस्य हेतोर्व्यतिरेकव्यभिचारः प्रसज्येत, कतिपयैरङ्गीकारे यत्किञ्चिद्धेतुसत्त्वस्य यत्र क्वापि सौल- भ्याद्विद्याभेदश्चोच्छिद्येत । प्रकृते च चोदना भिद्यते, एकत्र 'अन्वेष्टव्यं विजिज्ञासितव्य'मिति वाक्यात्, अन्यत्र च 'य एवं वेदे'ति वाक्यात् । आख्या