भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2005, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2005

भाष्यप्रकाशः। सत्यसङ्कल्प' इति छान्दोग्ये आम्नायते । 'स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु,' 'य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान' इति वाजसनेयके । तयोरेकविद्यं परस्परगुणोपसंहारो भवेन्न वेति सन्देहे, कामादिसूत्रेणैकविद्यमुपसंहारं च सिद्धान्ती- कुर्वन्ति । कामादीत्यत्र कामपदं 'देवदत्तो दत्तः' 'सत्यभामा भामे'तिवन्नामैकदेशरूपम् । तेन सत्यकामाद्या वाजसनेयके वशित्वाद्याश्छान्दोग्ये उपसंहार्याः । हृदयायतनस्य, वेद्यस्येश्वरस्य, लोकासम्भेदप्रयोजनकसेतुत्वरूपेश्वरधर्मस्य च समानत्वादिति चाहुः । तच्चिन्त्यम् । श्रुतौ सत्यकामपदस्य यौगिकत्वेन नामत्वाभावात् तदेकदेशस्य कामादिपदस्य नामैकदेशतया वक्तुमशक्यत्वात् । अथ रूढत्वम्, तदापि तदेकदेशेन कामादिपदेन ब्रह्मैव समर्पणीयम्, न तु तद्गुणा अपि । दृष्टान्ते तथैव दर्शनात् । अथ योगरूढत्वम्, तदापि कामपदस्य सर्वकामादिपदैकदेशतायास्तुल्यत्वान्मनोमयादिवाक्योक्ता अपि धर्मा वाजसनेयके कुतो नोपसंह्रियेरन्, कुतो वा तस्यानेनैकविद्यात्वाभावः । हृदयस्यायतनस्य वेद्यसेश्वरस्य सत्यसंकल्प- त्वाकाशात्मत्वस्य समानधर्मस्य सत्त्वात् । किञ्च । यद्यायतनादिकमेतदेकविद्यत्वादिसम्पादकत्वेन व्यासचरणानामभिप्रेतं स्यात्, तदा कामादिरत्र वशित्वादि तत्रेति ब्रूयुः, न त्वेवं सन्दिग्धं वदेयुः । किञ्च । सर्ववेदान्तप्रत्ययाधिकरणे 'चोदनाद्यविशेषा'दित्यनेन शाखान्तराधिकरणोक्ता- श्चत्वारस्त्रयो वा हेतवो विद्यैक्यार्थं संगृहीताः । तत् यद्यायतनादिभिरङ्गीक्रियेत, तदा रश्मिः । अन्येपि । 'य एवं वेदे'त्युपासनम् । एवं 'द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेदे'त्यत्र । तथैव 'यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'त्यत्र । स्वर्गलोक आत्मसुखम् । व्युत्पत्तिस्तु एतीति यम् । एरच् । एकविधमित्यस्य कारणं परस्परेति । इति सन्देह इति । इति सन्देहो यस्मिन् ऐकविद्य- मिति पूर्वपक्षे स तथोक्तस्तस्मिन् । नैकविद्यं कार्यं न उपसंहारं कारणमस्ति । वाजसनेयक इति । उपसंहार्या इत्यन्वयः । सौत्रेतरत्र पदार्थः । छान्दोग्य इति । सौत्रतत्रपदार्थः । आयतनादिभ्य इत्यस्यार्थः । हृदयेति । हृदयमायतनं यस्येश्वरस्य । आदिपदार्थमाहुः लोकेति । 'अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये'त्युक्तो लोकासम्भेदः प्रयोजनमस्य सेतुत्वस्य तत्तथोक्तम् । तेन रूप्यते व्यवह्रियते यः स ईश्वरधर्मस्तस्य । समानत्वं छान्दोग्यवाजसनेयकयोर्ज्ञेयम् । सूत्रे कामशब्दो न नामैकदेश इत्याहुः श्रुताविति । नामत्वेति । पाचकपाठकवत् नामत्वाभावात् । विशेषणत्वात्त- थेति नोक्तम् । विष्णुरात्तः परीक्षित् इत्यत्र न विशेषणत्वेपि नामत्वात् । एवं वेदान्ते योगमादायोक्तम् । बाहुलकाग्रहवादिनं प्रत्याहुः अथेति । स्वमते रूढ्यभावः । दृष्टान्ते इति । 'देवदत्तो दत्त' इत्युक्ते पूर्वस्मिन् । वेदान्ते 'स्मृतेश्चे'तिसूत्रभाष्यानुरोधेन वेदत्वाग्रहवादिनं प्रत्याहुः अथ योगेति । स्वमते योगरूढिर्वेद एव, न वेदान्ते । सर्वकामादीति । छान्दोग्ये पञ्चमप्रपाठके 'मनोमयः प्राणशरीरो भारूपः (सत्यकामः) सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्य- नादर एष म आत्मा हृदये' इत्यत्र सर्वकामादिपदानि तेषामेकदेशतायाः । मनोमयेति । वाक्यमन्य- वहितपूर्वमुक्तम् । तस्येति । मधुविद्यान्तर्गतस्योक्तवाक्यार्थस्य । अनेन वाजसनेयकार्येण । एका विद्या एकविद्या तस्या भाव एकविद्यत्वं तस्याभावः । अत्र दहरविद्या निर्गुणविषया वाजसनेयकोक्ता सगुणविषया तयोर्भेद उपसंहारः परस्परं तत्र विद्याभेदो विरुध्यते 'अभेदानुपपत्तिभ्त्वा'दित्यादिविद्वन्मण्डनेन तद्वि- रोधाय सर्ववेदान्तप्रत्ययप्रपञ्चरूपत्वनिषेधमाहुः किञ्च सर्वेति । चत्वार इति । संयोगेन सह । अत्र इति । अत्रैव व्याख्यातम् । तद्यदीति । तत् विद्यैक्यम् । आयतनादिभिरिति । चोदनाद्यविशे-