अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2007, कुल 2600 में से
संदर्भ में पढ़ें३४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४०. तत्र सिद्धान्तमाह आदरादिति । ब्रह्मयज्ञप्रकरणे तैत्तिरीयकैः पठ्यते 'ॐमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तमृचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुर्यस्तन्न वेद किमुचा करिष्यति य इत्तद्विदुस्त इमे समासत्' इति । अत्र ऋक्सम्बन्धित्वेन वर्णात्मकं, वस्तुतस्तु परमव्योमात्मके अक्षरे ब्रह्मण्योङ्कारे वर्तमानं तल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद, स किं ऋचा करिष्यतीत्यनेन तदज्ञाने वेदाध्ययनस्य निष्फलत्व- भाष्यप्रकाशः। भगवद्धर्मेषु । सिद्धान्तं विशदयितुं सूत्रं विवृण्वन्ति ब्रह्मयज्ञेत्यादि । ब्रह्मयज्ञप्रकरण इति । तैत्तिरीयाणामारण्यके स्वाध्यायब्राह्मणे । श्रुत्यर्थस्तु, ब्रह्मयज्ञेन यक्ष्यमाण ॐमिति प्रतिपद्यते, प्रणवाक्षरं प्रथममुच्चारयेत् । प्रतिपद्यत इति पञ्चमो लकारः । पूर्वोच्चारणे हेतुः । एतद्वै यजुस्त्रयीं विद्यां प्रति, अयं यजूरूपः प्रणवस्त्रयीं विद्यां लक्षीकृत्य प्रतिनिधिरूपो यतोऽस्ति । तथाथर्वणे स्फुटम्, 'तस्य वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदोऽथ द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः स सामभिः सामवेद' इति सायणभाष्ये । वस्तुतस्तु आथर्वणानां गोपथब्राह्मणे इन्द्रप्रजा- पतिसंवादे प्रजापतिना वेदत्रये एकाक्षरोऽथर्ववेदे मात्राभिर्युक्त इति व्यवस्थापनात्, तैत्तिरीये बृहन्नारायणे 'ॐमित्येकाक्षरं ब्रह्म'तिश्रवणादत्रामात्र एव । नच त्रयीप्रतिनिधित्वविरोधः । द्वादशस्कन्धे 'स सर्वमन्त्रोपनिषद्वेदबीजं सनातन'मिति बीजत्वबोधनात् यथा पुस्तकलिखनोत्तरं तन्मूलपुस्तके प्रतिव्यवहारः, तथा त्रयीमूलत्वात् प्रतित्वम् । एकादशस्कन्धे 'वेदः प्रणव एवाग्रे' इति प्रथमकृतयुगे तन्मात्रबोधनात्तदा सर्वं कार्यं प्रणवेनैवेति वा तस्य त्रयीप्रतिनिधित्वमित्य- दोषात् । 'एषा वा'गिति सर्ववाग्बीजत्वात् सर्ववाग्रूपम् । तथाच छन्दोगा आमनन्ति 'तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक् सन्तृण्णे'ति । 'अश्वत्थादिपत्रेषु दृश्यमा- नास्तन्तुसदृशा अवयवाः शङ्कवस्तैर्यथा कृत्स्नानि पर्णानि व्याप्तानि, तद्वदोङ्कारेण सर्वा वाग्व्याप्ते'ति सायणभाष्ये । 'एतत्परममक्षर'मिति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं पर'मिति काठकश्रुतेः । तदेतदृचाभ्युक्तमिति । तदेतत्परमं ब्रह्मरूपमक्षरं वक्ष्यमाणयर्चा स्पष्टमुक्तमित्येवं ज्ञेयः । ऋचं पठित्वा व्याकुर्वन्ति अत्रेत्यादि । ऋक्सम्बन्धित्वेन वर्णात्मके, वस्तुतस्तु 'एतद्ध्ये- वे'ति काठकश्रुत्या 'यो वेद निहितं गुहायां परमे व्योम'न्निति तैत्तिरीयश्रुतेश्च परमव्योमात्मके ॐकारे, 'यस्मिन् देवा अधि विश्वे निषेदु'रिति देवनिषदनस्थानत्वाल्लोकात्मके अक्षरे ब्रह्मणि, रश्मिः। विधिव्याख्यानादाहुः प्रतिपद्यत इति । पञ्चम इति । लेट् । तद्वेति । प्रतिनिधिरूपत्वं च । आथ- र्वणमाहुः तस्य वा इति । अत्रेति । तैत्तिरीयके स्वाध्यायब्राह्मणे । एकाक्षरमिति । समष्ट्यधिकृ- तम् । एतदर्थं वस्तुतस्तुपक्षः । प्रतीति । प्रतिनिधिव्यवहारः । प्रतित्वं प्रतिनिधित्वम् । 'प्रतिप्रतिनि- धिप्रतिदानयो'रिति सूत्रादर्थः । श्रुतौ ऋच इति षष्ठ्यन्तम् । ऋक्सम्बन्धिनि वर्णात्मके इत्यर्थः । तदाहुः ऋक्सम्बन्धित्वेनेति । अर्थपरत्वेन वस्तुतस्तु पक्षेणाक्षरे परम इति श्रुतिं व्याकुर्वन्तीत्याशयेनाहुः वस्तुतस्त्विति । एतद्ध्येवेति । 'एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो 1882