भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2008, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2008

मुच्यते । एवं सति तदुक्तकर्मणोपि तथात्वमायाति । एतेन 'भक्त्या मामभि- जानाती'ति वाक्यात् परब्रह्मस्वरूपज्ञानं भक्त्यैवेति भक्ताः सन्तः पुरुषोत्तमविदो ये, तेषामेव वेदाध्ययनादिकं फलप्रदम्, नान्येषामित्युक्तं भवति । अत एव श्रीभागवतेप्युक्तं 'ऋषयोपि देव युष्मत्प्रसङ्गविमुखा इह संञ्चरन्ति,' 'संसरन्ती'ति वा । अन्वये निदर्शनम् । ये इत् ईश्वरत्वेन ^त^त् पूर्वोक्तं परं ब्रह्म विदुः, त इमे भक्ताः सर्वापेक्षया सम्यक्प्रकारेण भगवन्निकटे श्रीगोकुलवैकुण्ठादिवासात् इति । तेनान्येषां सम्यगसत्त्वमर्थाक्षिप्तं भवति । पुरःस्थितार्थावाचीवंशब्दप्रयोगेण चान्येषामसत्तुल्यत्वं श्रुतेरभिमतमिति ज्ञायते । ऋक्शाखायामपि 'तमु स्तोतारः पूर्व्यं यथाविद् ऋतस्य गर्भं जनुषा पिपर्तन, आस्य जानन्तो नाम चिद्विवक्तन भाष्यप्रकाशः। उक्तश्रुतौ निहितत्वेन श्रावणाद्द्द्वितीयां 'तद्धाम परमं ममे'ति वाक्याच्च तत्र प्रतिपाद्यत्वेन स्वरूपेण च वर्तमानम्, तं 'अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम' इति गीतावाक्याल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद, स किं ऋचा, ऋगिति वेदमात्रोपलक्षकम्, वेदेन किं करिष्यतीति । शेषं स्फुटम् । 'ऋषय' इति वाक्यं तु तृतीयस्कन्धे नवमाध्याये । अन्वये निदर्शनमिति । तदज्ञातुर्वेदनाध्यय- नसद्भावेपि तन्मुख्यफलाभावादन्वयव्यभिचारे निदर्शनं श्रुतिः श्रीभागवतवाक्यं चाहेत्यर्थः । अथवा, इदमग्रिमेण सम्बध्यते । तथाच वक्ष्यमाणेन वाक्यशेषेण श्रुतिज्ञानवतां भगव- त्प्राप्तिलक्षणं निदर्शनमाहेत्यर्थः । तदेव श्रुतिशेषं व्याकुर्वन्ति ये इदित्यादि । इदित्यवधारणे । तथाच प्रणवार्थभूतस्य भगवतो यज्ज्ञानं तस्यावश्यकत्वं तदज्ञानेऽध्ययनादिनेष्फल्यं च बोधय- न्यान्यर्चा भगवज्ज्ञानसाधनीभूतायां वरणसाध्यायां भक्तावादरो दर्शितः । एवं श्रुत्यन्तरे साधनभक्तावप्यादरः श्रूयते इत्याशयेनाहुः ऋगित्यादि । अर्थस्तु, हे स्तोतारो मद्युत्कर्षवर्ण- नपराः । इयं वेदानामुक्तिः । तं लोकवेदप्रसिद्धम्, पूर्व्यं पूर्वस्य कारणस्य सम्बन्धि सर्वकारण- कारणरूपम्, यथाविदः यथावत्तत्स्वरूपवेत्तारो भवन्तः, ऋतस्य सूनृतवाणीरूपस्य वेदस्य, गर्भं अन्तर्निहितम्, जनुषा स्वस्य सम्पूर्णजन्मना यावज्जीवमिति यावत् , पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत, सन्तोषयत । अत्र यथाविद्वचोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरणजीववि- नियोगं भगवत्तोषार्थं दर्शयति श्रुतिरिति भगवद्धर्मेषु श्रुतेरादरः स्फुटति । अथ भगवत्तोषाभावे किमपि न सिध्यतीत्याशयेन पूर्वोक्तकरणाशक्तावनुकल्पमाहोत्तरार्धेन । आसमन्तात् अस्य परमपुरुषस्य नाम अखण्डशब्दब्रह्मरूपत्वेन जानन्तः, विवक्तन विशेषेण वदत । नाम्नः स्वरूपं रश्मिः । यदिच्छति तस्य त'दिति श्रुत्या। उक्तश्रुताविति। तैत्तिरीयश्रुतौ। शेषमिति। एवं सतीत्यारभ्य वेत्यन्तं व्याख्येयम् । अत्र तदुक्तेति । वेदोक्तकर्मणः । 'पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहे'त्यत्रेवात्रापि वेदाध्ययने वेदमात्रग्रहणम् । तथात्वं निष्फलत्वम् । एवं शेषं स्फुटम् । अन्वयेति । यत्र यत्र तदज्ञात्तु- वेंदाध्ययनसद्भावस्तत्रतत्र पुरुषोत्तमरूपमुख्यफलमित्यन्वयः, तस्य व्यभिचारे सति निदर्शनं दृष्टान्तम् । श्रीभागवतवाक्यं कर्तृ । निदर्शनमाहेत्यर्थः । निदर्शनं त्वेवम् । यत्र भक्ते संसाराभावस्तत्र पुरुषोत्तम- प्रसङ्ग इति । निदर्शनं न दृष्टान्तः, किंतु भगवत्प्राप्तिः करणव्युत्पत्त्या तत्राहुः अथवेति । अग्रिमेणे- ति । श्रुतिशेषेण । वाक्यशेषोऽप्ययम् । श्रुतिः 'ऋचो अक्षरे परमे व्योम'न्निति । य इदित्यादीति । य एवेश्वरत्वेन तत्पूर्वोक्तमित्यादिः । इम इतीदम् प्रत्यक्षगे रूपमत आहुः श्रीगोकुलेति । वैकुण्ठस्थेषु गोकुलस्यत्व एवेम इति प्रयोगः । प्रणवार्थेति । अयमर्थो गायत्र्यर्थकारिकासु श्रीमद्गोस्वामिभिः स्पष्टी-