अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2009, कुल 2600 में से
संदर्भ में पढ़ें५४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४१. महस्ते विष्णो सुमतिं भजामहे' इत्याद्यृग्भिरन्येभ्यो धर्मेभ्यः सकाशाद्भगवद्धर्मे- ष्वादरः श्रूयते इति तेषां अलोप एवेत्यर्थः । एतेन 'अकरणे प्रत्यवायश्रवणा'दित्यादि यदुक्तम्, तदपि प्रत्युक्तं वेदितव्यम् । करणेपि वैयर्थ्यात्तदपरिहारात् । एवं सति यदकरणे प्रत्यवायकथनम्, तेन तस्यावकाशं प्राप्य गौणकालेप्यकरणे तथेति तस्याशय इति ज्ञायते ॥ ४० ॥ नन्वेवं तात्पर्यकत्वे श्रुनेरुपनयनादिवत् कर्मोपयोगित्वं भक्तितज्ज्ञानयोः स्यादिति कर्मण एव प्राधान्यम्, न तु भक्तेः सिध्यतीत्याशङ्क्य, भक्तितज्ज्ञाना- वश्यकत्वबोधकश्रुतितात्पर्यमाह । उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥ भाष्यप्रकाशः। [L1