अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1992, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३३१ अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ (३-३-१२.) अथ ज्ञानमार्गे यथा स्वात्मत्वेन ब्रह्मणो ज्ञानम्, तथा भक्तिमार्गेऽपि भक्त्या पुरुषोत्तमज्ञाने स्वात्मत्वेन पुरुषोत्तमज्ञानं भवति, न वेति विचार्यते । सर्वान्तरत्वेन श्रुतौ कथनात् तत् भवतीति पूर्वः पक्षः । तथात्वेपि 'सर्वस्य वशी सर्वस्येशान' इत्यादिश्रुतिभिरेवमेव ज्ञानम्, न तु तथेति सिद्धान्तः । अत्र तथा भाष्यप्रकाशः । अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ अधिकरणमवतारयन्ति अथेत्यादि । यथा ज्ञानमार्गेऽक्षरधियः स्तूयन्ते, तथाऽभेदोपासनापीति भक्तिमार्गे अक्षरधीविनियोगविचारोत्तरम- भेदधीस्मरणाज्ज्ञानमार्गे पूर्णज्ञानसम्पत्तौ यथा स्वात्मब्रह्माभेदानुभवात्मिका वृत्तिर्भवति, तथा भक्तिमार्गे सिद्धायां भक्तौ 'भक्त्या मामभिजानाती'ति वाक्यावेदिते ज्ञाने स्वात्मपुरुषोत्तमा- भेदानुभवात्मिका वृत्तिर्भवति, न वेति संशये विचार्यत इत्यर्थः । पूर्वपक्षमाहुः सर्वान्तरत्वेनेत्यादि । बृहदारण्यके कहोडप्रश्ने उषस्तप्रश्ने च 'यत्साक्षादप- रोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे'ति, तदुत्तरवाक्ये च 'एष त आत्मा सर्वान्तर' इति याज्ञवल्क्येन सर्वान्तरत्वेन कथनात्, अन्तर्यामिब्राह्मणे च 'यः पृथिव्यां तिष्ठन् यः पृथिवीमन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयती'त्यारभ्य, 'य आत्मनि तिष्ठ'न्नित्यन्तैर्वाक्यैः परमात्मा सर्वान्तरत्वेन श्रावितः । स च यदन्तस्तिष्ठति, तं स्वान्तः स्थापयति, बहिरिवायोगोलकमित्यन्तर्यामिब्राह्मणे सिद्धम् । तथा सति श्रौतेन येन केनापि साधनेन तस्मिन्नभिज्ञायमाने स्वात्मनस्तद्व्याप्तत्वेन भेदास्फुरणात् स्वात्मत्वेन ज्ञानमदण्डवारितम्, अतस्तद्भवतीति पूर्वः पक्ष इत्यर्थः । सिद्धान्तमाहुः तथात्वेपीत्यादि । ब्रह्मणः सर्वान्तरतया एतदात्मनस्तदविभक्तत्वेपि 'सर्वस्य वशी'त्यादिश्रुतिभिः सर्वेशितृत्वादिरूपेणैव ज्ञानम्, उत्कटया भक्त्या तेषामेव स्फुरणात्, न तु स्वात्मत्वप्रकारकमित्येष सिद्धान्त इत्यर्थः । नन्वभिज्ञाने सर्वांशज्ञानदर्शनात्तदंशाज्ञाने को हेतुरित्याकाङ्क्षायां हेतुं गृह्णन्ति अत्र तथेत्यादि । विपरीतः इति । स्वात्मत्वेन ज्ञाने । एतदेव रश्मिः । अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५ ॥ एष इति । समीपतरवर्ती । स्थापय- तीति । स्वाश्रयाश्रयत्वार्थं तथा । तस्मिन्निति । पुरुषोत्तमे । अभीति । 'भक्त्या मामभिजानाती'ति वाक्यं स्मारितम् । अदण्डेति । यथा दण्डेन गामभ्याज्येत्यत्र दुष्टायां गवि दण्डोपयोगः, तथाऽदुष्टे पूर्वपक्षज्ञानमदण्डेन वारितमित्यर्थः । एतदात्मनः समीपतरवर्तिजीवात्मनः । एवेति । श्रीगोस्वा- मिनां महाविष्णुत्वेन टिप्पण्युक्तदिक् परस्याप्यभिप्रेतेत्येवकारः । तेषामिति । सर्वेशितृत्वादीनाम् । अयमर्थः । टिप्पण्यां श्रीगोस्वामिभिः 'समुद्दिजे भवद्धेतो'रित्यत्र ब्रह्मविद्यायां देवक्यां भक्तिमार्गीयासामग्र्या ज्ञानमार्गीयासामग्रीबाधोपपादनात्तेषामिति । अधुनापि तथैव भक्तप्रत्यक्षविषयत्वेनैवैवकारः । स्वात्म- त्वेति । स्वात्मत्वप्रकारकपुरुषोत्तमविशेष्यकं ज्ञानमित्यर्थः । तदंशेति । ईक्षत्यधिकरणे यावद्धर्मत्वेना- ज्ञानमुक्तमत्राभिज्ञाने तदंशाज्ञाने को हेतुरिति प्रश्नः । अत्र तथेत्यादीति । वृतभक्ते स्वात्मत्वेन पुरुषो- १. स्वात्मवेनेति पाठः । २. अक्षरधीविचारेणाभेदज्ञानस्मरणानन्तरं ज्ञानमार्गे इति पूर्वः पाठः श्रीहस्ताक्षरेषु । 1867