अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1993, कुल 2600 में से
संदर्भ में पढ़ें३३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १२ सू० ३५. ज्ञानाभावस्यावश्यकत्वार्थं विपरीते बाधकमाह । पूर्वस्मिन् सूत्रे ब्रह्मानन्दात् भजनानन्दस्याधिक्यं निरूपितम् । स तु भगवद्दत्तः । तद्व्यवधायकोऽर्थश्च प्रभुणा न सम्पाद्यते । स्वात्मत्वेन ज्ञानं च भजनानन्दान्तरायरूपम् । यद्येतत् सम्पादयेत्, तं न दद्यात्, अग्रेऽन्यथाभावात्, अतः स्वात्मत्वेन ज्ञानं भक्तिमार्गीयस्य न सम्भव- तीत्याशयेनाह अन्तरा स्वात्मन इति। भगवता भक्तिमार्गे स्वीयत्वेनाङ्गीकृतो य आत्मा जीवस्तस्य यदात्मत्वेन ज्ञानम्, तत् भजनानन्दानुभवे अन्तरा व्यवधान- रूपमिति भगवता तादृशे जीवे तन्न सम्पाद्यत इत्यर्थः । तत्सम्पादनस्य सर्वथैवा- सम्भावितत्वं हीनत्वं च ज्ञापयितुं दृष्टान्तमाह भूतग्रामवदिति । उक्तभक्तस्य विग्रहोऽप्यलौकिक इति तत्र लौकिको भूतग्रामो न सम्भवति, हीनत्वात्त- भाष्यप्रकाशः । विभजन्ते पूर्वस्मिन्नित्यादि । 'इयदामनना'दिति सूत्रे अक्षरस्य गणितानन्दत्वबोधनेन ब्रह्मानन्दाद्भजनानन्दस्याधिक्यं निरूपितम् । स भजनानन्दस्तु कृपाधिक्येन भगवता दत्त इति तद्व्यवधायकोऽर्थो भगवता न सम्पाद्यते । 'स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमै- च्छ'दित्यादिश्रुतिभ्यो मुख्यभक्तिमार्गस्य क्रीडार्थत्वावगमाद्भेदे च क्रीडाया असम्भवात् । स्वात्मत्वेन ज्ञानं हि 'यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्ये'दिति श्रुतेर्भेदविलायकत्वेन भजनानन्दान्तरायरूपं यदि स्वात्मत्वेन ज्ञानं सम्पादयेत्, भजनानन्दं न दद्यात्, अग्रे विलयेन तस्यान्यथाभावात्, अतः स्वात्मत्वेन ज्ञानं भक्तिमार्गीयस्य पूर्णदशायां न सम्भवतीत्याशयेन स्वात्मत्वेन ज्ञाने बाधकमानेन सूत्रेणाहैत्यर्थः । सूत्रं व्याकुर्वन्ति भगवतेत्यादि । अन्तरेति मध्यवाचकमव्ययम् । तथाच व्यवधायकमित्यर्थः । नन्वस्तु तस्यान्तरायत्वम्, तथापि तन्न सम्पादयतीति कथमवगन्तव्यमित्यत आहुः तत्सम्पादनस्येत्यादि । अलौकिक इति । साक्षात्सम्बन्धस्य हेये लौकिकविग्रहे असम्भवादलौकिकः । हीनत्वाच्चेत्यर्थ इति । तथाच चिकीर्षितलीलाप्रतिबन्धकत्वेन हीनत्वाद्भूतग्रामवदन्तरायत्वं दृष्टान्तेनावगन्तव्यमित्यर्थः । लौकि- रश्मिः । त्तमज्ञानाभावस्य । बाधकमिति । अन्तरायत्वरूपं बाधकं सूत्रकार आह दत्त इति । सर्वात्मभावो दत्त इति तत्फलं सोपि दत्तः । फलसाधने एकीकृत्य निरूपिते वा । अर्थ इति । अभेदः । नेति । भक्त- वश्यत्वादिति भावः । भक्तभावस्तु 'भद्रं कर्णेभिः शृणुयाम देवा' इति श्रुत्युक्तः । एकाकीति । एता- वत्पर्यन्तमेकाकी पुरुषविधः । अहङ्कारपाप्मदाहमयविशिष्टः । मुख्येति । भक्तिमार्गेऽहंकारादिसत्त्व एका- कित्वम्, ज्ञानमार्गे तु न, ब्रह्मातिरिक्ताहंकारादेर्लयात् । कर्ममार्गे तु कर्मरूपीश्वरः । अतोऽत्र भक्ति- मार्गस्येत्युक्तम् । मुख्यत्वं त्रिषु मार्गेषु । स्वात्मत्वेनेत्यादिभाष्यं विवृण्वन्ति स्म स्वात्मत्वेनेति । भजनानन्देति । सर्वात्मभावजन्यभजनानन्दान्तरायरूपम् । ज्ञानमिति । पुरुषोत्तमज्ञानम् । भज- नानन्दमिति । भाष्यीयस्य तमितिपदस्यार्थः । अग्र इति भाष्यार्थोऽग्र इति । तस्येति । भक्तैः सह निगूढभावकर्तुः श्रीपुरुषोत्तमसेवार्थ्येन भेदेन लीला अनुभ(ाव)वतः अन्यथाभावोऽभेदेन भावः । बाधक- मिति । विभाज्यस्यानुवृत्तिः । भगवतेत्यादीति । ननु जगद्व्यापारवर्जेऽधोक्षजे स्वात्मत्वेन ज्ञानम- सम्भवीयत आहुः स्वीयत्वेनेति । तथाच 'नायमात्मा प्रवचनेन लभ्य' इति श्रुतिविषयभक्तविषयं पुरुषोत्तमस्य स्वात्मत्वेन ज्ञानं सम्भवतीति भावः । तादृश इति । वृते । नेति । अन्यत्राप्राप्तं व्रेत प्राप्तं नेत्यर्थः । तत्सम्पादनस्य अभेदसम्पादनस्य । उक्तेति । वृतभक्तस्य पुरुषोत्तमशरीरत्वेन तस्य विग्रहोपि 1868