अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2016, कुल 2600 में से
संदर्भ में पढ़ेंतत्फलस्यानिवार्य्यता युक्तैवेति हिशब्देनाह। ज्ञानमोक्षादिना तद्भावाप्रतिबन्धश्च फलमित्यर्थः । प्रासङ्गिकमेतत्सूत्रम् ॥ ४२ ॥ इति तृतीयाध्याये तृतीयपादे पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ भाष्यप्रकाशः। बन्धाभावश्च फलमिति भक्तिविचारे मुख्यभक्तेरपि स्मृत्या प्रसङ्गत उक्तमित्यर्थः । अस्मिन् इदं केवलं सूत्रमेव, न त्वधिकरणम् । एतज्ज्ञापनायोक्तमेतत्सूत्रमिति । अत्रान्ये तु, 'ओमित्येतदक्षरमुद्गीथमुपासीते'त्यादीनि कर्माङ्गान्यपासनानि तत्तत्कर्मसु जुहूपर्णतादिवन्नित्यं क्रतुसम्बन्धीनि न वेति शङ्कायां न नित्यानीति सिद्धान्तयन्ति । 'अङ्गेषु यथाश्रयभाव' इत्यन्तिमाधिकरणं चैतस्यैव प्रपञ्च इत्याहुः । तत्तेनैवास्य गतार्थत्वाद्वैयर्थ्यमस्य सूत्रस्य तन्मते दुर्वारमिति ज्ञेयम् ॥ ४२ ॥ इति पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ [